________________
२७५
अनभिव्यक्ताग्रहणम् ] न्यायागमानुसारिणीव्याख्यासमेतम् कुलालस्य घटादेरर्थस्योत्पत्तेर्दर्शनादित्येतञ्च न, प्रागनभिव्यक्तेः-क्रियायाः प्राक् सोत्पत्तिरनभिव्यक्ता, अपवरकघटवत् प्रदीपेन क्रिययाऽभिव्यज्यते नोत्पाद्यत इत्यदोषः।
सा सत्यग्रहणनिमित्ताभावे स्वभावादेवेति, त्वयैवाभ्युपगतत्वादतिसन्निकृष्टमतिविप्रकृष्टं व्यवहितं वाऽञ्जनमन्दरादि चक्षुरादिना न गृह्यत इति यथा स स्वभावस्तथायमपीति किं न गृह्यते । ... (सेति) सा सत्यर्थेऽनभिव्यक्तिरग्रहणनिमित्तानामत्यासन्नविप्रकृष्टव्यवहितसमानाभिहाराभिभवसौम्येन्द्रियदौर्बल्यमनोवैयग्र्यपित्तोपघातादीनामभावे सति किमर्थं भवतीति चेन्मन्यसे वयमत्र ब्रूमः स्वभावादेवेत्यादि यावञ्चक्षुरादिना न गृह्यते, नचास्माभिरेव तद्वक्तव्य स्वभावादेव ग्रहणहेतुषु सत्स्वपि सतोऽर्थस्यानभिव्यक्ती स्वभाव एव कारण मिति, कस्मात् ? त्वयैवाभ्युपगतत्वात् , अतिसन्निकृष्टमतिविप्रकृष्टं व्यवहितं वा चक्षुरिन्द्रियरूपमञ्जनमन्दरादि न गृह्णात्यत्यन्तमित्यत्र केन त्वयैतत् 10 कारणेन प्रतिपन्नमिति पृष्टेनावश्यं स्वभावादिति वक्तव्यम् , अयं हि चक्षुषः स्वभावो यदतिसन्निकृष्टमञ्जनादि न प्रपश्यति, अतिविप्रकृष्टं वा मेर्वादीति । शेषेन्द्रियाणामपि स्वभावादेवातिविप्रकृष्टाद्यग्रहणं स्वविषयनियमश्चेति । किश्चान्यत् , यथा स स्वभावस्तथायमपि-यथा चक्षुषादीन्द्रियाणामात्मनोऽत्यन्तमतिसन्निकृष्टाद्यग्रहणं स्वभावस्तथाऽनभिव्यक्ताग्रहणं स्वभाव इति किं न गृह्यते । किश्चान्यत्
15 __ यथैतत्तथा किञ्चिदत्यन्तानुपलब्धिस्वभावमेव भवत्यात्मादि, तत्र न सन्त्यात्मादयोऽर्थी इति वृथैव विवदन्ति शाक्यादयः, तन्न पुरुषकामचारप्रवृत्त्यादिभ्यः किञ्चिदपि निर्वर्त्तते, किन्तु भूम्यबादिनीयङ्कुरादिमृद्धटाद्यभिव्यक्त्यनभिव्यक्तिस्वभावम् , वस्तुत्वात्तदात्मत्वात् , तन्न कुतः कस्यचिदर्थिनोऽप्येवं वा विपर्यय एव वाऽऽरम्भक्रियानिवृत्तयः ।
स्थितो घटादिः, ततश्च व्यापारेणानन्तरं सोऽभिव्यज्यते दीपेनेव घटादिरित्युत्तरयति-प्रागनभिव्यक्तेरिति।ननु कुतो घटादे: 20 प्रागनभिव्यक्तिर्ग्रहणहेतूनां सद्भावेऽपि, अग्रहणहेतोरभावादियाशंक्य समाधत्ते-सा सतीति, अग्रहणनिमित्तानामत्यासन्नत्वादीनामभावे सति साऽनभिव्यक्तिः खभावादेव भवति, यथा विद्यमानमपि वस्तु अतिसनिकृष्टत्वादिदोषतश्चक्षुरादिना न गृह्यते इत्येतन्नियमो ग्राह्यग्राहकाणां खभावात्तद्वदिति भावः । अत्यासन्नेति, लोचनस्थमजनादि अतिसामीप्यान्न गृह्यते, वियत्युपतन् पतत्री सन्नप्यतिदूरतया प्रत्यक्षेण नोपलभ्यते, कुड्यादिव्यवहितं राजदारादि न गृह्यते, समानाभिहारः-सजातीयपदार्थमिश्रणम् , यथा तोयदविमुक्तानुदबिन्दून् जलाशये न पश्यति, अहनि सौरीभिर्भाभिरभिभूतं प्रहनक्षत्रमण्डलं न दृश्यते, 25 इन्द्रियसमिकृष्टं परमाण्वादि सौक्ष्म्यात् प्रणिहितमनसापि न गृह्यते, विद्यमानमपि रूपरसादि इन्द्रियदौर्बल्यान्न गृह्यते, कामाधुपहितमना मनस इतरव्यासङ्गेन स्फीतालोकमध्यवर्तिनमिन्द्रियसन्निकृष्टमप्यर्थ न गृह्णाति, पित्तादिनोपहितमिन्द्रियं विद्यमानमपि शंखादौ धावल्यं न गृह्णातीति वस्तूनां विद्यमानानामप्यग्रहणनिमित्तान्येतानि भाव्यानि । मयैव तथानभिव्यक्ती कारणं स्वभाव इति नोच्यते, किन्तु त्वयाऽपि तथाऽभ्युपगत एवेत्याह-न चास्माभिरिति । कथमभ्युपगतं मयेत्यत्राह-अतिसन्निकृष्टः मिति । अतिसन्निकृष्यदेरग्रहणे यथा खभावो नियामकस्तथाऽनभिव्यक्तस्याप्यग्रहणे खभाव एव नियामक इति । यथैषा प्राग् घटादेरनभिव्यक्तिः खभावस्तथैवात्मादेरत्यन्तमनुपलब्धिरपि तथाखभाव एवेत्याह-यथैतदिति। . एवं स्वभावादेव तस्यानुपलब्धेः शाक्यादयो तथाखभावमविद्वांसो वृथैव नास्त्यात्मादिरिति विवदन्तीत्याह-तत्रेति । तथा च सर्वेषां खभावहेतुकत्वात् पुरुषात् तद्बुद्धेः तदिच्छायास्तत्प्रयत्नाद्वा न किश्चिदपि निर्वर्तते व्यभिचारादित्याह-तन्नेति । भूम्यवादीति, भूम्यबादौ व्रीयङ्करादेः मृदि घटादेः कदाचिदनभिव्यक्तिः कदाचिच्चाभिव्यक्तिरिति स्वभाव एव, तथा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org