________________
जुहोतिवैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
१५५ दाने वरमासन्ना प्रकृतिरुपात्ता, अर्थः पुनरस्या न विवक्ष्यते गतार्थत्वादिति, एवं चेत्तर्हि वरं घरं सहायकं ददामि बुद्धेः, कर्तृप्रत्ययार्थसमर्था प्रत्यासन्नतराऽविवक्षितार्था कृञ्प्रकृतिः किं नोपात्ता वचनस्योपात्तार्थप्रत्यायनार्थत्वात् । अतोऽग्निहोत्रं कुर्यादित्येवास्तु ।
अथोच्येतेति, परमतमाशङ्कते अथोच्येत विधिलिङ् कर्थः प्रत्ययार्थोऽनुक्तत्वादवशिष्यतेऽवश्यश्च वाच्योऽसौ, तस्मिन् प्रत्ययार्थेऽवशिष्यमाणेऽवश्यवाच्ये प्रकृतिपरव्यवस्थाया इति हेत्वर्थे । पञ्चमी, प्रकृतेः परः प्रत्ययः प्रयोक्तव्य इतीयं व्यवस्था, तस्याः व्यवस्थाया मर्यादायाः स्थितेहेतोः प्रकृत्युपादानमावश्यकम् , तस्मिंश्चावश्यके प्रकृत्युपादाने प्राप्ते कतमा प्रकृतिरुपादातुं योग्येत्येवं विचारयत इदं मे योग्यमिति प्रतिभाति वरमासन्ना प्रकृतिरुपात्ता, अर्थः पुनरस्या न विवक्ष्यते, गतार्थत्वात् तस्मादविवक्षितार्था सा, सत्यपि नान्तरीयकत्वे प्रत्यासन्नप्रकृत्युपादाने विलक्षणामन्यां परित्यज्याविलक्षणा जुहोतिप्रकृतिरेवोपात्तेत्यवसेयम् । प्रयोगोऽग्निहोत्रं जुहुयादिति चोच्यते । एवं तर्हि वरं वरमि-10 त्यादि, चेन्मन्यसे वरमासन्नप्रकृत्युपादानम् , नान्तरीयकत्वादिति । तत्राहमेव ते वरं वरं सहायक ददामि बुद्धेः, कर्तृप्रत्ययार्थसमर्था प्रत्यासन्नतरा पौनरुक्त्यपरिहारार्थमविवक्षितार्थाऽनुक्तार्था कृञ् प्रकृतिः किं नोपात्ता । किं कारणं ? वचनस्योपात्तार्थप्रत्यायनार्थत्वात् , अर्थ प्रत्याययिष्यामीति हि शब्दः प्रयुज्यते स च कर्तृप्रत्ययान्तया कृप्रकृत्या प्रत्याय्यते स्फुटतरमतोऽग्निहोत्रं कुर्यादित्येवास्तु । इतर आह
16 त्वयैव समर्थितत्वादेवमेवास्तु, स्यादेवं यदि सापि चार्थस्थितिर्निर्दोषा स्यात् सापि चापक्षिप्तवाच्यार्थस्थितिरुक्तवत् ।
(त्वयैवेति,) आचार्य आह-स्यादेवं यदि सापि चार्थस्थितिर्निर्दोषा स्यात् किन्तु सापि चापक्षिप्तवाच्यार्थस्थितिरुक्तवत् , तस्यामप्यवस्थितौ निराकृतो वाच्योऽर्थः जुहोत्यर्थत्यागभेदाभ्यामित्यादिप्रबन्धेनोक्तवत्, यथाश्रुतार्थाभावादिदोषात् पौरुषेयत्वादिप्रसङ्गाच्च ।
20
एव प्रत्ययः प्रयोक्तव्यः, प्रत्ययपरैव च प्रकृतिरिति नियमादित्यर्थः । एवञ्चेत्तीति, अहं तव बुद्धः सहायभूतं श्रेष्ठतममासनप्रकृत्युपादानं वितरामीत्यर्थः । तदेवाह-कर्तृप्रत्ययार्थसमर्थति, कर्तृप्रत्ययो विधिलिङ्प्रत्ययः तदर्थे समर्था जुहोत्यपेक्षया प्रत्यासन्नतरा तदर्थस्यैव वाचकत्वात् तथापि पुनरुक्तिभियाऽविवक्षिततदर्था कृप्रकृतिरेव किमर्थ नोपादीयत इति भावः कृञ्धातोः क्रियावाचिनः कर्तृप्रत्ययार्थे कर्तरि समर्थता विज्ञेया । सेति, उपादीयमाना प्रकृतिरित्यर्थः । सत्यपीति प्रत्यासन्नप्रकृत्युपादानस्य प्रत्ययोपादाननान्तरीयकत्वे सत्यपीत्यर्थः । विलक्षणामन्यामिति बुढ्यारूढहवनार्थविलक्षणार्थी 25 यजिपच्यादिरूपां प्रकृतिमित्यर्थः । अविलक्षणेति, तुल्यार्थत्वादिति भावः । पूर्वपक्षी तथैवास्त्विति स्वीकरोति-त्वयैवेति। कृप्रकृत्युपादानस्य त्वयैव समर्थितत्वादग्निहोत्रं कुर्यादित्येवास्त्विति भावः । उत्तरयति-स्यादेवमिति । अर्थस्थिति:अर्थव्यवस्था, कथैव कृप्रकृतिरित्येवं रूपेति भावः । तत्रार्थे तस्या अवस्थितिः पूर्वमेव निराकृतेत्याह-सापि चेति । जुहोत्यर्थत्यागभेदाभ्यामिति, आसन्नश्रुताग्निहोत्रशब्दात्तच्चोदितकर्त्तव्यताया एवात्र सम्बन्धाजुहोत्यर्थत्यागः कुर्याजुहुयाच्छब्दयोरितरेतरार्थवृत्त्या भेदः श्रुतार्थपरित्यागात् खमतिप्रमाणीकरणेन श्रुतिप्रामाण्यत्यागात् कर्नाद्यर्थप्रतिपत्तिवशेन शब्दार्थ- 30 व्यवस्थानात् पौरुषेयत्वमित्याधुक्तदोषादित्यर्थः। इत्थं पुरुषकर्तृकविचारलक्षणन्यायेन विचार्यमाणमग्निहोत्रं जुहयादित्यादि वाक्यमघटितार्थमेवेत्याह-एवंतावदिति । ननु वर्णपदवाक्याश्रयेण पुरुषविचारोद्भावितन्यायानां प्रवृत्तिने वेदे सम्भवति, नित्यत्वादपौरुषेयत्वाच्च, न हि तत्र पुरुषानुप्रवेशो वर्णपदवाक्यद्वारा सम्भवति, तस्मात् पुरुषगतरागादिदोषसंस्पर्शाभावात्
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org