________________
२६८ द्वादशारनयचक्रम्
[विधिविध्यरे अथ खभा व वादः तद्विकल्प एव स्वभाववादोऽधुना
ननु तैः सर्वैर्वादैः स्वभाव एव भवतीति भाव्यते, द्रव्यार्थप्रसवात् , यत् पुरुषादयो भवन्ति स तेषां भावः, यथा सर्वे भावाः स्वेन भावेन भवन्ति स तेषां भाव इति वचनात्, । येन येन भावेन यो भवति स तस्य भावस्तत्त्वम् , ततश्च तत्र ते भवन्तीति ते भवनस्य कर्तृत्वमनुभवन्ति, ज्ञानस्वातंत्र्यनियमवर्तनात्मकं तत्त्वमिति वदभिः स स स्वभाव एव परिगृ. हीतो भवतीति कारणान्तरपरिकल्पना व्यर्था ।
ननु तैः सर्वैरित्यादि, ज्ञः स्वतंत्रश्च पुरुष एव भवतीति, स्वातंत्र्ये सत्यपि ज्ञाज्ञरूपारूपक्रियाक्रियादिनियमान्नियतिरेवेति, सर्वत्र वर्त्तनतत्त्वः प्रभुविभुत्वाभ्यां काल एव भवतीति, एतैर्वादै10 नंनु स्वभाव एव भवतीति भाव्यते, भवन् भाव्यतेरेव प्रतिपाद्यते, किं कारणं ? द्रव्यार्थप्रसवात् , यत्
पुरुषादयो भवन्ति स तेषां भावः, यथा सर्वभावाः खेन भावेन भवन्ति स तेषां भाव इति वचनात् , येन येन भावेन यो भवति स तस्य भावस्तत्त्वमात्मीयो भावः स्वभाव इत्यनान्तरम् , ततश्च तत्र ते भवन्तीति तदात्मनाऽभिसम्बध्यन्ते, पुरुषादीनामात्मानो भवन्ति तैर्भूयते यथास्वमिति भावेन तेषामभिसम्बन्धः, ते भवनस्य कर्तृत्वमनुभवन्ति, ज्ञानस्वातंत्र्यनियमवर्तनात्मकं तत्त्वमिति वदद्भिः 16 स स स्वभाव एव परिगृहीतो भवति, एवञ्च स्वभावपरिग्रहे सति कारणान्तरपरिकल्पना व्यर्थेति ।
अत आह
तथा च स्वभावे सर्वस्वभावात्मनि भवति कर्तरि सिद्धे के ते पुरुषादयः? कि तैर्विना स्वभावस्य न प्रतिप्राप्तं कार्यम् ।
तथा च खभावे सर्वेत्यादि यावत् के ते, सर्वभावानां पुरुषादीनां खं खं भवनमात्मा 20 यस्य सोऽयं सर्वस्वभावात्मा तस्मिन् स्वभावे भवति-भवनस्यानुभवितरि कर्तरि-स्वतंत्रे भवति भवतेर्वा कर्तरि सिद्धे स्वभावे सिद्धस्यासाध्यत्वात् सिद्धौदनवदर्थान्तरनिरपेक्षिते तैरेव वादैः प्रतिपादिते के ते पुरुषादयः ? न ते भवन्तीत्यर्थः, किं तैर्विना स्वभावस्य न प्रतिप्राप्तं कार्यम् ।
स्यान्मतं तेषां स्वो भाव इति तानपेक्षत इति तदयुक्तम् , तेषामपि हि स्वत्त्वं स्वभावाविकल्पमेव खभाववादमभिदधाति-तद्विकल्प इति । तैः सर्वैर्वादैरिति, पुरुषनियतिकालवादैरित्यर्थः । एतमेवाह-श 25 इति । पुरुषनियतिकालानामपि तत्तद्रूपेण भवनात् तथा भवनखभावत्वात् सर्वैर्वादैः स्वभाव एव समर्थितो नान्यः कश्चिदिति • स्वभाव एव कारणं नान्यत् , न हि ते खेन खेन भावेन भवनाभावे आत्मलाभ लभन्त इति खभावस्तैरपि प्रतिपन्न एवेति भावः। द्रव्यार्थप्रसवादिति, द्रव्यरूपात् पुरुषादेनिखिलानामर्थानां प्रसवव्यावर्णनादित्यर्थः। यदिति, यस्मादित्यर्थः यस्मात् पुरुषादयो भवन्ति स पुरुषादीनां भावः खेन स्वेन भावेनैव सर्वेषां भवनात् तच्च भवनं तेषां तत्त्वम् , तदेव च स्वभाव उच्यते
खकीयभावत्वात् , तत्त्वं हि तेषामसाधारणो धर्मः, तदभावे हि ते न भवेयुरेव, अतस्तत्त्वं तेषामात्मा, तस्मात् पुरुषवादिना 30 ज्ञानस्वातंत्र्यस्य नियतिवादिना नियमस्य कालवादिना वर्तनस्य तत्त्वव्यावर्णनात् ते ते खभावा एव परिगृहीता इति स्वभावेनैव कार्योपपत्तौ तदितरकारणान्तरपरिग्रहो वृथैवेति भावः । पुरुषादीनां व्यर्थतामाविर्भावयति-तथा चेति, सर्वेषां भावानां तेन तेन भावेन भवनमेव ह्यात्मा, तस्यैव भवनस्य सर्वभवनानुभवितुः स्वतंत्रकर्तुः सिद्धखभावस्यापरानपेक्षस्य तैस्तैर्वादिभिरपि प्रतिपादितत्वात्तव्यतिरिक्तानां पुरुषादीनामभ्युपगमो वृथा, खभावासाध्यस्य पुरुषादिसाध्यस्य कस्याप्यभावादिति भावः। ननु खभावो धर्मविशेषः धर्मश्च न धर्मिव्यतिरेकेण भवितुमर्हतीति पुरुषादयो धर्मिरूपेणापेक्षिता एवेति शङ्कते-स्यान्मतमिति।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org