________________
पुरुषस्य संसराभावः] न्यायागमानुसारिणीव्याख्यासमेतम् नियतञ्च, संसारस्यात एवानादिकालवृत्तेरेव हेतोः पुरुषवाद्युक्तं सर्वमस्माद्भवति, पुरुषवाद्युकमुक्तिकमार्थतुरीयवचनादेव कालस्य समर्थितत्वात् ।।
अत एव चेत्यादि, एतस्मादेव कारणाद्वर्त्तनस्याप्रतिघाताद्व्यापित्वाच्च कारणान्तरापेक्षा नास्ति, कलनमेव टेक-अनन्यसाधनं स्वयमेव कार्यकारणवृत्तित्वेन विपरिवर्तितुं क्षमम्, अपुरुषकार चेतनाचेतनेषु वृत्तेरभेदात् , अस्वभावं जीवाजीवात्मकपरिणतिक्रमविवृत्त्यजस्रत्वात् , अनियतं तबान्यथाभावविपरिवर्त्तवर्त्तनात्मकत्वादेव, संसाराभिरूपद्यणुकत्र्यणुकादिभूम्यम्बुव्रीह्याद्याहाररसरुधिरादि विपरिवर्तनस्य भावान्तरसङ्क्रमणलक्षणत्वात् संसारस्य अत एवानादिता, अनादित्वेन दूरमपक्षिप्ता नियत्यादिकारणान्तरापेक्षाऽनेन कलनेन, तस्मादनादित्वात् कालवृत्तिः । अस्या एव-कालवृत्तेरेव केवलायाः कारणान्तरनिरपेक्षाया हेतोः यदप्युक्तं पुरुषवादिना पुरुषक्रियात एव सर्वमिति तदस्मादेव कालाद्भवति, न तु पुरुषकारात् , अनादीनां योगपद्यादिमतां यौगपद्यपौर्वापर्ययुक्तवृत्तित्वात् , तयोग कालत्वात् , तेनैव किल पुरुषवादिना कालस्य समर्थितत्वादित्यत आह-पुरुषवाद्युक्तमुक्तिक्रमार्थतुरीयवचनादेव,-सुषुप्तावस्था विशुद्धयन्ती सुप्तावस्था भवति, सुप्तावस्था च जाग्रदवस्था भवति, जाप्रदवस्था विशुद्धा सती तुरीया मुत्तयवस्था भवतीति कालसामर्थ्यात् क्रमात्मलाभो घटते, तस्मात्सुषुप्तादेरवस्थाविशेषव्यवस्थानस्यानादिकालप्रवृत्त्यात्मकत्वं परमात्मनो वर्त्तनतत्त्वं स्यात्, तच्चास्मन्मत एव घटते न पुरुषवादे, क्रमाक्रमविकल्पाभावात् , अन्यथा व्यवस्थाचतुष्टयस्यैकसर्वगतनित्याक्रमकारणात्मकस्य कत-15 माऽवस्था प्रथमा द्वितीया तृतीया तुरीया वेति ।
किश्चान्यत्
वृत्तिक्रमापादितकार्यकारणावस्थयोः कार्यकारणभावोपपत्तेमिथ्यादर्शनादिसामान्यविशेषहेतुभिः कर्मबन्धप्रक्रियोपपत्तेः संसारानादिता, तस्य तु परमात्मनो न युज्यते संसारो बन्धाभावात् , बन्धाभावः प्रदोषादिकारणाभावात् , प्रदोषाभावः कर्माभावात् कर्माभावो-20 शरीरत्वादकारणत्वाच्च । . बादित्याह-भपुरुषकारमिति । चेतनाचेतनेषु कालवर्तनाया अमेदेन सत्त्वादित्यर्थः । स्वभावोऽपि नानन्यसाधनम् , कालक्रमागतपरिणतिवशादेव जीवाजीवयोः परस्पररूपापत्तिवर्त्तनोपपत्तरित्याह-अखभावमिति। नियतिरपि नानन्यसाधनम. जीवाजीवानां तथाभावान्यथाभावलक्षणविपरिवृत्तेरनियमेन वर्तनादित्याह-अनियतमिति । एतदेवाह-संसाऐति। कालस्य जगद्रूपत्वाजगतश्चानादित्वेन नियत्यादिकारणान्तरापेक्षा नास्तीत्याह-अनादित्वेनेति । कालस्य कारणान्तरापेक्षा-25 भावादेव पुरुषादिवायुक्तानां सर्वेषां नासम्भव इत्याह-कालवृत्तेरेवेति । अनादितो युगपदृत्तीनां क्रमवृत्तीनाश्च योगाथा
परभाववृत्तित्वयोः कालवर्तनरूपत्वस्य पुरुषवादिनापि समर्थितत्वादित्याह-अनादीनामिति, तयोः-युगपद्वृत्तित्वक्रमतित्वयोः सुषुप्तावस्थेति, सर्वविशेषविज्ञानप्रत्यस्तमयी सुषुप्तिः, अत्रान्तःकरणाद्युपाधिरभिभूतो भवति संस्कारात्मनाक तिष्ठते, बालेन्द्रियव्यापाररहिता विशेषज्ञानवती स्वप्नापरपर्याया सुप्तावस्था विशेषज्ञानसद्भावादेव सुषुप्त्यपेक्षया विशुद्धा, बाहोन्द्रियव्यापारेणापि युक्ता स्फुटावभासाऽत एव विशुद्धा जाग्रदवस्था निरावरणा सर्वसामान्यविशेषवस्त्ववभासा विशुद्धतमा तुरीयावस्था, अधिकाधिकविषयावगाहित्वाद्विशुद्धताऽत्र बोध्या, इत्येवं क्रमतयाऽत्मलाभः कालसामर्थ्यादेवेति भावः । एताहशावस्थाचतुष्टयेनानादिकालेन परमात्मनो या प्रवृत्तिः सा कालेनैव सङ्गच्छत इत्याह-तस्मादिति । कालानधीनत्वे क्रमाक मविकल्पासम्भवेन प्रत्येकमवस्थायाः सर्वदा विद्यमानताप्रसङ्गेन प्रथमद्वितीयाद्यवस्थानियमो न स्यादित्याह-क्रमाक्रमेति। कालवादे एव संसारस्थानादिता सम्भवति, पुरुषवादे संसारकारणासम्भवेन न संसारस्यानादित्वं संसारस्यैवासम्भवादिस्याह
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org