________________
२६२ द्वादशारनयचक्रम्
[विधिविध्यरे ... (वृत्तीति) वृत्तिक्रमापादितकार्यकारणावस्थयोः कार्यकारणभावोपपत्तेमिथ्यादर्शनादिभिः सामान्यहेतुभिः प्रदोषनिह्नवादिभिश्च विशेषहेतुभिः कर्मबन्धप्रक्रियोपपत्तेः संसारस्यानादिता सन्तानाव्यवच्छेदाद्वा युज्यते, पुरुषवादिनः पुनः परमात्मनः शुद्धात्कूटस्थादिनित्यात् कार्यकारणाभ्यां द्वाभ्यामपि व्यतीतान्न युज्यते संसारो बन्धाभावात् , बन्धाभावः कारणाभावादशरीरत्वादकारणत्वाच्च, चशब्दा। सर्वगतत्वादेकत्वान्नित्यत्वाच्चेत्यादयोऽपि हेतवः । प्रदोषादिकारणाभावात् प्रदोषाभावः, कर्माभावादित्यादिगतार्थ यावत्संसारानादिता । .. अत्राह नियतिवादी तस्य संसारस्यैव तथानियतेः संसारो भवति पुरुषपुद्गलयोरित्यत्र ब्रूमः
नापि तस्य नियतेः संसारानादिता, अतत्त्वात् , क्वचिदुपरमाभ्युपगमात् , यद्यन्न तन्न तन्नियतेदृष्टम् , घटपटवदिति, एवमेव तस्य स्वभावादित्येतन्न अतत्त्वात् , यद्यदेतन्न तत्तन्न 10 तत्स्वभावात् , घटपटवदिति।।
(नापीति) नापि तस्य नियतेः संसारानादिता, कस्माद्धेतोः ? अतत्त्वात् , तद्भावस्तत्त्वं न तत्त्वमतत्त्वं तस्मादतत्त्वात्तन्नियतेनं भवति संसारः । तत्त्वं चास्य न भवति संसारस्य क्वचिदुपरमा. भ्युपगमात् । खहेतोः साध्याविनाभावित्वोपप्रदर्शनार्थमाह-यद्यन्न तन्न तन्नियतेदृष्टम् , यथा घटः पटनियतेनं भवति, पटोऽपि घटनियतेनं भवति, तस्माद्धटवत् पटवदतत्त्वान्नापि तस्य नियतेरिति साधूक्तम्। 16 किश्चान्यत्-एवमेव तस्य स्वभावात्-यदि ब्रूयात् तस्य स्वभावात्संसारानादितेत्येतन्न, नापि तस्य स्वभावात् , अतत्त्वात् , अतत्त्वमस्य पूर्ववन्मुक्त्यवस्थाभ्युपगमात् सिद्धम् । यद्यदेतन्न तत्तन्न तत्वभावाद्धटपटवदिति । एवं तावदनादिसंसारता नोपपद्यते नियत्यादिवादे कालमन्तरेणेत्युक्तम् ।
इदानीं कालवादे तदुपपत्तिरुपवर्ण्यते
तस्मात्त्वनादिवर्तनात्मकत्वात् कालस्यैतदुपपद्यते , तद्यथा पृथिव्यादित्रीह्यादिवृत्ति20 वृत्तिकमेति, कालेऽभ्युपगम्यमाने सुषुप्त्यादीनामवस्थानां क्रमवर्तनसम्भवेन कार्यकारणत्वोपपत्तौ मिथ्यादर्शनादिभिः प्रदो
षनिहवादिभिश्च कारणैर्जीवस्य कर्मबन्धोपपत्ती संसारस्यानादित्वं युज्यते, कालानभ्युपगमे कार्यकारणभावासम्भवेन बन्धकारणकर्माभावेन जीवस्य बन्धानुपपत्तो कथं संसारानादितेति भावः। कालकारणवादे संसारानादित्वं समर्थयति-वृत्तिक्रमापादितेति। पुरुषवादे तदनुपपत्तिमाह-पुरुषवादिन इति, अथ नियतिवादे पुरुषपुद्गलयोस्तथाविधनियत्यैव बन्धसम्भवेन संसारो भविष्यतीत्याशङ्कते-अत्राहेति । समाधत्ते-नापीति, संसारस्य नियतितोऽनादित्वं न सम्भवति, संसारस्यानियतत्वात्,
अभ्युपगम्यते हि संसारस्य क्वचिदुपरमः, अतोऽनियतत्वमिति न नियतिकृतत्वं संसारस्येति भावः । तथा च जीवस्य संसा28 रानादिता न नियतिसाध्या अतद्रूपत्वात् , यद्यदतद्रूपं तत्तन्न तत्साध्यम् , यथा घटो न पटनियतिरूपो न पटनियतिसाध्य इति प्रयोगाभिप्रायेण हेतुमाह-अतत्त्वाति इति, संसारस्य नियतिस्वरूपताविरहादित्यर्थः । तद्रूपता कुतो नेत्यत्राह-तत्त्वञ्चास्येति तथा च संसारोऽनियतः क्वचित्तस्यात्यन्तोच्छेदाभ्युपगमात्, प्रलये हि संसार उच्छिद्यत इत्यभ्युपगम्यते भवतेति भावः। व्याप्ति ग्राहयति-यद्यन्नेति । एवं तस्य संसारानादिता स्वभावादपि न सम्भवत्युक्तयुक्तरेवेत्या
दिति, यदि संसारस्यानादित्वं खभावस्तर्हि खभावस्यान्यथाभावासम्भवात् तथाविधस्वभावता संसारस्य सदा भवेत्, न तथाऽभ्युपगम्यते संसारस्य 50 सृष्टिप्रलयाभ्युपगमेन साद्यन्तत्वादित्याशयेन निराकरोति-अतत्त्वादिति, अतत्वभावत्वादित्यर्थः । हेत्वसिद्धिं निराकरोति
अतत्त्वमस्येति, जीवस्यानादिसंसारत्वाभावो मुक्यवस्थाभ्युपगमात्. अनादिसंसारस्वभावत्वे जीवोऽनाद्यनन्तसंसारी भवेत्, तथा च मुक्तिने भवेदेव, खभावस्यान्यथाभावासम्भवादिति भावः। अत्रापि व्याप्तिं ग्राहयति-यद्यदेतन्नेति. यद्यत् अतत्व. भावं तत्तत् न तत्साध्यम् यथा घटो न पटखभावरूपो न पटखभावसाध्य इति । कालवादे तु कालस्यानादिवत्तेनात्मकत्वात् संसारानादिता युज्यत एवेत्याह-तस्मात्त्विति । यौगपद्यलिङ्गेन कालकृतसंसारानादितामाह-तद्यथेति । वृत्तिः पदार्थानों
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org