________________
२६४ द्वादशारनयचक्रम्
[विधिविध्वरे वित्रीयादिसंसरणवदेवात्मस्वात्मनि-जीवस्वरूपे क्रिया अनात्मस्वात्मनि-पुद्गलस्वरूपे या युगपदेव कधसंसरणविहिता-कालकृतबन्धसंसारविहिता-कृता, विधातुरन्यस्याभावात् सैषा संसारानादितायुगपदभिन्नानादिवृत्त्यात्मिका जीवपुद्गलयोः परस्परं स्वात्मपरात्मवृत्तिकृतबन्धसंसारानादिता न न युज्यते विरोधाभावादित्यभिप्रायः, एवं तावद्यौगपद्यलिङ्गकालकृतसंसारानादिता ।
पूर्वापरादिलिङ्गकालकृतसंसारानादिताप्यस्मिन् दर्शने न विरुद्ध्यत एवेत्यत आह
इत्यनादितावर्त्तनाप्रभेदा एव भावान्तराणि क्रमेण प्राप्ताः भूम्यम्ब्वादियोगबीजोद्भेदमूलाङ्कुरपत्रनालकाण्डपुष्पफलशूककणतुषव्रीहिकुरुकतन्दुलोदनरूपा ओदनादप्यभ्यवहृताद्रसरुधिरमांसकलेवरमृन्मृत्पिण्डशिबकस्तूपकछत्रकस्थालककोशककुशूलघटकपालशकेरिका पांशु
भूलिरजोभूम्यादित्वेन परमाणुष्यणुकादिसंघाता आरम्भप्रवृत्तिनिष्ठा उत्पत्तिस्थितिभना अपि "वर्तनात्मान एव ।
इत्यनादितावर्त्तनाप्रभेदा इत्यादि, इतिशब्दः इत्थमर्थे, इत्थमुपपादिता अनादिताया एक वर्सनायाः प्रभेदाः ते पूर्वापरादिक्रमात् , त एव भावान्तराणि क्रमेण प्राप्ताः । के त इति चेत् ? भूम्यम्ब्वादियोगः बीजोद्भेदः मूलमङ्कुर इत्यादि गतार्थ यावत् कुरुकतन्दुलौदनरूपा इति । ओदनादप्यभ्यवहृताद्रसादि यावत् कडेवरं कडेबरान्मृत् , मृदो मृत्पिण्डः, मृत्पिण्डाच्छिबकः, पुनर्यावद्भूम्यावित्वेन परमाणुव्यणुकादिसंघाताः जीवपुद्गलवृत्तिपरिवर्तिभेदेन, वर्त्तनेनैव आरभंते प्रवर्तते नितिछन्तीत्यारम्भप्रवृत्तिनिष्ठाः, पुनर्विपरिणामोऽन्यरूपेणाविर्भाव आरम्भः, प्रवर्तनं स्थिति:, निष्ठा तिरोधानमित्येतदनुपरतधर्मत्रयचक्रमयुगपद्वृत्तावपि, युगपवृत्तावपि पूर्वाभिहितबन्धसंसरणवदुत्पत्तिस्थितिमङ्गा गति वर्तनस्वास्मान एव, तदेव हि वर्त्तनं परिवृत्त्यपरिवृत्तिष्वित्यविरोधं कालकारणवादस्य दर्शयति ।
तत्प्रसिद्धिप्रदर्शनार्थमाह
ननु कृषीवलादिभिरपि तथा तथा पर्युपास्यते, अविर्भूतश्ताङ्कुरकालो न तावद्यवाकुरकाल इत्याविभूतानाविभूतात्मा कालः।
खात्मनि बन्धसंसरणविहिता क्रिया बोध्या, तदेवं योगपद्येन जीवाजीवानां तथा तथाऽनादितया वर्तनमेवानादिवर्तनात्मकत्वं कालस्य, अनादिकालात्तत्तव्यत्वेन तेषां परिणामादिति भावः। विधातरिति. चेतनाचेतनानामनादिकालेन वैनसिकतथाविधपरिणामादेव लोकस्यानाद्यनन्तत्वेन सृष्टिप्रलयाभावाल्लोककर्तुरनावश्यकतैवेति भावः । तदेवं जीवाजीवानां जीवत्वाजीव. 28 त्वादिसामान्यधर्मेण योगपद्येन वर्तनस्यानादित्वमुक्त्वा सम्प्रति विशेषधर्मेणापि तेषामनादिक्रमिकवर्त्तनात्मकत्वं वक्तुमाह-त्य.
नादितेति, स एव पुद्गल उत्तरोत्तरप्रवर्धमानपरिणामैर्भूम्यम्वुतेजोवाय्वादिव्रीहिबीजादिभिर्वर्तमानः पुनरपचयपरिणामैः पुनः पुद्गलरूपतामाप्नोति तथा पुनरपि प्रवर्धमानपरिणामोऽपचयपरिणामश्च भवन् वर्तते पुनः पुनरेवमिति ऋमिकतत्तत्पर्यायवर्तन. रपि संसारानादिता, न हीदृशक्रमिकवर्तनायाः कदाप्युच्छेदो येन सादित्वं संसारस्य भवेदिति भावः । वर्तनापेक्षयाऽऽरम्भ प्रवर्तननिरोधानाह-वर्त्तनेनैवेति स्वस्वरूपापरित्यागेन, जीवपुद्गलादयः प्रतिक्षणमन्यान्यवर्तनान्यनुभवन्तीति आरम्भस्थितिनिरोधधर्मका इति भावः। विवर्तनापेक्षयापि तानाह-पनरिति. जीवपद्गलादयः क्षणे क्षणे भूम्यम्ब्वादिवीजाकुरादिपरिणामधारणादारम्भस्थितिनिरोधधर्मका अनादित इति भावः । तदेवं युगपद्वृत्तावयुगपद्वृत्तावपि ये उत्पत्तिस्थितिभा उक्तास्ते सर्वे पन्धसंसरणवद्वर्तनखरूपा एवेति कालात्मत्वं सर्ववस्तूनामित्यत्र न कोऽपि विरोध इत्याह-अनुपरतेति, उक्तार्थेऽनुभव प्रमाणयति-नन्विति, ननुरत्र निश्चयार्थकः कृषीवलादयो हि सम्प्रति चूताङ्कुरकाल आगतः, अतोऽस्माभिश्चूतबीज एवेदानीं वप• मीयो न यवबीजादिः, तत्कालस्यानाविर्भूतत्वादित्यनुभूय तथैव कुर्वन्तीति भावः। ननु द्रव्यक्षेत्रभावा अपि कालास्माना
____Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org