SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २६६ द्वादशारनयचक्रम् [विधिविण्यरे षमायां सुषमदुःषमासमत्वाद्भूयिष्ठसुखत्वाद्धर्माचारभूयिष्ठत्वाच्च मनुष्यलोकवद्भावभेदाः । दुषमायामाहारभयमैथुनपरिग्रहसंज्ञाप्राचुर्यादधर्मकर्मोन्मार्गप्रस्थानभूयिष्ठत्वाच्च तिर्यग्लोकवत् । दुःषमदुःषमायां नरकलोकवहुःखैकरसत्वात् । तथा कृतत्रेताद्वापरकलियुगसंज्ञाविभागेषु व्याख्याविकल्पमात्रभेदेषु युगेषु । किश्चान्यत्-एकसमायामपि भावभेदास्तत्प्रभुविभुत्वाभ्यामेव संवत्सरवर्तनात् सुभिक्ष। दुर्भिक्षादिभावभेदाः, एवमुत्तानार्था भावभेदा नेया यावदेकमुहूर्तेऽपि लग्नवर्त्तनात् , नालिकायवादिभेदेन च भावभेदा नेया यावत् परमनिरुद्धसमयवर्त्तनेति । एकस्मिन्नन्यथा, एकस्मिन्नपि काले उत्पातादिवर्तनाद्भावभेदव्यभिचार इति चेन्न, कालदोषभावात् , उत्पातोपघातस्यापि कालकृतत्वात् , कस्यचिद्भावस्य व्यक्त्युपघातात् कालेऽपि शुनो मैथुनाभाववत् , तस्य व्याधिकालमरणकालादीनां तथाभावात् । 10 तस्मादेव मुहूर्तजातानामपि पुरुषाणां तन्मात्रभेदप्रभेदस्वामिभृत्यादिभावभेदा अनुमा तव्या धूमादग्निवत् , तस्यैव च व्यापित्वात् , तथा युगपदेव पश्यतां विश्वदृश्वनामर्हतां प्रवचने कालज्ञानमवितथं दृश्यते, अद्यतनेऽपि केषुचित् पुरुषेषु । अतिसौक्ष्म्याचास्य तज्ज्ञानाभिमुखानां कचिद्वचनविसंवदनमपि दुरुपलक्ष्यत्वात् , छद्मस्थानां ज्ञेयानन्त्यादज्ञानबहुत्वाज्ज्ञानपरिमितत्वाच्च। 15 (तस्मादेवेति) तस्मादेव-आवलिकादिस्वरूपवर्त्तनाभेदादेव मुहूर्तजातानामपि पुरुषाणां तन्मात्रभेदप्रभेदस्वामिभृत्यादि, कश्चित्स्वामी कश्चिद्भत्यो भवतीति जन्मकालभेदाभावभेदा अनुमातव्याः धूमादग्निवत् , आदिग्रहणात् सुरूपकुरूपसुभगदुर्भगप्राज्ञाप्राज्ञादिभावभेदाः, तस्यैव च व्यापित्वात् , चशब्दात् प्रभविष्णुत्वाच्च, एवं हि कालकारणस्य प्रभुता व्यापिता च, यत एतद्वर्त्तना आवर्तपरिवर्तभेदेष्वभेदा । तथा तथा युगपदेव पश्यतां विश्वदृश्वनामर्हतां प्रवचने कालज्ञानमवितथं प्रमाणीभूतं तद्विषयं 20 सुषमायामवसर्पिण्यामादौ सुखभूयिष्ठता ततोऽन्ते सुखदुःखसमता भावभेदाश्च मनुष्यलोकवत् , तिर्यग्लोकवदुःषमायामधर्मकुमार्गगमनभूयिष्ठता आहारभयमैथुनपरिग्रहसंज्ञाधिक्यात् , दुःषमदुःषमायान्तु प्रचुरदुःखरूपता नरकलोकवद्भावभेदा इति । न. तावदेकस्यां समायामेकप्रकार एव भावभेदः, अपि तु संवत्सरभेदात् सुभिक्षदुर्भिक्षादिभावभेदा भवन्तीत्याह-किश्चान्यदिति। नन्वेकस्मिन्नपि कालेऽन्यकालीयभावभेदानामपि दर्शनाट्यभिचार इत्याशङ्कते-एकस्मिन्निति, एकस्मिन् काल इत्यर्थः अन्यथा-अन्यभावभेददर्शनादित्यर्थः, अमुमेवार्थ स्फुटीकरोति-एकस्मिन्नपीति । समाधत्ते-कालदोषेति, कालस्यैव 25 दोषेण तथाभावादित्यर्थः, कालेन विना कस्याप्यवर्तनात् उत्पातादिदोषाणामपि तेनैव भावात् , एकं प्रति तत्कालस्यानुकूलत्वेऽप्यपरस्य दोषरूपत्वसम्भवात् , इतरेषां तत्कालस्य मैथुनयोग्यत्वेऽपि शुनां तदनुगुणाभावादिवेति भावः । अत एवैकमुहूर्तस. म्भूतानामपि लमादिभेदसम्भवेन खामिभृत्यादिवलक्षण्यसम्भव इत्याह-तस्मादेवेति, एकस्मिन् स्थूलकालेऽपि सूक्ष्मकालमेदादेवेत्यर्थः । तन्मात्रेति, मुहूर्त्तादिकाले लमनालिकादिभेदप्रभेदैः स्वामिभृत्यादिभावभेदोऽनुमीयत इति भावः। तस्यै वेति-कालस्यैव प्रभुत्वाद्विभुत्वाच्चेत्यर्थः। एवंविधकालविज्ञानं भगवतोऽहत एव, तदीयप्रवचन एव च कालज्ञानं यथार्थ 30 दृश्यते, अद्यतनेष्वपि केषुचित् पुरुषेषु प्रवचनमहिनैव कालयथार्थज्ञानं दृश्यत इत्याह-तथेति । कालस्य व्यापित्वमेवाह यत इति, जलोद्धरणसमरिघट्टयंत्रावर्तनसदृक्षाः परावर्त्तमानकालस्य पुनः पुनर्वसन्तादिभावेनावृत्तयः ताभिरयं विभुस्तथा कालमुखप्रेक्षित्वाद्भावानामसो प्रभुरुन्मजननिमज्जनादिक्रीडाः सम्पादयन् वर्तमानादिरूपवैचित्र्येण स्वसामर्थ्याध्यासित. मात्मभेदमुपदर्शयतीति भावः। नन्वर्हतां प्रवचने कालज्ञानमवितथमित्युकं तन युक्तं तदुक्ते कचित्कालज्ञाने तथा काले तथा Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy