________________
समावसापनम्] न्यायागमानुसारिणीम्यास्यासमेतम्
२७१ कालस्यासौ भवनात्मेति स्वभाव एव परिगृहीतो भवति, यथा च त्वयोच्यते सत्वाचल्यता कालस्यैव श्रीह्यादिवदडरादिवञ्च पुरुषादीनां भवनमिति, तथा च पुरुषादीनां कारणकार्यनियमादपि चैव स्वभावः परिगृह्यते । कालः कारणं ब्रीह्यादिवत् कार्य पुरुषादयोऽङ्करादिवदिति । नियमात्मा स तस्य स्वभाव इति स एव स्वभावः परिगृह्यते परैः, पूर्वत्र सत्त्वस्य हेतुत्वेन विवक्षितस्य स्वत्त्वाविनाभावित्वेन भावना, इह सिद्धस्यैव स्वभेदेऽप्यभेदेन व्यवस्थितस्य सामान्यविशेषव्यवहारप्रसिद्धिभावनेति । विशेषः। ____ कालस्यैव तत्त्वाद्विभागाभावात्सामान्यविशेषव्यवहाराभाव एवेति चेदेवमपि स एव स्वभावः। व्यवहारप्रत्याख्याने च प्रागभिहितकालास्तित्वानुमानप्रत्याख्यानदोषः। यदपि च कालानुमानं युगपदयुगपद्वृत्त्योच्यते तदपि स्वभावानुमानमेव सम्पद्यते । युगपदयुगपद्वर्तनातिरिक्तस्य कस्यचिदभावादुद्देश्यनिर्देशार्थ घटरूपादि व्रीह्यङ्करादि चोदाहृतं तस्योद्देश्यस्य 10 निर्देश्यस्य च भावस्य तेन तेनात्मना भवनादेव तु स्वभावोऽभ्युपगतः।
कालस्यैव तत्त्वादित्यादि, यावदभाव एवेति चेत् , स्यान्मतं भवतः त्रैकाल्यैककूटस्थत्वात् कालस्यैव तत्त्वात् कालवादे कारणं कार्यमिति विभागाभावादसौ सामान्यविशेषव्यवहाराभाव एव, मिथ्यात्वश्चास्य व्यवहारस्यासद्विषयत्वादिति चेत्, एवमपि स एव स्वभावो भवतीति वाक्यशेषः, कालस्यैव हि स स्वभावो यदसौ भवतीति स्वभावपरिग्रहः । किश्चान्यत् व्यवहारप्रत्याख्याने प्रागमिहित-15 कालास्तित्वानुमानप्रत्याख्यानदोषः, तद्यथा-पूर्वादिव्यवहारलब्धकालाभावश्चैवम् , अपूर्वादित्वात् , नियतिवत् , यथा पूर्वापरादिकारणकार्यव्यवहाराभावान्नियतिर्नास्तीत्युच्यते तथा कालोऽपि तदभावानास्तीति प्राप्तम् । यदपि च कालानुमानं युगपदयुगपद्वृत्त्या घटरूपादीनां ब्रीह्यड्डुरादीनाञ्चोच्यते तदपि स्वभावानुमानमेव सम्पद्यते, यस्मायुगपदयुगपदित्यादि युगपद्वर्तनात् क्रमवर्तनाचातिरिक्तस्य कस्यचिदभावात् काल एवेत्युद्देश्यनिर्देशार्थ घटरूपादि ब्रीह्यकुरादि चोदाहृतं तस्योद्देश्यस्य । निर्देश्यस्य च भावस्य 20 तेन तेनात्मना भवतो भवनादेव, तुर्विशेषणे स्वभावोभ्युपगत इति दर्शनार्थम् ।
___ अथवा नैतद्युक्तिगम्यमेव स्वभावकारणं तथा च दृश्यते तेष्वेव तुल्येषु भूम्यवादिषु हेतुषु भिन्नात्मभावः प्रत्यक्षतोऽपि, कण्टकादि मूलतः क्रमहीनतनुरायतादि, पुनस्तदेव तीक्ष्णादिभूतम्, न पुष्पादि तादृग्गुणं, तच्च वृक्षादीनामेव, तत्रापि बब्बुलादीनामेव, न न्यग्रोधादीनाम् । दीनां खत्व इत्यादिप्रन्येनास्य पौनरुत्यमविशेषादित्याशङ्कायामाह-पूर्वति। तत्र हि सत्त्वं खत्वाविनाभावीत्युक्तम् , अत्र 25 च पुरुषादीनां खत्वस्य पुरुषभेदेऽप्यभेदेन सिद्धस्यैव कालपुरुषादीनां कार्यकारणभावेन व्यवस्थापितानां खभावभेदाद्विशेषरूपतेति सामान्यविशेषरूपतया तस्य विचारः कृत इति भावः । ननु कथं सामान्यविशेषव्यवहारः, तत्त्वभूतस्य कालस्य कूटस्थनित्यत्वेन विभागाभावात्, कारणमिदं कार्यमिदमित्यादिलोकव्यवहारस्य मिथ्याभूतत्वाचेत्याशहते-कालस्यैवेति । तथाभ्युपगमेऽपि खभावो दुरपह्नव एव, तथाभूतता कालस्यैव नान्यस्यैति खभावं विनाऽसम्भवादित्युत्तरयति-एवमपीति । कालस्य कूटस्थनित्यत्वेन व्यवहारस्य पूर्वापरादेरसद्विषयत्वे कालसिद्धिरेव न भवेत् , पूर्वापरादिव्यवहारनियामकतया हि भवद्भिः पूर्व 50 कालः साधितः, तदसद्विषयत्वे तत्कयं स्यादित्याह-व्यवहारेति । घटरूपादिबीयारादीनां सहक्रमभाविनां सहक्रमभावित्वं कालेनैव भवति, अतः कालसिद्धिरित्यपि न स्यात् , सहक्रमभावित्वस्य स्वभावादेवोपपत्तरित्याह-यदपिचेति। एतदेव साधयतियुगपदिति । उद्देश्येति, उद्देश्यस्य कालस्य निर्देशार्थ प्रकाशनार्थ घटरूपादियुगपद्वर्तनं बीगहुरादिक्रमवर्तनश्चोदाहृतं तचो.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org