________________
कालाद्भावमैदः] न्यायागमानुसारिणीव्याख्यासमैतम्
२६५ .... (नन्विति) ननु कृषीवलादिभिरपि पर्युपास्यते इति, किं पुनर्विद्वद्भिरित्यर्थः, तथा तथायथा यथाऽसौ कालो व्यवतिष्ठते तथा तथा पुरुषः पर्युपास्ते, आविर्भूतश्ताङ्कुरकालो न तावदाविर्भूत इत्याविर्भूतानाविभूतात्मा ।
तस्मादेव च वर्तनालक्षणादवगमितद्रव्यक्षेत्रभावात्मनः कालात् परमनिरुद्धसमयत्वेनामिन्नादपि सुषमादिभेदात्मकाद्भावभेदाः सम्भवन्ति, स एष पुनरनुभावः कालस्य प्रभु । विभुत्वाभ्याम् । एकसमायामपि भावभेदाः संवत्सरवर्तनात् , संवत्सरे मासवर्तनात् , मासे दिनवर्त्तनात्, दिने मुहूर्त्तवर्तनात् , मुहूर्ते लग्नवर्त्तनादेवं नालिकायवादिभेदेन च भावभेदा नेया यावत् परमनिरुद्धसमयवर्त्तनेति, एकस्मिन्नन्यथेति चेन्न, कालदोषभावात् ।
तस्मादेव चेत्यादि, तस्मादेव वर्तनालक्षणात् कालादवगमितद्रव्यक्षेत्रभावा आत्मानोऽस्य तस्मादवगमितद्रव्यक्षेत्रभावात्मनः, अवगमितद्रव्यक्षेत्रभावात्मकादित्यर्थः, प्रागवगमितं द्रव्यं भूम्या- 10 दिनीयादिद्रव्यात्मा काल इति, घटो प्रीवादय इति क्षेत्रं भावो रूपादयो न केचिद्युगपदात्मिकां वृत्तिप्रख्याति कालमन्तरेणेति कालत्वावगमनं वर्त्तत एष, तस्माद्रव्याद्यात्मकात् कालात्, सुषमसुषमादिभ्य उत्सर्पिण्यवसर्पिण्याख्यकालभेदेभ्यः परमनिरुद्धसमयत्वेनाभिन्नादपि सुषमादिभेदात्मकाद्भावभेदाः सम्भवन्ति, तद्यथा-सुषमसुषमायां सुषमायां सुषमदुःषमायाश्चात्रैव भारते क्षेत्रे देवलोकवद्भवन्ति प्रतनुक्रोधमानमायालोभास्त्रिद्वयेकगव्यूतोच्छ्रितदेहास्तावत्पल्योपमजीविन्यो मिथुनधर्मिकाः प्रजा मत्ता- 15 प्रादिकल्पतरुकल्पितोपभोगविधयः, स्वादुसुरभिजला चतुरङ्गुलहरिततृणा निम्नोन्नतवर्जिता सुरभिस्वादुरसा सुखस्पर्शादिगुणा भूमिरित्यादि । स एष पुनरनुभावः कालस्य प्रभुविभुत्वाभ्याम् , काल एव हि प्रभवति विभवति च, सर्वभावभेदानामुत्पत्तिस्थितिप्रलयेष्वात्मप्रभेदमात्रत्वात् । तथा दुःषमसु. इत्युक्ता, अथ तस्मादेव भिन्नात् कालात् नानाविधा भावमेदा भवन्तीत्याह-तस्मादेव चेति, अवगमिताः-पूर्व व्यावर्णिता द्रव्यक्षेत्रभावा आस्मानः स्वरूपं यस्यासौ कालस्तस्मादिति विग्रहः, अमुमेवार्थमाह-प्रागवगमितमिति वर्तितुर्भूम्यादिब्रीह्या- 20 विद्रव्यादनान्तरभूतत्वाद्वर्तनालक्षणकालस्य भूम्यादिनीयादिकालद्रव्यमुच्यते, तस्यैव द्रव्यस्य यो विवृत्तिलक्षणः पर्यायापरनामा घटादिपरिणामः स क्षेत्रकालः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनान्तरत्वात् , तस्यैव गुणपर्यायो रूपादयो भावकाल इति, एते च युगपत्तिखरूपं वर्तनमनुभवन्तो न कालमन्तरेण भवन्ति तस्मात् कालत्वमेतेषामवगमितमिति भावः। एकरूपस्य कालस्य मेदान् तत्फलानि चाह-सुषमसुषमादिभ्य इति, सुष्टु शोभनाः समाः वर्षाणि यस्यां सा सुषमा 'निर्दुःसुवेः समसूते:'(सिद्धहे.२-३-५६) इति षत्वम् । सुषमा चासौ सुषमा च सुषमसुषमा। सुषमसुषमा, सुषमा, सुष-25 मदु:षमा, दुःषमसुषमा दुःषमा, दुःषमदुःषमेति क्रमेणांवसर्पिण्या अरकाः, उत्सर्पिण्याश्चैत एव व्युत्क्रमेण ज्ञेयाः, अवसपेन्ति क्रमेण हानिमुपपद्यन्ते शुभाभावा अस्यामित्यवसर्पिणी, अस्यां समस्ता अपि शुभा भावाः क्रमेणानन्तगुणतया हीयन्ते, अशुभाश्च . क्रमेणानन्तगुणतया परिवर्धन्ते, दशसागरोपमकोटीकोव्यात्मकोऽयं कालमेदः, इदमेव भरतकालस्वरूपम् । सुषमसुषमाधरक. त्रयाश्रयेण फलं दर्शयति-तद्यथेति, तत्र प्रजाधर्ममाह-प्रतन्विति, इदश्च सुषमसुषमाद्यरकत्रये विज्ञेयं युग्मिनां प्रतनुको. धाधुक्तः तथा त्रिगव्यूतोच्छ्रितदेहः प्रथमारकप्रथमसमये युग्मिनाम्, ततः प्रतिसमयं हासात् । द्वितीयारके सुषमाप्रथमसमये- 30 द्विगव्यूतोच्छृितदेहो युग्मिनाम् , तृतीयारके सुषमदुःषमायाः प्रथमसमये एकगव्यूतोच्छृितदेहो युग्मिनाम्, ततो हासात् तथाऽऽयुरपि विडेयम्, मत्तामृतात्रटिताङ्गदीपशिखाज्योतिषिकचित्राङ्गचित्ररसमण्यनगेहाकाराभिधानाः कल्पवृक्षा अन्वों भवन्ति, भूमिखरूपं दर्शयति-खाद्विति । तदेवं भावानां माहात्म्यं कालेनैव भवति, सर्वकार्यमात्रकारणत्वात् , कार्यकारणयो. रभेदाच काल एव तथा तथा प्रभवति, सकलवस्त्वाधारतया च विभुः न हि वर्तनव्यतिरेकेण कोऽप्यात्मलाभ लभत इति काल एवं प्रभुर्विभुश्चेत्याह-स एव इति । अथ दुःषमसुषमायरकत्रयाश्रयेण वस्तुवैचित्र्यमादर्शयति-तथा दुषमेति, दुःषम- 35 द्वा. न. ३४
www.jainelibrary.org
Jain Education International 2010_04
For Private & Personal Use Only