________________
द्वादशारनयचक्रम्
[ विधिविन्यरे
एवं तावन्यायेन परीक्ष्यमाणमेतद्वाक्यं न युज्यते पुरुषतर्कलक्षणेन, यद्यपि पुरुषतर्कलक्षणं न्यायमतिलंघ्यापौरुषेयो नित्यो वेदाख्यः क्रियोपदेशः पुरुषगतरागादिदोषाऽऽशङ्काहेतुविनिर्मुक्तः प्रमाणं तथापि तद्वचनादेवास्मिंस्तु न्यायेऽतिलंध्यमाने क्रियोपदेशवादोऽपि तत्त्ववादवदेव त्यक्तः स्यात्, तत्रापि यदृच्छाभ्युपगमात् ।
5
१५६
( एवं तावदिति, ) ( प्रमाणमिति ) पुरुषकृतानि हि वाक्यान्यविद्यारागाद्य वियुक्त पुरुषवदप्रमाणानि अफलाशक्यप्राप्तिनित्यानित्यादि वस्तुतत्त्वविचार विषयाणि, सफलशक्यप्राप्तिपुरुषहितोपायक्रियोपदेशात्तु वेदवादः श्रेयानितीष्टं तथापि तद्वचनादेवास्मिंस्तु न्यायेऽतिलंध्यमाने क्रियोपदेशवादोऽपि तवादवदेव त्यक्तः स्यात् किं कारणं ? तत्रापि यदृच्छाभ्युपगमात्, अविद्यrरागाद्य वियोगादेव सर्वपुरुषाणाम्, वक्तृश्रोतृपुरुषाधीनत्वाश्चोपदेशपरम्पराया न कश्चिद्बुद्धिपूर्व उपदेशः, अतः सुप्त10 मत्तादि विप्रलापवद्यदृच्छयाऽभ्युपगतो वेदो वैदिकैः ।
अत इदमापन्नं को वा तद्वेदाग्निहोत्रं जुहुयात् स्वर्गकाम इत्येतद्वाक्यं सार्थकं निरर्थकं वेति ? बालप्रलापवत्, यथाहि बालैरनियतक्रियाकारकैरसम्बद्धमुक्तं बुद्धिपूर्वत्वाज्ज्ञातुमशक्यं केनार्थेनार्थप्रत्यायनार्थमिदमिति, व्यवस्थापेतत्वात् किं वाऽनेन ज्ञातेन ? यदेतज्ज्ञा एवमुक्तवन्तोऽग्निहोत्रं जुहुयादिति वाक्यमव्यक्तम्, अव्यक्तज्ञाना एव हि ते पुरुषत्वादविद्या1" योगाच्च दश दाडिमादिश्लोकवादिवत् ।
( अत इति) किमिव ज्ञायते ? बालप्रलापवत् यथा हि बालैरनियतक्रियाकारकैरसम्बद्धमुतमबुद्धिपूर्वत्वाज्ज्ञातुमशक्यं केनार्थेनार्थप्रत्यायनार्थमिदमिति, किं कारणं ? व्यवस्थापेतत्वात् । व्यवस्थोपेतशब्दप्रयोगो ह्यर्थप्रत्यायनार्थः स्वनिश्चितार्थप्रतिपादन समर्थनियतवर्णानुपूर्वीकः प्रत्युपेक्षितवा - च्यवाचकसम्बन्ध इतीयं लोकशास्त्र व्यवस्था, ततोऽपेतम् ब्रह्मादिसर्ववेदवादिवचनम्, अविद्यारागा20 द्यवियोगात्तेषामित्यशक्यप्राप्तिर मिहवन विधानादिवाक्यार्थस्य, तस्मात् को ह वैतद्वेद बालप्रलापवद्व्यवस्थापेतमुदितम् । किञ्चान्यत्, अफलचैतदित्यत आह- किं वाऽनेन ज्ञातेन ? यदेतज्ज्ञा-वेदज्ञा अग्निहोत्रकर्मज्ञा एवमुक्तवन्तोऽग्निहोत्रं जुहुयादिति वाक्यमव्यक्तमव्यक्तार्थं - अस्फुटार्थं यस्मादव्यज्ञाना
"
कारणदोषाभावेन वेदनिष्ठं स्वतः प्रापाण्यं नापनोदयितुं शक्यमित्याशङ्कते - यद्यपीति । सङ्केतादिद्वारा पुरुषसम्बन्धीनि वाक्यानि अविद्या रागादियुत पुरुषस्याप्रमाणतावदप्रमाणानि, वर्णपदवाक्यानाञ्च नित्यत्वानित्यत्वादि विचारो दुःशको निष्फलश्चातः क्रियोप26 देश एव श्रेयान् सफलत्वाच्छक्यप्राप्तेश्च ततः क्रियोपदेशरूपो वेदः प्रमाणमित्याह - पुरुषकृतानि हीति । पुरुषतर्क लक्षणन्यायपरित्यागे वेदवाक्यैरर्थप्रत्यायनासम्भवात् तत्त्ववादवदेव क्रियोपदेशवादोऽपि दुःशकत्वाद फलत्वाच्च त्यक्तव्यो भवेत्, याहच्छिकत्वाभ्युपगमे पर्यवसानादित्युत्तरयति - तथापीति । यादृच्छिकत्वमेव समर्थयति - अविद्यारागेति निखिलानां पुरुषाणामविद्यारागाद्य विनिर्मुक्तत्वेनोपदेशपरम्पराया वक्तृश्रोत्रधीनतयोपदेशमात्रस्य दोषवत्पुरुषपूर्वकत्वाद्बुद्धिपूर्वकः कोऽप्युपदेशो न स्यादिति वेदोपदेशो यदृच्छयैव सुप्तमत्तादिप्रलापवद्भवेदिति भावः । बालप्रलापवदग्निहोत्राद्युपदेशोऽबुद्धिपूर्वत्वाज्ज्ञातुमशक्यो • 30 नियतक्रियाकारकसम्बन्धादित्याह - अत इदमापन्नमिति । केनार्थेनेति किं प्रयोजनमुद्दिश्येदं वाक्यमर्थबोधजनकतया बालैरुक्तमिति ज्ञातुमशक्यमित्यर्थः । तत्र कारणमाह-व्यवस्थापेतत्वादिति, व्यवस्था लोकशास्त्रव्यवस्था तयाऽपेतत्वात् रहितत्वात् सर्ववेदवादिवचनानां दोषवत्पुरुष सम्बन्धित्वादिति भावः । कथं लोकशास्त्र व्यवस्थेत्यत्राह - व्यवस्थोपेतेति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org