________________
२७६ द्वादशारनयचक्रम्
[लिपिविण्यो (यथेति.) यथैतत्तथा किश्चिदत्यन्तानुपलब्धिस्वभावमेव भवत्यात्मादि-आत्माकाशकालदिगादयः कार्यत एव नित्यानुमेयाः पदार्थाः सौम्याद्वायेन्द्रियाविषयास्तत्स्वभावगः, तत्र नास्थात्मा नास्ति कालो धर्माधर्माकाशदिगादयो वाऽर्था न सन्तीति वृथैव विवदन्ति शाक्यादयः स्वभावभेदमविद्वांसः । तस्माद्यदुच्यते त्वया क्रियातो घटादि निर्वर्त्तत इति तन्न पुरुषकामचारप्रवृत्त्यादिभ्यः 6 किश्चिदपि निर्वर्त्तते, पुरुषात् तदिच्छातः तत्प्रवृत्तेः-तत्प्रयत्नाद्वीर्यादित्यर्थः, आदिग्रहणात्तबुद्धिनृप
खामिनियोगादिभ्यः, सर्वत्र व्यभिचारदर्शनात् । किं तर्हि ? भूम्यबादिव्रीह्यङ्करादिमृद्धटाघभिव्यक्तयनभिव्यक्तिस्वभावम् , स्थैर्यादिः पृथिव्यादिस्वभाव एव, वस्तुत्वात्तदात्मत्वात्, यथाऽऽपो द्रवाः, स्थिरा पृथिवी चलोऽनिलो मूर्तिहीनमाकाशमुष्णोऽग्निरित्यादिषु स्वभाव एव, तन्न कुतः कस्यचिदर्थि
नोऽप्येवं वा विपर्यय एव वाऽऽरम्भक्रियानिवृत्तयः? आपो द्रवा भवन्तु स्थिरा पृथिवी चलोऽ10 निलोऽग्निरुष्णो वियदमूतं भवस्वित्येवमर्थिनोऽपि पुरुषस्य नारम्भो न चेष्टा न च निर्वृत्तिर्वा तथा विपर्ययेऽपि मा भूद्रवं जलं स्थिरा भूश्चलोऽनिलोऽग्निरुष्णो मूर्तिमानाकाश इत्यारम्भः क्रिया निवत्तिर्वा, स्वभावस्यान्यथाकर्तुमशक्यत्वात् , एवं घटादिष्वपि योज्यं स्वाभाविकत्वम् ।
तथा चाहुः "चित्रकः कटुकः पाके वीर्योष्णः कटुको रसे। तद्वदन्ती प्रभावात्तु विरेचयति सा नरम् ॥ इति, प्रभाव इति स्वभावपर्यायत्वाद्रसादेरपि स्वभावत्वात् स एव 16 तथा तथा वण्यते इति, तस्मात् कथं घटोत्पत्त्यादि सम्भाव्यते ।।
तथा चाहुरिति स्वाभाविकत्वविज्ञापकमाह-चित्रक इति, कटुकरसः कटुकविपाकः उष्णवीर्यश्चित्रकस्तद्वहन्ती कटुकरसा कटुकविपाकोष्णवीर्या, विशेषस्त्वस्याश्चित्रकात् प्रभावेन विरेचयति, प्रभाव इति स्वभावपर्यायत्वाद्रसादेरपि स्वभावत्वात् स एव सामान्यविशेषाभ्यां तथा तथा वर्ण्यत इति । तस्माद्यत्त्वयोक्तं क्रियातो घटाद्युत्पत्तिरिति तत्र पृथिवीमृत्पिण्डशिवकादिक्रमापत्तव्यघटात्मनः 20 स्थैर्यात्मवन्न स्त उत्पत्तिविनाशौ, उक्तहेतुत्वात् , अस्माद्धेतोः कथं घटोत्पत्त्यादि सम्भाव्यते, ? आदिग्रहणाद्वक्ष्यमाणौ विनाशविपरिणामावपि कथं सम्भाव्येते ?, नैव सम्भावनीयं तत्रयमित्यर्थः ।
स्यान्मतम्
कुलालप्रयत्नप्रेरितदण्डचक्रसूत्रोदकमृदादीनां पुरुषाभिसन्ध्यनुरूपघटाद्युत्पत्तिविनाभूम्यादेः स्थिरत्वादिः स्वभाव एव, तेषां तदात्मत्वात् , तथैव वस्तुत्वाच्च, अत एव च भूम्यादीनां स्थिरत्वादिविधानेऽस्थिर25 त्वादिविधाने वा कस्याप्यर्थिनो नारम्भो न वा चेष्टा न च वा निर्वृत्तिरिति भावः । तत्वभावा इति, बाह्येन्द्रियाविषय
खभावाः अनुपलब्धिस्वभावाः तेषामतीन्द्रियत्वेनानुमानमात्रगम्यत्वादिति भावः । स्वभाव एवेति, कारणमिति शेषः। भूजलादीनामनुरूपखभावापेक्षयाऽऽरम्भादिवैयर्यमाह-आपो द्रवा इति । भ्वम्ब्वादीनामननुरूपखभावापेक्षयापि आरम्भादिवैयर्थ्यमाचष्टे-तथा विपर्ययेऽपीति । तत्र हेतुमाह-स्वभावस्येति । खभावस्यैव सर्वत्र नियामकत्वे वैद्यकसम्मतकारिकां प्रमाणयति-तथा चाहुरिति । प्रभावशब्दस्य स्वभावार्थतामादर्शयति-प्रभाव इतीति । खभाव एव सामान्य30 विशेषाभ्यामनेकधा वर्ण्यत इत्याह-स एवेति । कारिका व्याचष्टे-कटकरस इति । फलितार्थमाह-तस्मादिति, स्थिरखरूपस्यात्मनो यथा नोत्पत्तिर्न वा विनाशस्तस्य तथाविधखभावत्वात्तथा पृथिवीमृत्पिण्डशिवकादिक्रमेण भवनं घटादेः खभाव इति न तस्य क्रियात उत्पत्तिा विनाशो वा केनापि कत्तुं शक्यत इति भावः । अथ खभावस्यैव केवलस्य कारणत्वे घटादेरुत्पत्त्यादौ पुरुषप्रयत्मदर्शनात् प्रत्यक्षविरोध इत्याशङ्कते-कुलालेति । पुरुषाभिसन्धिः-पुरुषेच्छा, पुरुषो यथा यथा
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org