________________
६६
द्वादशारनयचक्रम्
[विध्यरे स्माभिरित्युक्तमेव भवत्यर्थात् , ततः पुनर्न यथालोकग्राहं वस्त्विति विरुद्ध्येत, लोकस्य ग्राहो लोकप्राहा, प्राह इव प्राहः, यो यो लोकग्राहो यथालोकग्राहम , किं तत् ? वस्तु, यथैवाऽऽगोपालप्रसिद्धं वस्तु बुबाणो वादी यो यो मया शब्दः प्रयुज्यते स स न तथार्थः स्यादित्यादि स्ववचनेनैव विरु
दमाह, स्ववचनेन तद्वचनं विरुद्ध्येत, विरुद्ध्येतेत्याशङ्कावचने लिङ्, कथं मुखनिष्ठुरं विरुद्ध्यत एवेत्य5 वधार्योच्येत ?, कथञ्चिद्विरुद्ध्येतेति दाक्षिण्यमाचार्यः स्वकं दर्शयति, एवं तावत्स्ववचनविरोधः ।
___ लोकविरोधः प्रस्तुत एव, तदविरोधेऽप्रवृत्तेः। (लोकेति) रूढिविरोधो लोकविरोधः, स तु प्रस्तुत एव, तदविरोधेऽप्रवृत्तः, तेन लोकेनाविरोधे शास्त्राणामप्रवृत्तेः, तस्या रूढेः शब्दप्रयोगादेवाभ्युपगताया विरोधमनुपपाद्य शास्त्राणामविशेषविशेषोभयानेकत्वैकान्तप्रतिपादनार्थानामप्रवृत्तेः, कथमप्रवृत्तिः ? तानि रूढमेवार्थमनुब्रूयुः, अरूढं 10 वोत्पादयेयुः, यदि रूढमनुवदन्ति व्यर्थानि । अथारूढं व्युत्पादयन्ति रूढिविरोधिनमर्थ विरुध्यन्त एव लोकेन निःसंशयमिति साधूच्यते तदविरोधेऽप्रवृत्तेर्लोकविरोधः प्रस्तुत एवेति ।
किश्चान्यत्
लोकाप्रामाण्ये वा शास्त्रकाराणां सर्वत्र पदे वाक्ये प्रत्यक्षानुमानविरोधावुपस्थितावेव, तत्स्थत्वात्तयोः। 15 (लोकेति) तत्र तावदंशे प्रत्यक्षविरोध इत्याद्यभिहितं पूर्वमिदानी सर्वत्र प्रत्यक्षविरोधो वाच्य इति विशेषः, अनुमानविरोधो वा नोक्तः सोऽभिधेयः, तदनुषङ्गेण पुनः प्रत्यक्षविरोधवचनं च तत्पूर्वकत्वादनुमानस्येति शास्त्रकारप्रवृत्तेर्लोकविरुद्धत्वादेव प्रत्यक्षानुमानविरोधावप्युपस्थितावेव, एवेत्यवधारणे, न न भवतों भवत एवेत्यर्थः । किं कारणं? तत्स्थत्वात्तयोः, लोकनाद्धि लोकः, अनुपहतेन्द्रियमनस्कः प्राणिगणो लोक इत्युच्यते, तयोस्तस्मिंल्लोके स्थितत्वात् प्रत्यक्षानुमानयोः, लोकश्चेदप्रमाणं लोकस्य प्रत्य20 क्षानुमाने प्रागेवाप्रमाणे, अथवा स एव स्थितः तत्स्थः 'सुपि स्थः' (पा० अ० ३ पा० २ सू० ४) इति वचनात्, लोक एव प्रामाण्येन व्यवस्थितः, क ? तयोः प्रत्यक्षानुमानयोः, स एव लोकः प्रत्यक्षानुमानज्ञानाधारत्वात्तद्रूपापत्तेश्च प्रत्यक्षमनुमानञ्च ततस्तदप्रामाण्ये तयोरप्रामाण्यमिति ।
स्यान्मतं भवताम्
कथं प्रमाणज्येष्ठं प्रत्यक्षमप्रमाणीक्रियेतेति, तत्र वः सम्प्रचारमिमं प्रयच्छामि, शास्त्र25 वदेव प्रत्यक्षमपि लौकिकप्रत्यक्षविलक्षणं तथानुमानञ्चास्तु तयोरप्यलौकिकत्वकल्पनार्थ
सामान्यविशेषकान्तसंवादि घटादिकल्पनापोढं प्रत्यक्षं कल्प्यम् । विरुद्ध्यत इति निश्चयेन किं नोक्तं सम्भावनायां विरुद्ध्येतेति कुत उक्तमित्याशङ्कायामाह विरुद्धयेतेतीति, यदि लोकोऽभ्युपगम्यते तर्हि तत एव वस्तुसिद्धेः शास्त्रारम्भो वृथा यदि नाभ्युपगम्यते तर्हि लोकविरोध इत्याशयेनाह-तदविरोध इति, लोकाविरोधेन शास्त्र प्रवर्तनीयमन्यथा तस्याप्रवृत्तिः स्यादिति भावः । अरूढमित्यस्यैव व्याख्या रूढिविरोधिनमर्थमिति । पौनरु30स्यमपाकरोति तत्र तावदिति । एवकारोऽध्याहार्येण भवत इति पदेन योज्यस्तथा चाभवन प्रतिषेधः फलतीत्याशयेनाह
नेति । तयोरिति.प्रत्यक्षानुमानयोर्लोक एव स्थितत्वादित्यर्थः।लोकसम्बन्धिनोः प्रत्यक्षानुमानयोरप्रमाणत्वे शास्त्रविदस्तयोः किमायातमतस्तयोः प्रमाणता स्यादेवेति शङ्कायां तस्या अपि दूरीकरणाय व्युत्पत्त्यन्तरमारचयत्यथ वेति, प्रत्यक्षानुमानयोर्विषये लोक एव प्रामाण्येन व्यवस्थितो नान्यः कचिदिति तदप्रामाण्ये तयोरप्रामाण्यमेवेतिभावः । प्रत्यक्षस्य ज्ञानात्मनो ज्येष्ठतामाह
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org