________________
प्रत्यक्षस्थालौकिकत्वम्] न्यायागमानुसारिणीव्याख्यासमेतम् ___(कथमिति) तदपि प्रत्यक्षमेवं कल्प्यं शास्त्रवदेवेत्यादि, शास्त्रे ज्ञातेऽपि तद्विहितक्रियासा. ध्यत्वादिष्टफलस्य क्रियायाश्च व्यभिचारात् , ज्ञाने यथोक्तम् "जानानाः सर्वशास्त्राणि च्छिन्दन्तः सर्वसंशयान् । न च ते तत्करिष्यन्ति गच्छ स्वर्ग न ते भयम्” इति, तस्माज्ज्ञानं फलस्याव्यभिचारि कारणं क्रियासाधनवादिनोऽपि, किमङ्ग पुनर्ज्ञानमात्रसाधकवादिन इति । तदेव विचार्यते शास्त्रवदेवेत्यारभ्य यावद्व्यञ्जनकाय इति, शास्त्र इव शास्त्रवत्, यथा शास्त्रेऽभिहिताः पदार्था अत्यन्त- । विलक्षणास्तथा प्रत्यक्षमपि लौकिकप्रत्यक्षविलक्षणं तथाऽनुमानश्चास्तु, तयोरप्यलौकिकत्वकल्पनार्थप्रत्यक्षानुमानयोरप्यलौकिकत्वस्य कल्पनार्थ लक्षणान्तरं कल्प्यम् , किं तत् ? सामान्यविशेषकान्तसंवादि-सामान्यं च विशेषश्च सामान्यविशेषौ, सामान्य विशेषौ च सामान्यविशेषौ च सामान्यविशेषा इत्येकशेषः, सरूपत्वात् । सामान्यमेव न विशेषः, विशेष एव न सामान्य तौ परस्परविलक्षणौ चेति त एवैकान्ता लौकिकपदार्थविलक्षणाः शास्त्रेषु कल्पितास्तैः संवदितुं शीलमस्य तदिदं सामान्य- 10 विशेषैकान्तसंवादि, घट आदिर्यस्याः कल्पनायाः सा घटादिकल्पना, घटसंख्योत्क्षेपणसत्ताघटत्वाद्यध्यारोपात्तस्याः, ततः कल्पनाया अपोढं प्रत्यक्षं कल्पनीयम् । स्यादाशङ्का कल्पनापोडं प्रत्यक्षं विशेषैकान्तवादिन एव मतं नेतरयोस्तयोः कथमलौकिकत्वमिति चेदत्रोच्यते यत्तावद्विशेषमात्रस्खलक्षणविषयमनिर्देश्यं प्रत्यक्षं तत्कल्पनापोढत्वादलौकिकं तत्सामान्यानात्मकत्वात् खपुष्पवदसदिति सिद्धम् , तथा विशेषानात्मकत्वात् खपुष्पवत् सामान्यमानं सर्व सर्वात्मकं कल्पनापोढं वस्तु तदसत्, अस- 15 स्वात् तज्ज्ञानमपि तद्वत् । तथोभयानेकत्वैकान्ते तयोरितरेतरानात्मकत्वात् खपुष्पवदभाव इत्यलो. किकत्वम् । यद्यपि सामान्यविशेषव्यपाश्रयं लक्षणमभिहितं-श्रोत्रादिवृत्तिः प्रत्यक्षम्, "आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्" (वै० अ० ३ आ० १ सू० १८) इत्यादि । तथापि सामान्यविशेषकान्तवादिनां बलात्तदेव कल्पनापोढमलौकिकश्चेत्यापन्नम्, तस्य चोभयात्मकत्वाभ्युपगमे प्रतिज्ञाहानिः, अथवा तेनैव दूषितत्वात् कस्तौ हतौ हनिष्यतीति तस्यैवोपरि बध्यते परिकर इत्यनेनाभि- 20 प्रायेण पूर्वमेव तत्परिकल्पितप्रत्यक्षलक्षणमुपन्यस्यति दूषयितुकामः सूरिरित्यलमतिप्रसङ्गेन । .
शास्त्रे ज्ञातेऽपीति । प्रत्यक्षस्य ज्येष्ठत्वं पूर्ववर्तित्वात् , निखिलप्रमाणोपजीव्यत्वात् सर्ववादिनामविप्रतिपत्तेश्च । एकशेष इति, तेनोभयैकान्तवादस्यापि लाभो बोध्यः । घटसंख्येति, क्रमेण द्रव्यगुणकर्मसामान्यविशेषाभिप्रायेण । सामान्यवादिनोभयवादिना वा प्रत्यक्षलक्षणं विषयघटितं न कृतमित्याशङ्कते यद्यपीति । श्रोत्रादिवृत्तिःप्रत्यक्षमिति, इदं सांख्यानां प्रत्यक्षलक्षणम् , वृत्तिरिति व्यापारः, कारणैः फले जनयितव्ये चरमभाविधर्मो फलोत्पादानुकूलो व्यापार उच्यते 25 यथा पटे जनयितव्ये तन्तुभिश्चरमभाविनः संयोगविशेषाः, तथा च प्रतिबिम्बरूपेण लब्धविषयाणामिन्द्रियाणां सन्निकर्षे सति बुद्धेर्यस्तमोलक्षणावरणानादरपूर्वकसत्त्वप्रकाशबाहुल्यरूपो धर्मविशेषः सोऽध्यवसाय इति वृत्तिरिति ज्ञानमिति चाभिधीयते, लब्धविषयाणामितीन्द्रियविषयसन्निकर्षाभिधानम् , स च तमोऽभिभवे हेतुः सत्त्वोद्रेक एव वृत्तिपदार्थः, तत्र च तमोऽभिभवो हेतुरतः सामान्यरूपविषयनिवेशोऽस्ति लक्षणेऽस्मिन्नित्यलौकिकत्वमस्त्येवेति भावः । एवमुभयानेकत्वैकान्तवादिप्रत्यक्षलक्षणेऽपि बोध्यम् । बौद्धेनैव सामान्योभयकान्तवादिलक्षणयोर्दषितत्वात् प्रकृते कल्पनापो प्रत्यक्षमित्यनेन बौद्धमत एव निराक्रियत इति 30
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org