________________
सर्वस्व कासात्मता] न्यायागमानुसारिणीब्याख्यासमेतम् न्धार्थाः सर्वशास्त्रारम्भाः कालसामादेव सफला नान्यथेति प्रतिपद्यस्व, कथं ? उक्तभावनावत् , उक्ता भावना रूपादिघटादियुगपद्वृत्त्यात्मककालरूपं बीजाङ्कुरादिपूर्वोत्तरक्रमवृत्त्यात्मककालरूपञ्च जगदनियतपरिणतश्चेति, तस्मादुक्तभावनावदनियतेधर्माद्यर्थानामाचाराणां पूर्वापरीभूतक्रियात्वात् क्रियार्थत्वाञ्चोपदेशानां कालस्य च पूर्वापरीभूतस्य क्रियात्वात् सार्थकाः शास्त्रारम्भाः ।
यथा ब्राह्मणस्य वसन्तेऽन्याधानं, वणिजां मद्यस्य, ईश्वराणां क्रीडादीनाम् , निष्कम.. णमित्यादि यावद्विमोक्षं यतीनाम्।
यथा ब्राह्मणस्येत्यादि, एवञ्च कृत्वा कालकृतत्वात् क्रियाक्रियाफलानां धर्मार्थकाममोक्षार्थैः शाखैरेव विहिताः क्रियाः, तद्यथा यथाक्रमं धर्मादिषु-ब्राह्मणस्य वसन्तेऽम्याधानम् , वसन्ते ब्राह्मणो यजेत प्रीष्मे राजन्यः, शरदि वा यजेत वैश्यः' इत्यादिवचनात् । तथा वणिजां मद्यस्य, आधानमिति वर्त्तते । ईश्वराणां क्रीडादीनाम् , उद्यानगमनवासन्तिकवस्त्रालङ्कारमाल्यगन्धभोजनादिसेवनं 10 रमणमिति, आदीनामित्यादिग्रहणात् सन्धिविग्रहासनयानादिगुणानुष्ठान मियादि । निष्क्रमणमित्यादि यावयतीनाम् , निष्क्रमणकालादारभ्य यावद्विमोक्षं, विमोक्षणसात्मकर्मवियोगफलस्य मोक्षस्य कालो यतीनां निष्कमणादेः कालः, यथोक्तं 'अप्पणो निक्खमणकालं आमोएता चइत्ता रजं (कल्पसूत्रे) इत्यादि । तथा दण्डकपाटमन्थानलोकपूरणक्रियामिः तत्काले कर्मत्रिकस्वाऽऽयुषा समीकरणमित्यादि ।
अनियतचेतनाचेतनत्वपरिणतिक्शाजीवपुद्गलानामनाद्यनन्तवर्तनात्मस्वतत्त्वानां वृत्तेः 18 कलनात्मक रूपं भूयो भूयो विपरिवर्ततेऽतोऽतीतानागतवर्तमानवतैनात्मकमेकं कूटस्थमविपाल्यनपायोपजनविकार्यनुत्पत्त्यवृख्यव्यययोगीत्यादिनित्यलक्षणं कलनं कालस्वरूपतदात्मकत्वभावेनैव वर्तते ।
अनियतचेतनाचेतनत्वेत्यादि यावत् कलनं कालस्वरूपतदात्मकत्वभावेनैव वर्त्तते, अनियतं चैतन्येनोपयोगरूपादित्वेन रूपे चेतनाया उपयुक्तत्वात् , अचेतनत्वेनाप्यनियतं, चैतन्योपयो- 20 गापस्योपयुक्तत्वात् , अयवा तृणादेर्गवाद्यभ्यवहृतस्य सुखदुःखादिचैतन्यापत्तेर्द्रव्यस्य प्राणाद्यापत्तेकथं तद्वि:यमित्याह-उक्तभावनावदिति। धर्माद्यर्थानामिति, धर्मादिलक्षणफलस्य तद्विषयप्रवृत्तेश्च पूर्वापरीभूतकियास्मतया शास्त्रोपदेशानाच तत्र पुरुषप्रवृत्त्यर्थत्वात् कालस्य पूर्वापरीभूतक्रियात्मकतया सार्थकत्वं शास्त्रारम्भाणां सर्वेषामिति भावः। धर्माधर्ष शास्त्रविहिताः क्रियाः क्रमेणाह-यथेति, ब्राह्मणराजन्यवैश्यानां वसन्तग्रीष्मशरत्सु अन्याधानं धर्माय, वेश्यस्य मद्याधानमर्थाय, राज्ञां क्रीडायाधान कामाय, यतीनां निष्क्रमणादिक्रियाः मोक्षायेति भावः । क्रीडापदग्राह्यमाह-उस नगमनेति। आदिपदमाघमाह-सन्धिविग्रहेति, सन्धिविग्रहयानासनद्वैधसमाश्रयाः षड्गुणाः प्रभावोत्साहमंत्रजाः शकयस्तिम इति नीतिशास्त्रम् । अपणो इति, आत्मनो निष्क्रमणकालं ज्ञानेनावलोक्य त्यक्त्वा राज्यमिति छाया, शैलीशीकरणं सातावेदनीयनायगोत्राख्यकर्मत्रिकस्वाऽऽयुषा समीकरणं भगवतः समुत्पन्न केवलस्य सप्तसामयिकमाह-तथा दण्डेति, तत्र प्रथमक्षणे आत्मनो दण्डकरणं द्वितीये कपाटकरणं तृतीये मन्थानकरणं चतुर्थे लोकपूरणं पुनरुपसंहारप्रक्रियया पञ्चमे मन्धानकरण षष्ठे काटकरणं सप्तमे दण्डकरणमिति । कालात्मत्वं सर्वस्याह-अनियतेति, जीवो हि चेतनत्वेनैव किन्तु परस्पररूपापत्याउनाद्यनन्तशः परिणममानो वर्तते, तथावर्तनाखरूपाणां जीवपरमाणूनां भूयो भूयो विपरिवृत्त्यभ्या. वृत्तिभ्यां वृत्तिवर्तनाकलनात्मकोऽतीतानागतवर्तमानात्मक एकः काल एवेति भावः । अनियतमिति, जीवो न चेतनत्वेनैव नियतः, नवा पुद्गलोऽचेतनत्वेनैव, रूपाद्यचेतनेधूपयुक्तस्य चेतनस्याचेतनत्वात् , अचेतनस्य च ज्ञानोपयोगात्मना परिणतस्म बेतनखरूपत्वादिति भावःप्रकारान्तरेणाचेतनस्य चेतनरूपतां दर्शयति-अथति एवं जीवाजीक्योरनायमन्तशोऽन्योऽन्य
बा• न० ३३
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org