________________
२५६
द्वादशारनयचक्रम्
[विधिविध्यरे किश्चान्यत्
नियतिप्रतिपादनपरिक्लेशाभ्युपगमाच्च नावश्यम्भावाव्यभिचारिदर्शनविपर्ययार्थप्रवृत्तेरभ्युपगमविरोधः, स्ववचनपक्षधर्मत्वादीनां प्रवृत्त्यैव निराकरणं प्रमाणमन्तरेणापीति ।
(नियतीति) पुरुषकालस्वभावादिदर्शनानां नियत्यैवाव्यभिचारिणां-तदविनाभाविनामव्य5 भिचारादेव त्वयाऽभ्युपगतानां परवादिभिश्च स स एवेत्यभ्युपगतानां त्वया पुनस्तद्विपर्ययार्थ-नियतिरेव कारणं न कालादय इति प्रतिपादनाथ प्रवृत्तिरङ्गीकृता । यदि तानि दर्शनान्यनया प्रवृत्त्याऽपनीयन्ते नावश्यम्भावीनि तानि, अथावश्यम्भावीन्येव नापनीयन्तेऽनयापि प्रवृत्त्या ततो नियत्यर्थ परदर्शनविपर्ययमापादयामीत्ययमभ्युपगमो निवर्तत इत्युभयथाऽभ्युपगमविरोधः । स्ववचनपक्षधर्मत्वादीनां प्रवृत्त्यैव निराकरणं-येयं पक्षहेतुदृष्टान्ताद्यवयवोच्चारणे प्रवृत्तिस्तया स्ववचनं परमतनिरा10 करणसमर्थमिति मतं प्रवृत्त्युपलभ्यं स्वत एव नावश्यम्भवतीति स्वीक्रियते, तदा नियत्यभावः,
अथावश्यं स्वत एव भवति प्रवृत्तिरनार्थका प्रतिपादनासमर्थवचनिका, प्रवृत्तिवचनयोरनियतार्थत्वात् , हेतुः पक्षधर्मों हेयार्थप्रतिपत्तिनियतोऽवश्यंभावी प्रवृत्तिमन्तरेण चेत् प्रवृत्तिरनर्थिका, नावश्यंभावी चेन्नियत्यभावः, एवं दृष्टान्तोऽपीति व्याख्येयम् । अतः प्रवृत्त्यैवाभ्युपगतया वचनहेतुदृष्टान्तानां निराकरणं प्रमाणमन्तरेणापीति । 16 कथं पुनराचारोपदेशानर्थक्यदोषाभावः ? लोकागमादिविरोधाभावश्चेत्येतत्प्रतिपादनार्थमाह
अतः इयं भावनोच्यते, धर्मार्थकाममोक्षाः कालकृताः एवं चतुर्वर्गसाध्यसाधनसम्बन्धार्थाः सर्वशास्त्रारम्भाः कालसामर्थ्यादेव सफलाः, उक्तभावनावत् ।
__ अत इत्यादि, अतः-प्रागभिहितकालकार्यत्वहेतोः सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानां सर्वशास्त्रार्थत्वायेयं पुनर्भावनोच्यते, धर्मार्थकाममोक्षाः कालकृताः, एवं चतुर्वर्गसाध्यसाधनसम्ब
20 कालवादप्रतिक्षेपपूर्वकं नियतिव्यवस्थापनं केवलं तव प्रयास एव, कालवादिनैव कालस्य व्यवस्थापितत्वात् किमपरमवशिष्यते
यत्त्वया प्रतिपादनीयं भवेदित्याह-नियतीति । पुरुषेति, स स एवेति, पुरुष एव काल एव खभाव एवेत्यर्थः । ननु पुरुषादिवादिभिरविनाभावित्वेनाभ्युपगतानां पुरुषकालस्वभावानां पुरुषकालनियतित्वेन संज्ञामात्रामभिधायाभ्युपगमे तेषां नियतित्वप्रतिपादनं तव क्लेश एव, निरूपणीयान्तराभावात. तथा तन्मतप्रतिक्षेपपूर्वकं नियतिरेव कारणमिति प्रतिपादनार्थमङ्गीकृतप्रवृत्तिपरित्यागादभ्युपगमविरोधः, पुरुषादीनामवश्यंभावित्वेनाभ्युपगतत्वात् , नियतेरेव कारणत्वे पुरुषादीनामनावश्यकतया क्रियानियत्याद्यभ्युपगमविरोधाचेति भावः। तमेवाभ्युपगमविरोधं स्फुटयति-यदि तानीति, तर्हि पुरुषादीनामभ्युपगमो व्यर्थ इति भावः। तेषां सार्थकत्वे वाह-अथावश्यमिति। ननु त्वदीया परमतनिराकरणप्रवृत्तिः पुरुषादीनां नावश्यम्भावित्वाव्यभिचारिणीति मन्यते तर्हि नियत्यभाव एव स्यात्, प्रवृत्त्या पुरुषादिनियतीनां नावश्य भावित्वसिद्धः, यदि तु प्रवृत्तिर्न नावश्यंभावित्वाव्यभिचारिणी तर्हि तेषामवश्यं भावित्वात्तनिराकरणाय त्वदीया प्रवृत्ति निष्फलैवेत्याह-येयमिति ववचनं परमतनिराकरणसमर्थम. तथाविधप्रवृत्तरित्यनुमानं विवक्षितमिति प्रतिभाति । हेतु30 रिति, प्रवृत्तिव्यतिरेकेण हेतुरपि यदि हेयार्थप्रतिपत्ताववश्यनियतस्तत एव तर्हि तत्सिद्धौ प्रवृत्तियों भवेत् , यदि
प्रवृत्तिरप्यपेक्षिता तदा नियतत्वाभावः सिद्ध्येदिति च प्रतिभाति । ननु कालवादे कथमाचारस्योपदेशस्य नानर्थक्यं लोकागमादेरविरोधश्च तथाविधकालादेव सर्वसम्भवादित्याशङ्कते-कथं पुनरिति, सर्वशास्त्राणि हि धर्मार्थकाममोक्षलक्षणचतुवर्गफलानि, तदर्थमेव तेषां प्रवृत्तेः, तथा च धर्मादिशास्त्रयोः कार्यकारणत्वेन कालकार्यत्वानानर्थक्यमित्याह-अत इति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org