________________
२५८ - द्वादशारनयचक्रम्
-- [विधिविध्यरे व्यप्राणातिपातादिभावः, कालक्रमागतपरिणतिवशादुपशमक्षयक्षयोपशमोदयपरिणामभावैश्वे जीवपुद्गलयोरनाद्यनन्तशो वर्तनात् । न केवलं चेतनाचेतनयोः परस्पररूपापत्तिर्वृत्तिर्वर्त्तनम् , किं तर्हि ? अचेतनस्यापि पृथिव्यादित्वेनापि तथा, तद्यथा-एकजातित्वात् पुद्गलानां पृथिव्युदकज्वलनपवनवनस्पत्यादित्वेन विपरिवर्त्तमानपरिणतीनामनाद्यनन्तश एवंवृत्तिर्वर्त्तनं तस्याऽऽत्मा स्खं तत्त्वं येषां पर• माणूनां ते परमाणवः, तेषामनाद्यनन्तवर्त्तनात्मस्वतत्त्वानां वृत्तेः कलनात्मकं रूपं भूयो भूयो विपरिवर्त्ततेऽभ्यावर्त्तते च, रूपरसादिभेदेन विपरिवर्त्तते, तद्गुणभेदेनापि एकद्वित्रिसंख्येयानन्तगुणभागहीनवृद्ध्या कृष्णशुक्लत्वादिना वाऽभ्यावृत्तिः, एकांशस्यापि परमसूक्ष्मरूपादिभावपरमाणोरप्यनाद्यनन्तशोऽभ्यावृत्तिः, अतस्तदतीतानागतवर्तमानात्मकमेकं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगीत्यादि (महा०-१-१-१) आदिग्रहणाद् ध्रुवादिसर्वनियलक्षणम् , एतदेव कलनात्मकं सत् 10 कारणमुपपद्यते, न तु पुरुषनियत्यादि, नित्यत्वं पूर्वापरीभूतभावात्मकविपरिवर्तकलनस्यादिमध्यावसानादर्शनादेवं लक्षणस्य नित्यत्वस्य तस्माद्विश्वविवर्त्तवर्तनायाः कलनं, काल इत्यभिसम्भत्स्यते ।
। तच्च द्विविधमस्मदाद्यसर्वज्ञं प्रत्यनुमानमात्रगम्यमविविक्तमुद्देशतोऽतीतानागतवर्तमानवर्त्तनाकलनम् , अमितपूर्णकोष्ठागारधान्यकलनवत् , सर्वज्ञं प्रति परमनिरुद्धे काले समये
समये वृत्तविविक्तवर्तनासंख्यानं कालः । 18 (तचेति) तच्च कलनं द्विविधम् , अस्मदाद्यसर्वज्ञ प्रत्यनुमानमात्रगम्यमविविक्तम्-सर्ववस्तुसामान्यमात्रग्रहणम् , अमितपूर्णकोष्ठागारधान्यकलनवत् , यथा धान्यममित कोष्ठागारे पूरितं कुम्भशतसहस्रा-. धन्यतमपरिमाणमित्युद्देशतो गृह्यते तथोद्देशतोऽतीतानागतवर्तमानवर्त्तनाकलनमस्मदादिमिः । सर्वज्ञ प्रति परमनिरुद्धे काले समये समये वृत्ताया विविक्तया वर्तनायाः संख्यानं कलनं तत् कालः, कल संख्यान. इति प्रतीतेः। यथोक्तं 'जं जं जे जे भावे परिणमति पयोगवीससादवं । तं तह जाणाति जिणो 20 अपज्जवे जाणणा नत्थि ॥' ( आव०नि० गा० २६६७) इत्येतद्वर्त्तनात्मस्वतत्त्वकालनिरूपणम् । .
स तथाभूतेन कलनार्थेन तां वर्तनामेव सामान्यामत्यजन् भूतो भवति भविष्यंश्चेति विशेषव्यपदेशं लभते नान्यः कश्चिन्नियत्यादिः, असत्त्वात् , अन्यथाऽन्यस्याभावात् , यथा कुसुमं परिणामैवर्तनमित्याह-कालक्रमागतेति । विजातीयपरिणामवत् सजातीयपरिणाममप्याह-न केवल मिति वैशेषिकमतवन्न परमाणवो विभिन्नजातीया नियताः किं त्वेकजातीयाः पुद्गला एव कालिकविचित्रपरिणामवशात् पृथिवीजलादित्वं भजन्त 26 इत्याह-एकजातित्वादिति तथा तथा वर्तनलक्षणपरिणामा जीवपुद्गलानामात्मान एव न व्यतिरिच्यन्त इत्याह-एवं वृत्तिरिति । वस्तुतो नित्यात्मनैकेन कालेन प्राण्यप्राणिरूपान् भावान् तेन तेन परिणामेन प्रकाशयन् कलयति भूतानीति काल उच्यत इति भावः । रूपरसादिभेदेन विजातीयेन परिणमनं विपरिणामः, सजातीयेनैव वृद्धिहानि विशेषाभ्यां परिवर्तनमभ्यावृत्तिरित्याह-रूपरसादीति । स च कालः संसर्गिवस्तुक्रियाविशेषोपहितनानात्वोऽप्येको नित्य इत्याह-अतस्तदतीतेति । ननु पूर्वोपरीभूतभावपरिणामकलनात्मकस्य कालस्य कथं नित्यत्वमुत्पादविनाशशालित्वादित्याशंक्य प्रवाहतस्तस्य नित्यत्वम् , 30 आदिमध्यावसानादर्शनादित्युत्तरयति-नित्यत्वमिति । कालस्य सर्वज्ञासर्वज्ञापेक्षया द्वैविध्येन संख्यानं भवतीत्याह-तच्चेति।
अस्मदादिभिरसर्वज्ञैः कालः सामान्यरूपतयाऽनुमानेन गृह्यते महति धान्यागारे परिपूर्णधान्यराशेः कुम्भशतसहस्रादिपरिमितत्वेन सामान्यतो ग्रहणवदित्याह-अविविक्तमिति, साकल्येनेयत्तया ग्रहीतुमशक्यमित्यर्थः । सर्वज्ञस्तु प्रतिसमयभाविनं सूक्ष्मतममपि वर्तनापर्यायं सम्यक् पश्यतीत्याह-सर्वशं प्रतीति । सर्वज्ञः सर्वं यथावजानातीति प्रतिपादिकां गाथामाह-जं. जं इति । वर्तनात्मा काल एव भूतभविष्यद्वर्त्तमानरूपो भवतीत्यादर्शयति-स तथाभूतेनेति, त्रिविधः परिणामो भवति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org