________________
[विधिविध्यरे
किचान्यत्----
यथा पृथिव्यादिविश्वथा भावः पुरुषप्रयत्ननिरपेक्ष एव भवति, एवं निमित्तानामपि घटपटाद्युत्पत्तौ निमित्तता स्वाभाविकीति तत्कुत उत्पत्तिरिति सा प्रतिवस्तु स्वभाव एव, वयः क्षीरादिवत् ।
२७४
द्वादशारनयचक्रम्
5 यथा पृथिव्यादीत्यादि यावन्निमित्तानामपि निमित्तता स्वाभाविकीति, यथैवायं विश्वथासर्वथाऽनेकप्रकारं बीजाङ्कुरादिक्रमनिर्वृत्तिः कण्टकादिः पृथिव्यादिश्च भावः पुरुषप्रयत्ननिरपेक्षोऽप्रयत एव भवति । अथवा पृथिव्यादीनामेव प्रागभिहितन्यायेन वृक्षघटादिस्वभावाभ्युपगमात् यथा स्वभाव एव एवं निमित्तानामपि घटपटाद्युत्पत्तौ पुरुषकारसाध्याभिमतायां मृत्पिण्डदण्डचक्रसूत्रोदककुलालादिनिमित्तानां निमित्तता सापि स्वाभाविकी, ततो न स्वभावव्यतिरिक्तं किञ्चित् एवञ्च सर्वस्य 10 स्वाभाविकत्वेन तत्कुत उत्पत्तिरिति, १ या प्रागुक्ता त्वया भूम्यादिद्रव्यविनिर्वृत्त्यपेक्षैवोत्पत्तिरिति सा कुतः ? नास्त्येव, कारणं तस्मान्नास्ति, प्रागेवाभिव्यक्तेः विरचितलीनावस्थत्वात् तस्मात् सा - उत्पत्तिः प्रतिवस्तु स्वभाव एवायम्, वस्तु वस्तु - प्रतिवस्तु, स्वो हि भावः स्वभावः इति निरुक्त्या प्रतिवस्त्वात्मीयं भावमाचष्टे, वयः क्षीरादिवदिति दृष्टान्तः, यथा बाल्यकौमारादिवयोऽवस्थाः पूर्वविरचिता एवाविर्भवन्ति, यथा क्षीरदभ्युदस्विन्नवनीत घृतावस्थास्तथा घटादयो निमित्तस्वभावापेक्षाभिव्यङ्ग्यविर15 चितस्वभावा आविर्भवन्ति ।
यदि वाऽसौ नेत्थं स्यादुत्तरत्रापि न भवेदेवाभूतत्वात्, वन्ध्यापुत्रवत्, एवं मृदादिषु सतामेव घटादीनां निमित्तापेक्षस्वभावैवोत्पत्तिर्नाकाशादिषु । दृष्टा घटादीनां क्रियाया उत्पत्तिरिति चेन्न, प्रागनभिव्यक्तेः ।
यदि वाऽसावित्यादि यावद्वन्ध्यापुत्रवत्, यदि वाऽसावुत्पत्तिः स्वभावोऽस्मदभिहितो 20 न स्यादित्थं - पूर्वावस्थायामिव तत उत्तरत्रापि न भवेदेव, अभूतत्वाद्वन्ध्यासुतवत् । अस्यैवार्थस्य भाव - नार्थमाह-एवं मृदादिष्वित्यादि गतार्थं यावन्नाकाशादिषु । दृष्टा घटादीनां क्रियाया उत्पत्तिरिति चेत्--- स्यान्मतं दृष्टविरुद्धमुक्तं त्वया विद्यमानानां घटादीनां निमित्तापेक्ष स्वभावैवोत्पत्तिरिति, क्रियाया एव
पृथिव्यादीनां यथा बीजाङ्कुरादिक्रमिकभावात्मना कण्टकादिभावेन भवनं पुरुषप्रयत्ननिरपेक्षेण प्रयत्नव्यतिरेकत एव दृश्यते, उपादानोपादेयभावाभ्युपगमेऽपि तेन तस्यैव भवनं नान्यस्येति स्वभावादेव नियमस्तथा पुरुष प्रयत्नसाध्यत्वाभिमतघटपटाद्यु25 त्पत्तिनिमित्तानामपि दण्डचत्रसूत्रोदककुलालतन्तुवायादिनिमित्तानां निमित्तत्वमपि खभावादेव, अन्यथाऽन्येषामपि निमित्तत्वप्रसङ्गः, इत्थं सर्वत्र स्वभावस्यैव नियामकत्वे तस्यैव कारणत्वौचित्येना पर कारणाभ्युपगमो व्यर्थ एवेत्याह-यथा पृथिव्यादीत्यादिना । एवञ्च सर्वस्य स्वाभाविकत्वे सिद्धे भूम्यादिद्रव्यविनिर्वृत्त्यपेक्षयैव कण्टकोत्पत्तिरिति त्वया प्रागुक्तं न समीचीनम्, भूम्यादिद्रव्यविनिर्वृत्तेः कारणत्वाभावादित्याह - तत्कुत इति । तस्मात् सोत्पत्तिः प्रतिवस्तु आत्मीयो भाव एव, कार्यत्वाभिमतानां कारणत्वाभिमतेषु कारणव्यापारात् प्रागप्यवस्थितत्वात् केवलं कार्यत्वाभिमतानामभिव्यक्तावेव कारणत्वाभिमतानां 30 प्रयोजकत्वात् बाल्यादिवयोवत्, क्षीरदध्यादिवदिति न काप्युपपत्तिर्न किमपि कारणमिति भावः । नास्त्येवेति, उत्पत्तिरेव नास्तीत्यर्थः, अत एव कारणमपि किमपि नास्तीति भावः । प्रागेवेति, कण्टकादेः कारणव्यापार पूर्वमपि सत्त्वात् कारणानां तदभिव्यञ्जकत्वादिति भावः । दृष्टान्तं सङ्गमयति-यथेति । वैपरीत्ये बाधकमाह-यदि वाऽसाविति । ननु कारणेषु पूर्वमविद्यमानस्यैव घटादेः दण्डचक्रकुलालादिव्यापारोत्तरकालमुत्पत्तेर्दर्शनाद्वस्तुस्वभावत्ववर्णनं दृष्ट विरुद्धमित्याशङ्कते - स्यान्मतमिति । स व्यापारो न घटोत्पत्तौ निमित्तमपि तु तदभिव्यक्तावेव, अतस्तयापारात् पूर्वं घटादिरनभिव्यक्तो यथाऽपवरक
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org