SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ लोकपमापत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् लोकाप्रामाण्यात्-लोकस्याप्रमाणत्वसिद्धेः, नित्यः शब्दोऽकृतकत्वादाकाशवदिति नित्यत्वे सिद्धे तहलानित्यानित्याद्यनेकरूपैकवस्तुप्रतिपत्तिर्लोकेऽप्रमाणं भवतीत्यत्रोच्यते न, अविशेषादिष्वसतः पक्षादेरुपादानाल्लोकाभ्युपगमादिति सर्व सर्वात्मकमित्येतस्मिन्नविशेषकान्तेऽभ्युपगते पुनर्नित्यः शब्द इत्यस्य पक्षस्य तद्धेतोदृष्टान्तस्य चाभावः पूर्वोक्तभ्यो हेतुभ्यो निर्विशेषत्वादिभ्यः। तथा विशेषैकान्ते पूर्वोक्तहेतुभ्य एव परोक्षादीनामभावः, निर्मूलत्वादिभ्य उभयानेकत्वैकान्तेऽपि परस्पर विभिन्नस्वभावानां सामान्यविशेषकार्यकारणानामभाव इत्युक्तम् , तस्मादविशेषादिष्वसतः पक्षादेर्लोकप्रसिद्धस्योपादानालोक एव पुनरभ्युपगतो भवत्यगतिभिः शास्त्रविद्भिः, तस्माल्लोकाभ्युपगमाल्लोकः प्रमाणीकृत एव, किश्चिदकिश्चित्तथाऽन्यथेत्यादिपरस्परविलक्षणव्यवहाराभ्युपगमाच्च लोकाप्रामाण्यं न सिद्ध्यतीति, ते यूयं सुदूरमपि गत्वा लोकमेव शरणं गन्तुमर्हाः शास्त्रविदः । एवं शास्त्रव्यवहारो लोकदर्शनमन्तरेण न सिद्ध्यति, लोकवदेव चार्थ इति व्यव-10 स्थाप्य शब्दप्रयोगात् । (एवमिति) एवं शास्त्रव्यवहारो लोकदर्शनमन्तरेण न सिद्ध्यतीति, वाक्यविषयः पदविषयो वा, ततः साक्षात् लोकपक्षापत्त्याऽभ्युपगमविरोध इत्युक्तः, तथा तद्विषयः खवचनविरोधोऽपि प्रतिपत्तव्यः । कस्मात् ? लोकवदेव चार्थ इति व्यवस्थाप्य शब्दप्रयोगात् , लोकेन तुल्यं वर्तते, लोकस्येव, लोक इव वा लोकवत् , एवेत्यवधारणे, किमवधारयति ? लोकेऽर्थमवधारयति, नार्थ लोकं शास्त्रविदा- 15 मपि लोकत्वात् , पृथक्त्वेऽप्यर्थलोकयोरुभयत्र वाऽयमेवकारो द्रष्टव्यो लोकवदेवार्थोऽर्थवदेव लोक इति द्वयोरपि परस्पराव्यभिचारात् , शास्त्रविदां लोकपृथक्त्वे लौकिकार्थपृथक्त्वे च तत्कल्पितार्थानामिति । इतिशब्दः प्रकारे, अनेन प्रकारेण व्यवस्थाप्य-बुद्ध्याऽभ्युपगम्य स्वनिश्चितार्थप्रतिपादनार्थ परेषां शब्दप्रयोगात्, पदावधिको वाक्यावधिको वा शब्दप्रयोगव्यवहारो लोकानुपातीत्यनिष्टकैरपि शास्त्रकारैः। 20 तत्र चतथा सत्यत्वसिद्धे शब्दार्थे ततः पुनर्न यथालोकग्राहं वस्त्विति विरुद्ध्येत ।। (तथेति) तेन प्रकारेण तथा, येन प्रकारेण मृदूपादिपृथुकुक्ष्यादिकेऽर्थे घटशब्दो लोकेन प्रयुक्तस्तेनैव प्रकारेण सत्यत्त्वेन सिद्धे-सत्यत्वसिद्धे लोके शब्दं प्रयुञ्जानैः शास्त्रविद्भिर्लोकोऽभ्युपगतोऽपगम एवं नारिख, पदतदर्थविभागस्यापारमार्थिकत्वात् , किन्तु वाक्येभ्योऽपोत्य-कल्पनाबुसा पदं पृभा निकृष्येयं 24 प्रकृतिरेष प्रत्ययः अयमस्य पदस्यार्थ इत्यादिकल्पना क्रियते, केवलं पदार्थो एव वाक्यार्थबुद्धविधातारः पदानि च खं खमर्थमभिधाय निवृत्तव्यापाराणि न वाक्यार्थजनकानि ततः पदविषयाभ्युपगमप्रयुक्तदोषो नास्ति, अखण्डं वाक्यमेव शब्दः तदर्थ एव शब्दार्थस्तस्मात् प्रतिज्ञैव शब्दार्थः तदर्थप्रतिपादनायेतरावयववाक्यानि, तान्यन्तरेण प्रतिज्ञातार्थस्य लोकाप्रामाण्यस्यासिद्धेरेवमेव पदविक्याभ्युपगमादषि लोकप्रामाण्यसिद्धिरिति पूर्वपक्ष्यभिप्रायः । सामान्यादिवादे पक्षादेर्वस्तुनोऽभावालोकाश्रयेण पक्षाशीकारे तु कथं लोकस्याप्रमाणत्वं सिदित्याह-अविशेषादिग्विति । वाक्यविषयः पदविषयो वा 30 शास्त्रव्यवहारो लोकादर्शनमन्तरेण न सिजाति तदभ्युपगमे लोकपक्षापत्त्याऽभ्युपगमविरोध इत्याह एवमिति । कुतो न सिजातीयत्राह-लोकवदेवेति । अर्थानुसारेण न लोकः किन्तु लोकानुसारेणार्थ इत्याह-लोकेऽर्थमिति । ननु शास्त्रविद्भिर्योऽर्थो निर्णीयते स कथं लोकवदित्यत्राह-शास्त्रविदामपीति । पृथक्त्वेऽपीति, शास्त्रविद्भय इत्यादिः । शालषिदामिति, शास्त्रविदा लोकभिन्मत्वे तत्प्रतिपादितार्थानां लौकिकार्थभिनत्वे च लोकवदेव चार्थ इत्मभ्युपगमविसेष इति भावः । द्वा. न.१ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy