________________
२७० द्वादशारनयचक्रम्
[विषिविध्यरे प्रानुवृत्तेश्च कालस्य पुरुषाधपरित्यागेन वृत्तिं तावदर्शयति-कालवादे हि पुरुषादीनां स्वत्वं सत्त्वानपोहात , कथं सत्त्वमनपोढम् ? संसायनादित्वाभ्युपगमात् पुरुषसत्त्वम् , तस्मिन्नेव काले नियतेरप्यात्मत्वं सत्त्वानपोहात् सत्त्वानपोहश्च युगपदयुगपन्नियतार्थाभ्युपगमात्, एवं कालवादे नियतिपुरुषयोः
सत्वाभ्युपगमः, तथा पुरुषवादे नियते: कालस्य चात्मत्वं सत्त्वानपोहात्, कथं सत्त्वानपोहः ? 6 मुक्तिक्रमाभ्युपगमात् कालसत्त्वानपोहः, अवस्थानियमाभ्युपगमान्नियतिसत्त्वानपोह इत्यादि, एवं नियतिवादे कालपुरुषयोः स्वत्वं-आत्मत्वं सत्त्वानपोहात्, कालसत्त्वानपोहोऽनाधनन्ता नियतिरिति कालसत्त्वाभ्युपगमात् तां सम्प्रपश्यन सर्वज्ञ इति पुरुषसत्त्वाभ्युपगमात् । एवं द्रव्यार्थस्य सर्वत्र सर्वसत्त्वात् स्वभाव इत्युदाहो भवति, तत्र सत्त्वानपोहात् स्वत्वे तुल्ये काल एव भवनात्मा न
पुरुषादय इति न स्वभावाहते सिद्ध्यति, तत्स्वतत्त्वस्य सत्त्वाविनाभावात् । कालोदाहरणन्तु कालवादि10 दूषितपुरुषादिवादानामपि तद्दूषणेन दूष्यत्वात् तत्प्रतिपादनवत् प्रतिपाद्यत्वाच, यथोक्तं 'समनन्तरानुलोमाः पूर्वविरुद्धा निवृत्तिनिरनुशया' इति ।
कालवाद्याह
न, अतुल्यत्वात् सत्त्वस्य, कालस्यैवैकस्य व्रीहिवत्तथा तथा भवनात् , पुरुषादेश्च पृथक् पृथक् भिन्नभावात्मभवनात् । 15 (नेति) न, अतुल्यत्वात् सत्त्वस्य, कालसत्त्वपुरुषसत्त्वयोरन्योऽन्येनातुल्यत्वात् , कथम
तुल्यत्वं? कालस्यैवैकस्य व्रीहिवत्तथा तथा भवनात्, पुरुषादेश्च पृथक् पृथक् मिनभावात्मभवनात्, यथा ब्रीहिरेवैको मूलाङ्कुरादिभावेन भवति तथा काल एव तथा तथा वर्तनात्मा भवति ब्रीहिवत् मूलाङ्कुरादित्वेन तथा पुरुषादयो मिनभावात्मभवनादिति ।
अत्रोच्यते20 नन्वेवमपि कालस्यैव नान्यस्येति कारणकार्यनियमात्मा स एव तस्य स्वभावः।।
नन्वेवमपि कालस्यैव नान्यस्येति, कालस्यैव भवनं न पुरुषादेरिति वचनात् सुतरां गृहन्ति, न तु द्रव्यार्थ इति भावः । तत्र कालस्य पुरुषाद्यपरित्यागेन वर्तनमाचष्टे-कालवादे हीति, अनादिसंसारखभावपुरुषाभ्युपगमात् , पुरुषसत्त्वस्याङ्गीकारे पुरुषखत्वं सिद्धमेवेति भावः । सहक्रमनियतार्थाभ्युपगमानियतिसत्त्वसिद्धौ नियतेरप्यात्मत्वं सिद्धमेवेत्याह-तस्मिन्नेवेति । पुरुषवादेऽपि कालनियत्योर्वर्तनमाह-तथेति । नियतिवादे कालपुरुषयोः स्वत्व25 माह-एवमिति । अनाघनन्तेति, सेयं व्यवस्थिता नियतिसंततिरनाद्यनन्तेत्यभ्युपगमात्तत्र कालसत्त्वमनपोढमेवं तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवतीत्युक्तेश्च पुरुषस्वत्वमप्यनपोढमिति तत्सत्त्वाविनाभावी तयोः खभावोऽप्यस्तीति भावः। इत्थं प्रत्येक पुरुषादिवादेषु कालादिखत्वस्य द्रव्यार्थस्य वृत्तः खभाव इत्यभ्युपगतो भवति. तथा च काल पुरुषादय इत्यभ्युपगमोऽपि कालस्य तथाविधखभावव्यतिरेकेण न सम्भवतीति स्वभावनिराकरणं तद्वादिनां दुराग्रह एवेत्याशयेनाह-एवमिति । कालस्यैवोदाहरणतयोपादाने हेतुमाह-कालोदाहरणन्त्विति, कालवादिना दूषिता ये पुरुषादिवादा30 तेषां कालदूषणेनैव दूष्यत्वात् , कालस्य प्रतिपादनवद्वा तेषां प्रतिपाद्यत्वाच तुल्यत्वादित्यर्थः । पुरुषादेर्न कालतुल्यतेत्याशते-नातुल्यत्वादिति, वर्तनालक्षणकालस्य तेषु तेषु भावेष्वस्खलद्वृत्तित्वात् , पुरुषादेस्तु न तथा, अचेतनतयापि भावात्,
रूपादिपृथिव्यादिरूपताभ्युपगमात् , अथवा कालस्यैव भिन्नात्मभवनरूपः पुरुषोऽपि, अतः पुरुषसत्त्वं न कालसत्त्व. तुल्यमिति भावः । भवतु नाम सत्त्वमतुल्यम्, तथापि कालस्यैवासौ पुरुषो भवनात्मा, कालस्यैव सर्वकारणत्वाभ्युपगमात्, एवञ्च कालपुरुषयोः व्रीह्यकुरादिवत् कारणकार्यनियमाभ्युपगमादपि खभाव एव सिझ्यतीत्याह-नन्वेवमपीति, ननु पुरुषा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org