________________
कालज्ञानम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
२६७ दृश्यतेऽद्यतनेऽपि केषुचित् पुरुषेषु कलिबलमलीमसप्रज्ञेष्वपि । स्यान्मतं कचिद्विसंवाददर्शनात् कालज्ञानाप्रामाण्यमित्येतच्चायुक्तम् , अतिसौक्ष्म्याचास्य तज्ज्ञानाभिमुखानां कचिद्वचनविसंवदनमपि, प्रणिहितधियामपि पुंसां कचिज्ज्ञानविसंवादात् कालसौक्ष्म्यात्, दुरुपलक्ष्यत्वात् , किं कारणं, ? छद्मस्थानां ज्ञेयानन्त्यादज्ञानबहुत्वात् ज्ञानपरिमितत्वाच सर्वस्य सरागस्य ज्ञानादज्ञानं बहुलमिति ।
तथा च 'केसि णिमित्ता नियया भवंति केसिं च णं विप्पडिएति णाणं', अत एव । साशवं मत्वाऽऽहुरन्ये प्रसह्य यथा 'कालः पचति' इत्यादि । ये पुनर्विनिश्चितधियस्ते प्रसविं वदन्ति तद्यथा 'काल एव हि भूतानि कालः संहारसम्भवौ । स्वपन्नपि स जागर्ति कालो हि दुरतिक्रमः' इति ॥
(तथा चेति) तथा च 'केसि णिमित्ता नियया भवंति केसिं च णं विप्पडिएति णाणं' । अत एव साशङ्कमत्वाहुरन्ये न विनिश्चितं प्रसह्य यथा 'कालः पचति' इत्यादि, भूतानां वर्तनात्म-10 कात् कालादन्यत्वाभ्युपगमादनन्यत्वेन कालवर्त्तनात्मकत्वेनैव न विनिश्चितं तथा प्रजानामन्यत्वेन संहरणं सुप्तानां जाप्रतां वा तदन्यत्वेन निर्देशादविनिश्चितत्वात् साशङ्कमेव भेददर्शनानुपातेनोक्तत्वात् । ये पुनर्विनिश्चितधियस्ते प्रसदैवं वदन्ति तद्यथा-'काल एव हि भूतानि' भूतत्वेन कालस्यैव वर्तनात् , 'कालः संहारसम्भवौ' । यथोक्तं प्राक् रूपादयो न केचित् कालमन्तरेणेति, भूम्यादिब्रीडादिवदात्मन्येव संभवसंहारक्रिये इति च बन्धसंसाराविति वचनाञ्च स्वपन्नपि स जागर्ति-स एव स्वपिति ।। जागर्ति च, न तु स्वपन्यो जाप्रद्यो वा व्यतिरिक्तः कश्चित् , ते वा, ततः स्वप्रभेदक्रमसहवृत्तिमात्रत्वाजाप्रत्स्वपदवस्थायाः, सुप्तवृत्त्याऽऽविर्भूतात्मनस्तस्यैव कालस्य जाप्रवृत्त्याऽभिव्यक्तविक्रमत्वात् , कचित् क्रमेण भेदवृत्तिविजृम्भितत्वात् सामान्यवर्तनस्य सुप्तविबुद्धादिवप्रभेदेष्वव्याघातात् । इति कालकारणवादो विधिविधिविकल्प एष समाप्तः।
विधफलाद्यनुदयेन विसंवाददर्शनादित्याशङ्कते-स्यान्मतमिति । कालस्यात्यन्तसूक्ष्मतया प्रणिहितमतेरपि छद्मस्थस्य पूर्णतया 20 तद्विज्ञानाभावादेव क्वचिद्विसंवादो नान्यथेत्युत्तरयति-अतिसौम्यादिति, क्षीणसकलदोषस्य भगवतो वचनस्य वितथार्थस्वाभावात् तद्वचनात् कालज्ञानमविसंवाद्येव परन्तु छद्मस्थानामम्माकमज्ञानबहुत्वेन ज्ञेयानामानन्त्येन च न यथावत्परिज्ञानमिति तद्वक्तृणामस्माकमेवात्र दोषो न तत्कालज्ञानस्येति भावः । अत्र प्रमाणमाह-केसिं इति । केषां निमित्ता नियता भवन्ति केषाञ्चन विप्रतिपद्यते ज्ञानमिति छाया। कालाद्भूतादीनामन्यत्वानन्यत्वयोनिर्णयविरहिणां वचनमाह-अत एव साशङ्कमिति, 'कालः पचति भूतानि कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः' इति (आव० ४०) कारिका, 25 अत्र भूतप्रजादीनां कालादन्यत्वेनोक्तेः कालवर्तनाव्यतिरेकेण निश्चयाभावादविनिश्चितत्वम् , निश्चतधियस्तु वर्तनाव्यतिरेकेण वदन्ति न तु व्यतिरेकेण यथा 'काल एव हि भूतानि कालः संहारसम्भवौ । खपन्नपि स जागर्ति कालो हि दुरतिक्रम' इति, इममेव भावमाचष्टे-ये पुनरिति यथोक्तमिति, अवगमितद्रव्यक्षेत्रभावात्मान इत्यत्र, तथा पृथिव्यादिव्रीह्यादिवृत्तिविवृत्तीत्यादिदृष्टान्तपूर्वकं कालस्यात्मन्यनात्मस्वात्मनि चेति पूर्वोक्तदान्तिकान्थेन संहारसम्भवक्रिययोः कालात्मताया विनिश्चितत्वादिति भावः । खपजाप्रदवस्थे कालस्वरूपे एव न तद्व्यतिरिक्ते, सुप्तवृत्त्याऽऽविर्भूतकालस्यैव जाग्रवृत्त्याऽभि- 30 व्यक्तरित्याह-न तु स्वपझ्य इति, खपजाप्रदवस्थयोर्व्यतिरिक्तो न कश्चिदास्ते, न वा कालव्यतिरिक्त ते अवस्थे किन्तु कालप्रभेदक्रमसहवृत्तिमात्ररूपे एवेति भावः । सहवर्तनमेवाह-सुप्तवृत्त्येति । क्रमवर्तनमाह-कचिदिति । अथ विधिविधि
____Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org