________________
द्वादनमरमपंचक्रम्
[विध्यरे - प्रकृतमुच्यते अथ का कल्पना ययाऽपोढं ज्ञानं प्रत्यक्षमिति ? अत्रोच्यते
नामजातिगुणक्रियाद्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानुस्मरणं विकल्पना ततोऽपोढमक्षाधिपत्येनोत्पन्नमसाधारणार्थविषयमभिधानगोचरातीतं प्रत्यात्मसंवेद्यत्वात् प्रत्यक्षमक्ष
मक्षं प्रति वृत्तः पञ्चेन्द्रियजम् । ... (नामेति) नामजातिगुणक्रियाद्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानुस्मरणं विकल्पना ततोऽपो
ढमपेतं, नाम संज्ञा शब्द इत्यनर्थान्तरम् , तहारिका कल्पना, सा द्विविधा समासतो यादृच्छिकी नैमित्तिकी च, नामग्रहणाद्यादृच्छिकी, जातिग्रहणाच्च नैमित्तिकी गृहीता, निमित्तनिरपेक्षं नाम याहच्छिकं डित्थो डवित्थ इत्यादि शब्दद्वारा च सत्यामपि जात्यादिनिमित्तापेक्षायां भिन्नाम्, तत्र गौरिति जात्या,
शुक्ल इति गुणतः, मतुब्लोपादभेदोपचाराद्वा विशेषणस्वरूपायत्तं ततो विशेषणादन्यद्वस्तु तयोर्विशेष10 णविशेष्ययोरभेदसम्बन्धनात्मिकया कल्पनया पूर्वं मनसा निरूप्यते पश्चादनुस्मयते । तथा डित्थादिष्वप्यस्येदं सोऽयमिति वा भिन्नयोरर्थाभिधानयोरभेदसम्बन्धनया निरूपणानुस्मरणे, शब्दार्थयोनिमित्तनैमित्तिकयोभिन्नयोरभेदाध्यारोपात् । क्रियाशब्देषु कारक इत्यादिषु नाभेदोपचारोऽभिन्नरूपत्वात् क्रियाक्रियावतोरतो न निरूपणं किन्त्वनुस्मरणमेव, सर्वत्र शब्दार्थाभेदोपचारान्निरूपणानुस्मरणे स्त एव । तथा द्रव्यशब्देषु संयोगसमवायनिमित्ताद्दण्डी विषाणीत्यादिषु । तस्याः कल्पनाया अपोढं, अक्षा15 धिपत्येनोत्पन्नमिति, "रूपालोकमनस्कारचक्षुर्यः सम्प्रवर्तते । विज्ञानं मणिसूर्यांशुगोशकृन्य इवा
नलः ॥” चक्षुः प्रतीत्य रूपं चालोकं बाह्यमान्तरं निरुद्धमनःसंज्ञितं चित्तं चित्तान्तरानवकाशदानास्मकं प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते, चतुर्भिश्चित्तचैत्ता इति सिद्धान्तात् । तथापि चाधिपतिना चक्षुषा
अपदिश्यते चनुर्विज्ञानमित्यसाधारणकारणत्वात् , यथा यवाङ्कुर इति बीजतुवारिमारुताकाशसंयोगे सत्यपीति, असाधारणार्थविषयमिति चक्षुरादिविज्ञानानां परस्परविविक्तरूपादिनिर्विकल्पस्खलक्षणविषय20 कल्पान्तरमाहाथवेति । सत्यामपि जात्यादिनिमित्तापेक्षायामिति, यदृच्छाशब्दत्वेन डित्यादयो ये शब्दाः
प्रतीतास्तेऽपि कालप्रकर्षमर्यादावच्छिन्नवस्तुसमवेतां जातिमभिधेयत्वेनोपाददते प्रतिक्षणं वस्तुमेदात् तथापि लोकप्रसिद्धिमनुरुध्य पृथक् नामग्रहणम् , गवादयो हि शब्दा लोके जातिशब्दतया प्रतीता डित्थादयस्तु संज्ञाशब्दत्वेनेति । एवञ्च पञ्च कल्पना भवन्ति जातिगुणक्रियाद्रव्यनाममेदात् , ताश्च कल्पनाः क्वचिदमेदेऽपि मेदकल्पनात्, क्वचिच्च मेदेऽप्यमेदकल्पनादित्याशये. नाह तत्रेति । मतुबिति, गुणवचनेभ्यो मतुबो लुबिष्ट इति वचनात् । मतुबभावेऽपि गुणगुणिनोरमेदकल्पनया शुक्लो घट 25 इति व्यपदिश्यते, तत्र प्रथमं विशेषणस्य जातिगुणादेर्शानं ततो विशेष्यविशेषणभावकल्पनेति बहुप्रक्रियापेक्षं कल्पनाज्ञानम्, यदाह-विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा सकलं चैतत्तथा प्रत्येति नान्यथा ॥ इति ॥ अपोढमिति, अपेतं कल्पनाखभावरहितमित्यर्थः । अधिपतिना चक्षुषेति, खखविषयाणामुपलब्धौ पञ्चानामिन्द्रियाणामाधिपत्यं बोध्यम् , चतुर्भिश्चित्तचैत्ताः चित्तमर्थमात्रप्राहि, चैत्ता विशेषावस्थाग्राहिणः सुखादयः, चित्तचैत्ता हि चतुर्हेितुप्रत्ययसमनन्तरप्रत्ययाऽs
लम्बनप्रत्ययाधिपतिप्रत्ययरूपैरुत्पद्यन्त इति सिद्धान्तः 'सम्प्रयुक्तकहेतुस्तु चित्तचैत्ताः समाश्रिताः' तुल्याश्रयाणि चित्तवेत्तानि 30 परस्पर सम्प्रयुक्तहेतवः, अन्योऽन्यफलार्थेन सहभूहेतवः यथा परस्परबलेन मार्गपरायणाः सहसार्थिकाः ते हि चित्तवेत्ताः सा
श्रया इन्द्रियाश्रयत्वात् , सालम्बनाः विषयालम्बनत्वात् , साकारा विषयाकारत्वात् , सम्प्रयुक्ताः अन्योऽन्यमिथुनखभावात्, श्रुतचिन्ताभावनादयो धर्माः सम्प्रयुक्तकहेतवः प्रायोगिकहेतव इति चोच्यन्ते। यथेति, यथा बीजकालधरणिसलिलसंयोगादिस. सवधाने जायमानोऽप्यङ्करो न कालाङ्करः सलिलाङ्करो धरण्यङ्कर इति व्यपदिश्यते तस्य कालादिधर्मत्वाभावादपि तु बीजनैव ध्यपदिश्यते यवाकरः शाल्यङ्कर इति तस्याधिपतिना जातत्वादेवं ज्ञानमप्यसाधारणकारणेनेन्द्रियेण जातत्वात्तेनैव व्यपदिश्यत इति भावः । असाधारणार्थविषयमिति, योऽसाधारणभूतोऽर्थः स एव प्रत्यक्षप्रात्यो न तु सामान्यभूतोऽर्थः। असाधार
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org