________________
कालादनादिसंसारः] न्यायागमानुसारिणीव्याख्यासमैतम्
२६३ विवृत्तिप्रबन्धेनाऽऽत्मस्वरूपविषया क्रिया बन्धः स्निग्धरूक्षतया तेषां संश्लेषादन्यान्यरूपापत्तिः संसरणं, तच्चानादियुगपदुभयबन्धनात् तथा जीवपुद्गलयोरभिन्नवर्तनस्वतत्त्वयोः स्वसाध्येभ्य एव साधनात्मभ्यः स्वत एव बन्धक्रिया संसारक्रिया च वर्तनाभेदेन रूपभेदेन च, एवं कालस्यात्मस्वात्मन्येव क्रियाऽनात्मस्वात्मनि च युगपदेव बन्धसंसरणविहिता संसारानादिता युगपदभिन्नाऽनादिवृत्त्यात्मिका न न युज्यते ।
तस्मात्त्वनादिवर्तनात्मकत्वादित्यादि यावन्न न युज्यत इति, तस्मादिति-प्रस्तुता. कालात् संसारानादिता न न युज्यत इति सम्भत्स्यते, तुशब्दो विशेषणे, कालवाद एवैतदुपपद्यतेऽनादिसंसारित्वम् , यौगपद्यपर्यायत्वादनादित्वस्य, यौगपद्यस्य च कालप्रभावाऽविनाभावित्वात् , कलनवृत्तिपर्यायत्वाञ्च कालस्येति तत्प्रदर्शनार्थ हेतुमाह-अनादिवर्तनात्मकत्वात् कालस्य, कालो हि युगपदनादिवृत्त्यात्मकः । नन्विदं प्रागुक्तेन विरुद्धं पूर्वापरादिवृत्तेरयोगपद्यादिति चेन्न, वर्तनस्य योग- 10 पद्यात् , तद्यथा पृथिव्यादिव्रीह्यादिवृत्तीत्यादिदृष्टान्तदण्डकः । यथा पृथिव्यम्बुवाय्वाकाशपुरुषादयो युगपत् समेता लोकाख्यां लभमाना अनादयः, त एव च ब्रीहियवगोधूमचूतपनसादित्वेन स्त्रीपुरुषः महिषाजगवयगवादित्वेन च वर्तन्ते सहैव भूम्यादिव्रीह्यादित्वेन तादृश्योवृत्तिविवृत्त्योरव्यवच्छेदेन स्वत एवात्मा विषयोऽस्याः क्रियायाः सा, तेषां ब्रीह्यादिभूम्यादीनां वृत्तिविवृत्तिप्रबन्धेनात्मस्वरूपविषया क्रिया सैव च बन्धः, स्निग्धरूक्षवृत्त्या तेषां संश्लेषादन्यान्यरूपापत्तिः संसरणम् , तच्चानादियुगपदु-16 भयबन्धनात् संसरणं दृष्टम् , तथा जीवपुद्गलयोरभिन्नवर्तनस्वतत्त्वयोः स्वसाध्येभ्य एव साधनास्मभ्यः-हेतुकार्यभूतेभ्यः कारणेभ्यः परस्परसंश्लेषवर्तनेभ्य इव भूम्यादिनीह्यादीनां हेतुभ्यः स्वत एव बन्धक्रिया संसारक्रिया च वर्तनाभेदेन रूपभेदेन चेति दृष्टान्तप्रसिद्धार्थव्याख्यानम् । दार्शन्तिकव्याख्यानं तु कालस्यात्मस्वात्मनि क्रिया अनात्मस्वात्मनि चेति, कालस्याभिन्नवर्तनस्वतत्त्वस्य भूम्या
वर्तनं, विवृत्तिः पदार्थानामन्योन्यरूपतया परिणामलक्षणं वर्तनम् , ते च युगपद्वर्तमानकाले यथा दृष्टे तथा भूतभविष्यतोरपी- 20 त्यनादितेति भावः । यौगपद्यापरपर्यायस्यानादित्वस्य कालाविनाभावित्वादित्याह-योगपद्यति। सर्ववस्तूनामनादितो योगपद्येन वर्तनात्मकः काल इत्याह-अनादीति । ननु पौर्वापर्येण वृत्तीनामनादिता प्रतिपादिता, अत्र तु योगपद्यवृत्तित्वस्योच्यत इति. विरोधइत्याशङ्कते-नन्विदमिति । वर्तनमेव हि योगपद्यं तच पौर्वापर्येणापि सङ्गच्छत इत्यविरोध इत्याह-वर्तनस्यति । तदेव दृष्टान्तेन प्रतिपादयति-तद्यथेति, पृथिव्यप्तेजोवाय्वाकाशात्मादीनां परस्परं मिलित्वा खखजात्यनुच्छेदेन वर्तमानकाल इव भूतभविष्यतोरपि वर्तनादनादिता तथावर्तनमेव च लोक उच्यते, न हि कदाचिदप्यनीदृशं जगद्भवति तथा तेषा-25 मेव व्रीह्यादिरूपेण स्त्रीपुरुषादिरूपेण च परिवर्तनं सहैव तस्यापि परिवृत्तिप्रवाहस्यानाद्यनन्तत्वेनानादित्वम् , ईदृशी भूम्यादि.. जीयादिक्ष्यादिवृत्तिपरिवृत्तिक्रिया स्वखरूपेण भवति, सैव विस्रसाक्रियोच्यते, सैव च तेषां परस्परं बन्धः, पुद्गलानाञ्च परस्पर संश्लेषादन्यान्यरूपापत्तिलक्षणं संसरणं स्निग्धत्वरूक्षत्वाभ्यां भवति, विषमगुणस्निग्धरूक्षाणां परमाणूनां परस्परं बन्धात् , एवज्वानादिकालेन तेषां योगपद्येन वृत्तिविवृत्तिलक्षणोभयबन्धनात् संसरणं भवतीति भावः । अमिन्नवर्त्तनेति, अभिन्नं वर्तनमेव खतत्त्वं ययोस्तयोर्जीवपुद्गलयोः खसाध्यसाधनभूतयोः परस्परं संश्लेषवर्तनेभ्यो बन्धक्रिया संसरणक्रिया च यथा भवति 30 तथैव केवलमचेतनानां भूम्यादिव्रीह्यादीनामपि खत एव वर्तनामेदेन विवर्तनारूपभेदेन च बन्धक्रिया संसरणक्रिया च भवति. तदेवं चेतनाचेतनयोः परस्परमचेतनस्य बन्धसंसरणे दृष्टान्ततयोपन्यस्ते इति भावः।दार्टान्तिकं कालं व्याख्याति-दान्तिकेति, दिवसपक्षमासर्वयनसंवत्सरादिलक्षणकालस्य चक्रन्यायेन भ्रमणं पल्योपमादिकालविशेषविशेषितं वा यस्य कस्यापि. जीवस्य नरकादिगतिषु संसरणं कालकृतबन्धसंसरणे विज्ञेये, पृथिव्यादिद्रव्याणाश्चानादिकालेन तेन तेन रूपेण वर्तनमनात्म..
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org