________________
समावाश्यकता] न्यायागमानुसारिणीव्याल्यासमैतम्
२७३ नपह्नवनीया, सा च न स्याद्भूम्यादिद्रव्यनिर्वृत्तिव्यपेक्षोत्पत्तिः, स्वभावादेव स्वभावस्यार्थान्तरनिरपेक्षकारणत्वात् , यदि च स्वभाव एव कारणं किं कारणं न स्वभावमात्रादेव भूम्यादिद्रव्यवि. निर्वृत्तिनिरपेक्षा कण्टकाचुत्पत्तिर्भवेत् ? किञ्च कारणमन्यथापि न स्यात्-भूम्याद्यन्तरेण निर्वृत्तिः कण्टकस्य न स्यात् , किं वा कण्टकस्य सौकुमार्य कुसुमस्य वा तैक्ष्ण्यश्च न स्यात्, सोऽपि कण्टकः किमर्थ विध्यति, कुसुमं किं न विध्यति, किमर्थश्च कदाचिद्विध्यति तीक्ष्णोऽपि, सर्वकालं किं न विध्यति । कण्टकः, किमर्थं किंचिदेव विध्यति न सर्वम् , तमपि किञ्चित्कचिदेव प्रदेशे विध्यति, न सर्वत्रेत्यत्र विशेषहेतुर्याच्यः, दृष्टश्चायं नियमोऽर्थान्तरापेक्षः, स तु स्वभावस्यार्थान्तरनिरपेक्षत्वान्नोपपद्यत इत्यत्रोच्यते-न, भूम्यादिस्वभावेत्यादि यावदृष्टैव, यदुच्यते भूम्यबादिद्रव्यविनिर्वृत्त्यपेक्षा चोत्पत्तिदृष्टेयेतन्न, अनपेक्षोत्पत्तिदर्शनात् स्वभावाव्यभिचाराच स्वभाव एवेति मन्तव्यम् , तद्यथा-उत्पातादिष्वकण्टकानां वृक्षादीनां कण्टका:, कण्टकिनाश्चाकण्टका निध्यादिलिङ्गत्वेन दृष्टाः । यथोक्तम् 'अकण्टकाः 10 कण्टकिनः कण्टकाश्चाप्यकण्टकाः । विपर्ययेण दृश्यन्तो वदन्ति निधिलक्षणम्' इति । इत्थं सत्यामपि भूम्यादिद्रव्यनिर्वृत्तौ कण्टकाभावादसत्यामपि एतद्रव्यकालादिनिर्वृत्तौ कण्टकदर्शनाच नापेक्षाऽस्ति स्वभावस्य, किन्तूत्पातादिस्वभावनियमवशादनपेक्षितद्रव्यकालादिरपि दृष्टैव कण्टकाद्युत्पत्तिर्न पुनस्तत्स्वभावमन्तरेण सोत्पत्तिरस्तीति खभाव एवाव्यभिचाराद्व्यापित्वाच्च कारणमेषितव्यम् । किश्चान्यत्
15 अपि च भूम्यवादिद्रव्यविनिर्वृत्त्यपेक्षैव कण्टकनिर्वृत्तिरिति ब्रुवता ननु सैव स्वभावसिद्धिस्त्वयैव वय॑ते, भूम्यादिभ्य एव कण्टको भवतीति तत्स्वभाववर्णनात् , अन्यथा स्वभावात् किमन्यदत्र शक्यं वक्तुं कारणम् ?, तेषां तत्तत्स्वाभाच्यात् ।
अपि चेत्यादि, अपि च त्वया भूम्यबादिद्रव्यविनिर्वृत्त्यपेक्षैव-भूम्यादीन्येव वृक्षत्वेन कण्टकद्रव्यत्वेन तैक्ष्ण्यादित्वेन च निवर्तन्ते तत्संयोगनिर्वृत्त्यपेक्षा कण्टकनिर्वृत्तिरिति ब्रुवता ननु सैव 20 खभावसिद्धिस्त्वयैव वर्ण्यते । किं कारणम् ? भूम्यादिभ्य एव-भूम्यम्बुक्षेत्रबीजाङ्कुरादिद्रव्यनिर्वसिभ्य एव कण्टको भवतीति तत्स्वभाववर्णनात् , अन्यथा स्वभावात् किमन्यत्र शक्यं वक्तुं कारणम् ? भूम्यम्बुक्षेत्रबीजाङ्करादिभ्य एव कण्टको भवति न मृत्पिण्डादिभ्य इत्येव तेषां स्वभाव इति स्वभावस्यैव समर्थनं तदपि तेषां तत्तत्स्वाभाव्यात् । चेति । वैपरीत्यं कुतो न स्यादित्याह-किंवा कण्टकस्येति । कण्टकस्य वेधनखभावत्वेऽपि किमर्थ नरादीनां पादादेः क्वचि-25 देव प्रदेशे विध्यति न तूष्यादेः, खभावस्य सर्वत्र समानत्वात् , तस्मादीदृशप्रसङ्गभञ्जनाय विशेषहेतोरवश्यवाच्यतया स्वभावमात्रकारणत्वं व्याहतमेव भवेदित्याह-सोऽपि कण्टक इति । स्वभाववादी समाधत्ते-भूम्यादीति, कण्टकाद्युत्पत्तिर्हि न भूम्यादिद्रव्यपरिणाम मियमेनापेक्षते, उत्पातादौ तादृशपरिणामविशेषविरहेऽपि तदुत्पत्तिदर्शनात्, तथाविधपरिणामविशेषसद्भावेऽपि कण्टकाधुत्पत्त्यदर्शनाचान्वयष्यतिरेकव्यभिचारात्, न ह्यन्वयध्यतिरेकव्यभिचारेऽपि तदपेक्षत्वं केषामपि सम्मतम् , खभावविशेषस्य तु न कापि व्यभिचारो दर्शयितुं शक्य इति स एवाव्यभिचारित्वाझ्यापित्वाच्च कारणं भवितुमर्हतीति भावः । 30 किश्च भूम्यवादिद्रव्यपरिणामापेक्षयव कण्टकाद्युत्पत्तेरभ्युपगमेऽपि तथाखभावस्यैव कारणत्वं सेत्स्यतीत्याह-अपि चेति, तत्र हेतुमाह-भूम्यादिभ्य इति । तत्संयोगेति । भूजलतेजआदिसंयोगेत्यर्थः । अन्यथा स्वभावादिति, स्वभावव्यतिरेकेणात्र विषये किमन्यत् कारणं भवितुमईति, नैव भवितुमर्हतीति भावः । तदपि, तथा खभावसमर्थनमपीत्यर्थः, अथ
द्वा. न.३५
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org