________________
खलक्षणविचारः] न्यायागमानुसारिणीव्याख्यासमेतम् त्वात् , अभिधानगोचरातीतं मनोनिरूपितार्थविषयत्वादभिधानस्य तद्गोचरातीतम् , किं कारणम् ? प्रत्यात्मसंवेद्यत्वात् , आत्मानमात्मानं प्रति प्रत्यात्म, प्रत्यात्मना संवेद्यते नान्यस्मै शक्यमाख्यातुं शूलादिवेदनास्वरूपवत् , ज्ञानमित्यन्यत्रासम्भवात् सम्बन्धः प्रत्यक्षमक्षमक्षं प्रति वृत्तेः पञ्चेन्द्रियजम् ।।
चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलमित्यभिधर्मागमोऽपि, प्रकरणपदेऽप्येनमेवार्थ भावनयाऽनया विशेषयत्यर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति,
(चक्षुरिति) चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलमित्यभिधर्मागमोऽपीति विधेः तमेतल्लौकिकप्रत्यक्षविलक्षणं कल्प्यमानमचीक्नृपः, तवागमोऽप्येवमेवेति दर्शयति, चक्षुर्विज्ञानसमङ्गी चक्षुर्विज्ञानसमन्वयी सन्तानः, अगि रगि लगि गत्यर्थाः चक्षुर्विज्ञानं समङ्गितुं शीलमस्पेति चक्षुविज्ञानसमङ्गी, एवं श्रोत्रादिबिज्ञानसमङ्गिनः, नीलं विजानाति-रसादिविविक्तं रूपं स्खलक्षणं विजानाति, नो तु नीलमिति विजानाति, इतिशब्दस्य शब्दपर्यायत्वादिदं तन्नीलमिति शब्दनिर्देश्यं न बिजा- 10 नाति, अपटुत्वादिन्द्रिय विज्ञानस्य कुतः शक्तिरेवं कल्पयितुम् । प्रकरणपदेऽप्युक्तमिति, भवत्सङ्गताग. मव्याख्यानग्रन्थान्तरेण तदर्थानुवादिनाऽभिहितमिति दर्शयति । नीलः स नामनीलं निस्तोकः पदे तन्नीलमेतदिति नाम्ना निर्देशो नीलमस्य नामैतनिरूपणविकल्पकृतं न नीलार्थः, नीलस्य रूपस्य वस्तुनश्चक्षुरिन्द्रिय विषयस्य परमार्थः । स्वरूपतोऽनक्षरः, अक्षरैर्व्यञ्जनपदनामकायैरनभिलपनीयः, स च पुरुषो निरूपणकाले स्वयं निश्चिन्वन्ननुस्मरणकाले चानुस्मरन् परं प्रतिपिपादयिषया नीलमिति वाचं भाष- 15 माणो नीलस्वार्थमनभिलाप्यस्वरूपं स्वज्ञानांशक्दविकल्पं न पश्यति तदा तत्स्वरूपविषयस्याविकल्पख नीलार्थविज्ञानस्य च विरुद्धत्वात् , तदन्यस्य नीलशब्दाभिलाप्यस्याध्यारोपितस्य सामान्यस्पेन्द्रियगोचरानागतेरेतस्यैवार्थस्य भावनात् , तुशब्दो विशेषणार्थः, एनमेवार्थ भावनयाऽनया विशेषयति, भवत्येवार्थः, तं भवन्तं भव भवेति बुद्धौ भावयति यया व्याख्यया सा भावना का पुनः सा ? अर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति, एतस्य भावनावाक्यस्य पुनर्व्याख्या-अर्थे रूपादिके प्रत्यक्षविज्ञानविषये 20 रूपरसगन्धशब्दस्प्रष्टव्यलक्षणे स्वरूपसंज्ञी, रूपादिमात्रसंज्ञी, संजानातीति संज्ञी, स्वरूपसंज्ञाऽस्यास्तीति षा स्वल्पसंज्ञी । किमालम्बना सा संज्ञा किंवरूपा वा यया सम्प्रयुक्तं तत्प्रत्यक्षं रूपादिचित्तं निर्विकल्पं चैत्तसिक्या सम्प्रयुक्तधर्माख्यया योगात् संझया संज्ञीत्युच्यते तत्सन्तानः ? इत्यत आह-अर्थस्वरूपविशेषमात्रालम्बनया निर्विकल्पया संज्ञया सम्प्रयुक्तमिति, गतार्थ व्याख्यातत्वाद्भाष्येण । तदेवं स्वलक्षणविषयं स्वमेव विशेष एव लक्षणं लक्ष्यत इति लक्षणं "कृत्यल्युटो बहुल"मिति (पा० ३।३१११३) 25 कर्मणि ल्युट् प्रत्ययः, स्खलक्षणमनन्यविषयमित्यर्थः । अस्य सन्तानस्येति, चक्षुर्विज्ञानसमङ्गिनः, चक्षु
णत्वञ्चार्थस्य सजातीयविजातीयव्यावृत्तत्वादिति । चक्षुरिति, अभिधर्मागमादीनां प्रन्थानामनुपलम्भायथाशक्ति बौद्धग्रन्थोऽयं प्रकाश्यत इति सुधीभिर्भाव्यम् । परमार्थ इति, चक्षुरिन्द्रियविषयस्य परमार्थस्य नीलरूपादेर्वस्तुनो न निरूपणविकल्पकृतो निर्देश: सम्भवति, परमार्थता च नीलादेरकृत्रिमत्वादनारोपितत्वादिति भावः । नीलस्वार्थमिति, परमार्थसनीलखलक्षणमित्यर्थः, तद्धि नाभिलाप्यमिति बाग्व्यवहारकाले न दृश्यम् , यच्चाभिलापयोग्यं गौरिति समारोपितं सामान्यं न 30 तच्चक्षुरादीन्द्रियविषयं सङ्केतस्मरणादिसामध्यपेक्षत्वेनेन्द्रियादिना व्यवहितत्वात्तस्मान्न नीलादिखलक्षणं विकल्पविषय इति भावः । तुशब्द इति, मो तु नीलमिलत्र तुशब्द इति भावः, विषिष्टतामेवाह-एनमिति । पुमास्येति,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org