________________
२६०
द्वादशारनयचक्रम् यम् , कार्यस्याभिमुख्येन गृह्यते-कार्याङ्गीकरणेन तत्प्राधान्येन तदात्मनेति यावत् , वर्तमानायला कार्यस्याभिमुख्येन, अतीतावस्थायाश्चोत्तरावस्थाभिमुख्येन स एव कालो गृह्यते, किमुक्तं भवति । कल्पते-ज्ञायते । यथासंख्यमेकत्र पटादिरेकत्र मेघादिः, वर्तमाने पदादिः, अतीते मेघादिः, तद्यथा
पुरुषो हि पूर्वाह्ने पटं पश्यन्नपराह्वेऽपि पट एवायं श्वोऽप्यपरेधुरुत्तरेधुरपि वा पट एवेति वर्तमानकालेऽपि । पटमेष्यत्कालेऽपि पटमेव मन्यते । मेघे चोन्नतमात्रे वर्षति पयः, ततः प्रलहीबीजमुत्पद्यते मूलङ्करादि
भवति ततः प्रलहीपोण्डं ततः कार्पासः ततः सूत्रं ततः पद इत्यतीतकाल एवैष्यत्कालं पटं मन्यत इत्यतः कार्याख्याभिमुख्येन स एव कालोऽतीतो वर्तमानश्चाभेदेन गृह्यमाणो दृष्टस्तस्मादभिन्नः ।
एवं ज्ञानेनैक्यमापाद्य क्रिययाऽप्यैक्यमापादयत्यतिदेशेन
ग्रहणवञ्च स एव क्रियते तथावृत्तेः क्रियया कल्पत इति नाममात्रेणैव भेदात् , तयो10 रप्यनागते कार्येऽतीतवर्तमानयोः कारणाख्याभिमुख्येन कार्याख्याभिमुख्यकारणैक्यवद्रहणकरणयोः समानता दृश्यते, यथा संयोगतन्त्वाधुदकगर्भसर्जनपाचनादिवर्तनपटत्ववत् ।
(ग्रहणवचेति ) ग्रहणवच्च स एव क्रियते, किं कारणं ? तथावृत्तेः,-एवं हि वर्त्तनं, सैव हि क्रिया यथा गृह्यते तथा क्रियतेऽप्यसावेवाभेदेनेति तत्कारकार्थं दर्शयति-क्रियया कल्पत इति, एवं सावदतीतवर्तमानयोः कारणयोः कार्याख्याभिमुख्येन ग्रहणकरणाभ्यामैक्यम् । नाम आख्या शब्दः, Wशब्दमात्रेणैव भेदात् । तयोरप्यनागते -तयोः कारणयोरप्यनागते कार्येऽतीतवर्तमानयोः करणाख्याभिमु
ख्येन कार्याख्याभिमुख्यकारणैक्यवत् ग्रहणकरणयोः समानता-कल्प्यमानता दृश्यते ततोऽप्यैक्यमेव, तद्यथा-संयोगतम्त्वाादकगर्भसर्जनपाचनादिवर्तनपटत्ववत् , यथा तन्तूनां संयोगं दृष्ट्वा सूतकापासमलहीपोण्डप्रलहीमूलाङ्कुरादिजलसर्जनपाचनधारणमेघकलनानि वृत्तानि तथा च क्रियन्त इति तान्येव वर्त्तनानि पट इति एष्यत्पट एव, तथा तन्तुवायस्य ग्रहणकरणाभ्यां प्रवृत्तत्वात् वर्तमानातीतपत्ता दृष्टेत्यैक्यमेव ।
अत एव च कलनमेवैकं कार्यकारणवृत्तित्वेन विपरिवर्तितुं क्षममपुरुषकारमस्वभावमहादिकालस्यामेदेन ग्रहणं भवतीति ज्ञानेनैकत्वं तयोरिति भावः । अतीतावस्थायाञ्चेति उन्नतं मेघ दृष्ट्वा तदैव तस्मैको सरावस्थायाः पयोषीजमूलाङ्घरकार्पासादेः कालेनैक्यमभिमन्यते इति भावः । तदेवं ज्ञानेनैक्यं प्रतिपादयित्वा क्रिययाप्पैक्यमापादयति-ग्रहणवञ्चेति, ज्ञानवचेत्यर्थः, वर्तनालक्षणः काल एव यथा गृह्यते तथैवाभेदेन क्रियत इत्यर्थः । प्रलहीति, 26 'प्रलही ववणं तूलो रूवो इति पाई. ना० २५५ गाथा, 'पोंडा वमणी तस्य फलं' नि० चू० ३ उ० । सैवेति, वर्तनरूपैकेत्यर्थः, शब्दमात्रेणैवेति, अतीतवर्तमानयोः नाममात्रेणैव केवलं भेद इत्यर्थः । भूतमिदं भविष्यदिदमिति प्रत्ययौ ज्ञानेब समुत्पद्यमानौ खतो वर्तमानकालावपि विषययोः स्वकालविरुद्धयोभूतभविष्यतोराकारमपरित्यक्तवर्तमानखसंवेदनरूपेण धारयत इति वस्तुत ऐक्यं केवलं नामत एव भेद इति भावः प्रतिभाति । अथातीतवर्तमानयोः स्वखकार्येणाभेदं ग्रहणक्रियाभ्यामुपपादयित्वाऽनागतकार्यस्यातीतवर्तमानलक्षणकारणेन सह ग्रहणक्रियाभ्यामभेदं दर्शयति-तयोरपीति, दृष्टान्तं दर्शयति-कार्या30 ख्याभिमुख्येति, कल्प्यमानता-सम्पद्यमानता रूपान्तरापन्नतेति यावत् । तन्तुवायः पटं वयन् तन्तूनां संयोगं दृष्ट्वा तन्तूनां पूर्वपूर्वपरिणामलक्षणवर्तनास्तथोत्तरपरिणामलक्षणवर्तनाश्च गृह्णाति तथाकरोति चेति तस्य ग्रहणक्रियाभ्यां ताः सर्वा वर्तना अभिक्षा एव कालात्मान इत्याह-यथा तन्तूनामिति । रूतेति रूतशब्दस्तूलविशेषे, कार्पासपक्ष्माणि च, अथ वर्तनस्य क्वापि प्रतिबन्धाभावात् सर्वत्रानुवृत्तापित्वाच सर्वकारणत्वं तस्यैव, अपेक्षणीयान्तराभावात् , अतोऽयमेव कार्यकारणरूपेण परिवर्तनक्षम इत्याह-अत एवेत्यादिना । न पुरुषोऽनन्यसाधनम्, पुरुषकारणत्वे पृथिव्यायचेतनानां कारणानुरूपत्वासम्भ
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org