________________
झानादिनैक्यता कालस्य ] न्यायागमानुसारिणीव्याख्यासमेतम्
२५९ खपुष्पं न भवति घटो वा पटतया, तदेव तद्भवति तदेव चान्यथाऽपि भवति, कारणभेदेनापि स एव तथा कलयन् वर्त्तनेन कल्पते तेन च तस्मै चेत्यादि । ... स तथेत्यादि, स एव-कालस्तथाभूतेन-वर्तमानरूपेण कलनार्थेन सामानाधिकरण्येन तां वर्त्तनामेव सामान्यामभिन्नामत्यजन भूतो भवति भविष्यश्चेति विशेषव्यपदेशं लभते, नान्यः कश्चिदकलनात्मकपदार्थो नियत्यादिः, असत्त्वात् । स एव कलनालक्षणो भावस्त्रिधा भिद्यते, तत्समानाधिकरण-5 त्वात् सत्त्वात्मकत्वात् , घटवत्, न व्यधिकरणो भूतो भवति भविष्यंश्चाकाल एव व्यधिकरणोऽसद्रूप एव, किं कारणं ? अन्यथाऽन्यस्याभावात् , अन्यो ह्यन्यथा न भवति, यथा कुसुमं खपुष्पं न भवति, खपुष्पं वा कुसुमं न भवति, घटो वा पटतया न भवति पटो वा घटतया न भवति, किं तर्हि ? तदेव तद्भवति, कुसुमेव कुसुमम् । तदेव चान्यथापि भवति, यथा कुसुममेव मुकुलितार्धविकसितसमस्तविकसितजरन्म्लानत्वादिना । एवं तावत् काल एव भाव इत्यभेदेन भवनं व्याख्यातम् । कार-10 णभेदेनापि स एव तथा कलयन् वर्त्तनेन कल्पत इति, कल्पनस्य कर्तृत्वमनुभवतीति कलनं भवतीत्यर्थः, स एव कल्पते-क्रियते कर्म भवतीत्यर्थः, पूर्वापरतया कार्यकारणभावात् , तेन च तस्मै चेत्यादि, तस्यैव कलनस्य शक्तिभेदात् तेन क्रियते इति करणता, तस्मै क्रियत इति सम्प्रदानता, आदिग्रहणात् तस्मात्तस्मिन्नित्यपादानाधिकरणभावोऽपि तस्यैव ।
इदानीं कालस्य त्रिधा भिन्नस्याप्यभेदोपदर्शनार्थं ज्ञानेन क्रियया चैक्यमुच्यते- 15
एवमेव च स वर्तमानातीतयोः कारणावस्थयोरेव कार्यस्याभिमुख्येन गृह्यते, यथासंख्यमेकत्र पटादिरेकत्र मेघादिः,
एवमेव चेत्यादि, यावदेकत्र मेघादिरिति, ज्ञानेन तावदेकत्वं दृश्यते, एवमेवेति, यथैव कर्तृकर्मकरणादिशक्तिभेदेऽप्यभिन्नः कालस्तथा स वर्तमानातीतयोः कारणावस्थयोरेव-सप्तम्यन्तनिर्देशोs. धर्मधर्मिणोर्भेदमालक्ष्य धर्मपरिणामः लक्षणपरिणामोऽवस्थापरिणामश्चेति, तत्र भूतानां पृथिव्यादीनाञ्च धर्मिणां गवादिर्घटा- 20
मः, धर्माणाञ्चातीतानागतवर्तमानरूपता लक्षणपरिणामः, वर्तमानलक्षणापन्नस्य गवादेबाल्यकौमारयौवनवाधक्यमवस्थापरिणामः, घटादीनामपि नवपुरातनताऽवस्थापरिणामः, एवञ्च वर्तनालक्षणो धर्मः स खलु प्रादुर्भावकालेऽनाग. तलक्षणमध्वानं हित्वा वर्तमानं लक्षणं प्रतिपद्यते तथा वर्तमानलक्षणं हित्वाऽतीतं लक्षणं प्रतिपद्यते, हानमपि न विनाशो नवा उत्पत्तिः, किन्त्वाविर्भावतिरोभावावेव, अतो योऽनागतो धर्म आसीत् स एव वर्तमानभूतोऽतीतो भविष्यतीति त्रिलक्षणावियुक्त इति बोध्यम् । ननु सत एवाविर्भावतिरोभावदर्शनादर्थक्रियाकारिण एव च सत्त्वानियत्यादेश्चैकान्तनित्यस्यार्थक्रिया- 25 कारित्वाभावेनासत्त्वान्न कारणत्वमित्याह-नान्य इति । हेतुमाह-अन्यथेति,। यथेति, सन्नासद्भवतीत्यर्थः । खपुष्पं वेति. असद्वा न सद्भवतीत्यर्थः। तदेवेति. धर्मिणि वर्तमानस्यैव धर्मस्य वर्त्तमालक्षणस्यातीतानागतवर्तमानावस्थासु भावान्यत्वं भवति, भावः-संस्थानभेदः, यथा सुवर्णभाजनस्य भित्त्वाऽन्यथा क्रियमाणस्य भावान्यथात्वं भवति नतु सुवर्णान्यथात्वमिति भावः। तत्र दृष्टान्तमाह-यथा कुसुममेवेति । काल एव कर्तृत्वकर्मत्वकरणत्वसम्प्रदानत्वापादानत्वाधिकरणत्वान्यनुभवति शक्तिमेदादित्याह-कलन भवतीत्यर्थ इति । पूर्वोपरीभावेन कारणकार्यभावादिति भावः । कत्तकर्मत्वादि-30 शक्तिमेदादेव भेदव्यवहारोपपत्तेर्जगत्कारणस्य कालाख्यस्य न मुख्ये भेदोऽस्ति, वर्तमानशक्तिसम्बन्धेन भावानां सतामेवाभिव्यक्तिर्जन्म, अतीतानागतकालशक्तिसम्बन्धेन सतामेव तिरोभावोऽदर्शनमनभिव्यक्तिर्विनाशः प्राक्प्रध्वंसाभाव इति शक्तिभेदात् कार्यभेदोपपत्तौ कालभेदकल्पना निर्निमित्तेत्याह-यथैवेति । अतीतावस्थायामुत्तरावस्थाभिमुख्येन-अर्थक्रियाया -निवृत्ततया वर्तमानावस्थायाञ्च कार्यस्याभिमुख्येन-अर्थक्रियां कुर्वता स एव कालो गृह्यते न तु वर्तमानकालोऽतीतकालो वा भिन्नतया गृह्यत इति भावः । वर्तमानावस्थायामिति, पटादेः कार्यस्य वर्तमानावस्थायामेव तेन सह पूर्वाह्नापरा- 35
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org