________________
२७२ द्वादशारनयचक्रम्
[विधिविध्यरे " (अथवेति) अथवा नैताक्तिगम्यमेव स्वभावकारणम् , तथा च दृश्यते तेष्वेव तुल्येषु भूम्यबादिषु हेतुषु मिन्नात्मभावः प्रत्यक्षतोऽपि कण्टकादि, कण्टकस्य मूलतः क्रमहीनतनुरायतादि, आदिग्रहणात् पत्राङ्कुरादिसंस्थानवर्णादि भिन्नात्मभावः पुनस्तदेव-कण्टकादि तीक्ष्णादिभूतं-तीक्ष्णं तीक्ष्णतरं कुण्ठं कुण्ठतरं सविषं निर्विषमित्यादि, न पुष्पादि ताहग्गुणं सुकुमारादिस्वभावं सुरभिदुर्गन्धादिखभा• वञ्च । तच्च वृक्षादीनामेव-तञ्च कण्टकादि वृक्षवल्लीपादपानामेव, तत्रापि बब्बुलादीनामेव न न्यग्रोधादीनाम् । न वैषां मयूरचन्द्रकादीनां पक्ष्यादीनां न वा बर्हिणां पारावतादीनां कण्टकादि ।
तथा
मयूराङ्गकबर्हादीनामेव पञ्चवर्णतावैचित्र्याणि । अत्राह च- 'कः कण्टकानां' इत्यादि, 'केनाञ्जितानि' इत्यादि। 10 मयूराङ्गकेत्यादि यावद्वैचित्र्याणि, बर्हादीनामेव पञ्चवर्णता नोदकादीनाम्, नान्यदपि च
मयूरादिबर्हाण्येव विचित्राणि न शुकादिबर्हाणीति । अत्राह चेति, पूर्ववजिनवचनानुसारेणैव, कः कण्टकानामित्यादि, केनाञ्जितानीत्यादि, गतार्थे वृत्ते ।
इतर आह.. यदि स्वभाव एव कारणं किं कारणं न स्वभावमात्रादेव भूम्यादिद्रव्यविनिर्वृत्तिनिर16 पेक्षा कण्टकाद्युत्पत्तिर्भवेत् ? किञ्च कारणमन्यथापि न स्यात् सोऽपि कण्टकः किमर्थ कदाचित् किञ्चिद्विध्यति किञ्चिच्च नेति चेन्न, भूम्यादिस्वभावानपेक्षोत्पत्तिदर्शनात् स्वभावाव्यभिचाराच्च, तद्यथोत्पातादिष्वकण्टकानां वृक्षादीनां कण्टकाः, कण्टकिनाञ्चाकण्टका दृष्टाः उत्पातादिस्वभावनियमवशादप्यनपेक्षितद्रव्यकालादिरपि कण्टकाद्युत्पत्तिदृष्दैव । - यदि स्वभाव एव कारणमित्यादि यावत् किश्चिञ्च नेति, अर्थान्तरव्यपेक्षोत्पत्तिदर्शनान्न 20 स्वभाव एव कारणमास्यकवलप्रक्षेपवत् , दृष्टा च कण्टकादेरुत्पत्तिर्भूम्यादिद्रव्यविनिर्वृत्तिव्यपेक्षवा
द्देश्यस्य निर्देश्यं यद्धटरूपादि तस्य स्वभावादेव भवनात् स्वभाव एवाभ्युपगन्तव्य इति भावः । न केवलं युक्तिमात्रगम्य स्खभा. वकारणत्वमपि तु प्रत्यक्षगम्यमपि तुल्यादपि कारणकलापात् कार्यवैचित्र्यस्य प्रत्यक्षतो दृष्टस्य तथाविधविचित्रखभावव्यति. रेकेणानुपपत्तेरित्याह-अथवेति, कण्टकादीति, कण्टको हि आयतोऽनुक्रमं हीनतनुर्भवति, सोऽपि नैकविध एव, किन्तु
कोऽपि तीक्ष्णः कोऽपि तीक्ष्णतरः कोऽपि कुण्ठः कोऽपि कुण्ठतरः कोऽपि सविषः कोऽपि निर्विषश्च भवति । तदपि कण्टकादि 25 वृक्षादिषु बब्बुलादीनामेव भवति न त्वन्यत्रेति तत्र नियामकश्च खभाव एवेति भावः । निदर्शनान्तरमाह-मयूराङ्गकेति । कः
कण्टकानामिति, कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रतां वा मृगपक्षिणाञ्च । खभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ॥ इति पूर्णः श्लोकः । तथा 'केनाजितानि नयनानि मृगागनानां को वा करोति रुचिरागरूहान् मयूरान् । कश्चो. त्पलेषु दलसन्निचयं करोति को वा करोति विनयं कुटजेषु पुंसु॥इति चननु खभावस्यैव कारणत्वे तस्यार्थान्तरनिरपेक्षकारण. वाद्भूम्यम्ब्वादिवस्त्वन्तरापेक्षा कण्टकादीनां न स्यात्, दृश्यते च तेषां तदपेक्षेत्याशङ्कते-यदि स्वभाव एवेति भूम्या30 देव्याणां विनिर्वृत्तिः-परिणामस्तस्मान्निर्गताऽऽपेक्षा यस्या उत्पत्तेस्तादृशी कण्टकादेरुत्पत्तिर्भवेदिति विग्रहार्थः । कुतो वा कारण
व्यतिरेकेणापि कण्टकादेरुत्पत्तिर्न स्यात् खभावस्यैव कारणत्व इत्याह-किश्चेति । अर्थान्तरेति, स्वभावव्यतिरिक्तार्थान्तरापेक्षकार्योत्पत्तिदर्शनेन न खभावस्येव कारणत्वं, दृश्यते हि अन्नादेस्तृप्तिकारणत्वेऽपि मुखकवलप्रक्षेपापेक्षयेव तस्य तृप्तिजनकत्वं नान्यथेति भावः। कण्टकाधुत्पत्तभूम्यादिद्रव्यपरिणामापेक्षाया दुर्निवारायाः खभावमात्रकारणत्वे व्यर्थता स्यादित्याह-दृष्टा
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org