________________
समावसूलता] न्यायागमानुसारिणीव्याख्यासमेतम् पादितमेव, ते ह्यात्मानः स्वे, तद्भावः स्वत्वं तद्धि स्वात्मभिरेव, अन्यथा त एव न स्युरनात्मत्वात्, घटपटवत् , एवं पुरुषादयोऽप्यात्मानात्मत्वादात्मानो न स्युः खपुष्पवत् ।
(स्यान्मतमिति) स्यान्मतं तेषां स्वो भाव:-आत्मीयः स्वभाव इति तानपेक्षत इत्येतच्चायुतम् , यस्मात् तेषामपि स्वत्वं स्वभावापादितमेव, ते ह्यात्मानः स्वे, तद्भावः स्वत्वं तद्धि तेषां स्वत्वं पुरुषादीनां केनापादितं ? स्वात्मभिरेव, यद्येवं स्वो खो भावः स्वभावः, परस्परविविक्तः स्वभाव एवे-5 त्यापादितं स्वात्मभिरेव तत् , अन्यथा-यदि तदात्मत्वं तेषामात्मभावापादितमेव न स्यात् ततस्ते त एव न स्युरनात्मत्वात् , घटपटवत्, यथा घटः पटानात्मत्वात् पटो न भवति, पटोऽपि घटानात्मत्वाद्धटो न भवति, एवं पुरुषादयोऽप्यात्मानात्मत्वात् आत्मानो न स्युन स्युरेव वा, अनात्मत्वात्
खपुष्पवत् ।
___ तस्य स्वभावकारणत्वस्य व्याप्तिप्रदर्शनार्थमाह
एवमेवैतदवश्यमत्रैव स्वभावव्यतिरिक्तार्थाभावात् तत्र तत्र स्वभावानतिक्रमात्स्वभावा एवेति सर्वैकत्वमभिन्नं वर्ण्यत इति स्वभावः प्रकृतिरशेषस्य ।
एवमेवेत्यादि, इत्थमेवैतदवश्यमत्रेव तत्र तत्र-यथा स्वभाववादे स्वभावानतिक्रमात् स्वभाव एवेत्यभिन्नम् , स्वभावव्यतिरिक्तार्थाभावात् , तस्य चामिन्नत्वात् , तथा तत्र तत्र पुरुषनियतिकालादिवादेऽप्युक्तविधिना पुरुषादिस्वभावानतिक्रमात् सर्वैकत्वमभिन्नं तद्भावत्वादेव वर्ण्यते, ज्ञात्मभवनस्य 10 नियमात्मभवनस्य वर्तनात्मभवनस्यान्यस्य च तस्य तस्य स्वभावादेव वर्णनात्, इतिशब्दो हेत्वर्थे, अस्मादुक्तहेतोः स्वभावः प्रकृतिरशेषस्य, योनिर्बीजं प्रभवः कारणमित्यर्थः।
किश्चान्यत्
पुरुषादीनाञ्च स्वत्वे सत्त्वानपोहात्तुल्ये काल एव भवनात्मा न पुरुषादय इति न . स्वभावाहते सिद्ध्यति तत्स्वतत्त्वस्य सत्त्वाविनाभावात् ।
पुरुषादीनाश्च स्वत्व इत्यादि द्रव्यार्थस्य कश्चिदपरित्यज्य वृत्तेः नयानां पूर्व विरोधित्वादु
20
धर्मिणोऽपि सत्त्वं न धर्मव्यतिरेकेणेति, धर्मबलादेव धर्मिणः सत्त्वात् खभाव एव मुख्य इत्युत्तरयति-तेषामपीति । तेषामपि-पुरुषादीनां खत्वमपि खभावापादितमेव, तत्र खं हि आत्मा पुरुषादिः तद्भावः खत्वं तच्च खत्वं पुरुषादीनां खात्मभिरेवापादितम् , तथा च धर्माः खखरूपेणैव भवन्ति नान्यापेक्षया, यदि ते धर्मात्मानः खभावाः स्वात्मनैव न भवेयुस्तर्हि तेऽनात्मत्वात्त एव .. न स्युः यथा घटः पटानात्मत्वात् पटो न भवति, एवं पुरुषादयोऽपि आत्मानात्मत्वात् आत्मानो न भवन्ति, अथ वाऽनात्मत्वात्ते 25 न स्युरेव खपुष्पवदिति । यद्वा धर्माणामात्मा धर्मी, तदभावे धर्मा एव न स्युः यश्चात्मा स एव खभावः, तथा धर्मिणामपि धर्म आत्मा, तदभावे धर्मिणो न स्युरिति सर्वेषां स्वभाव एवात्मा प्रधान कारणमिति भावः । सर्ववादेषु खभावस्यैव कारणत्वं वर्ण्यत इत्याह-एवमेवेति, इत्थमेवेत्यर्थः, अत्रेव-स्वभाववाद इव दृष्टान्तमेव सङ्कटयति-यथा स्वभाववाद इति यथा खभाववादे खभावमनुल्लंघ्याशेषं प्रत्येकस्यैव खभावस्य कारणत्वं तद्व्यतिरिक्तार्थाभावाद्वर्ण्यते तथैव तत्र तत्र पुरुषादिवादेषु तत्तत्वभावानतिक्रमेणैव सर्वैककारणत्वोपवर्णनात् खभाव एवैकं कारणमित्युपवर्णितमेव भवतीति भावः । उक्तार्थमेव 30 प्रकाशयति-पुरुषेति । पुरुषवादाभिप्रायेण ज्ञात्मभवनस्येति, नियतिवादापेक्षया नियमात्मभवनस्येति, कालवादाश्रयेण वर्तना. त्मभवनस्येति । पुरुषादीनाञ्चेति, पुरुषनियतिकालानां खत्वं स्वः स्खो भावः, स च सर्वत्र समानः पुरुषादीनां भेदेऽपि द्रव्यार्थाभिप्रायेण खभावस्य सर्वत्र कश्चिदप्यपरित्यज्य वृत्तेः, पुरुषादिनया एव पूर्वपूर्वं तत्त्वं विरोधात् परित्यज्योत्तरोत्तर
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org