________________
द्वादशारनयचक्रम्
[विधिषिध्यरे कुतः ? विधीयमानत्वात् , योऽर्थो विधीयते न सोऽनूद्यते, आख्यायमानपण्डितत्ववत् , यथाऽयं पण्डितो देवदत्त इति विधीयमानपाण्डित्यो देवदत्तो नानूद्यते ।।
तथा जुहुयादित्येतदपि नानुवादोऽपूर्वोपदेशत्वादनुवादवैधाच्च तल्लक्षणाभावात् विहितमेव त्वनूद्यते विशेषविधानार्थ यथा पटुर्देवदत्तः पयसैनं भोजयेति । यत्र न विशेषो 5 विधीयते मौलविधिरेव सः, एवं तर्हि विशेषविधानादनुवादोऽस्तु तद्वदिति चेत्तन्न, न चात्र
कश्चित् जुहोतेः पुनर्वचनेन विशेषो जन्यते ततश्च प्राक्तनमेव सञ्जातम् । एवं यां तां गतिं गत्वा सर्वथाऽग्निहोत्रं जुहुयादित्यस्मिन् वाक्येऽग्निहोत्रकर्मण्येवान्तर्भावितहवने जुहुयाच्छब्दप्रकृत्यर्थे किमतिरिच्यते ? पौनरुत्यदोषव्यपेतो विधिलिङ् कर्त्तर्यास्ते, अग्निहोत्रं कुर्यात् , अग्नि
होत्रं जुहुयादित्येतयोर्वाक्यार्थविकल्पयोरक्तदोषत्वात् । 10 (तथेति) किं तल्लक्षणमिति चेत् ? विहितमेव त्वनूयते विशेषविधानाथं यथा पटुदेवदत्तः
पयसनं भोजयेति । 'तल्लक्षणाभावात्' किं तल्लक्षणाभावात् ? नानुवादः। यत्र न विशेषो विधीयते मौलविधिरेव सः। एवं तर्हि विशेषविधानादनुवादोऽस्तु तद्वदिति चेत्तन्न भवति, यस्मात् न चात्र कश्चिज्जुहोतेः पुनर्वचनेन विशेषो जन्यते-जुहुयादित्यनेन शब्देनाग्निहोत्रशब्दाभिहितादर्थान्न कश्चिदन्यो विशिष्टोऽर्थोऽभिधीयते यतोऽनुवादः स्यात् , ततश्च प्राक्तनमेव सञ्जातम् , यावदेवाग्निहोत्रं कुर्यादिति 15 वाक्यविकल्पेऽभिहितं तावदेवाग्निहोत्रं जुहुयादित्यत्रापि वाक्ये ततोऽधिकं न किश्चिदस्ति, एवं यां तां गतिं गत्वा-कल्पयित्वाऽपि सर्वथा-सर्वप्रकारेणाग्निहोत्रं जुहुयादित्यस्मिन् वाक्येऽग्निहोत्रकर्मण्येवान्तर्भावितहवने जुहुयाच्छब्दप्रकृत्यर्थे किमतिरिच्यते ? पौनरुत्यदोषव्यपेतो विधिलिङ् कर्त्तर्यास्तेविधौ विहितस्य लिङ्प्रत्ययस्य कर्त्तकारकस्य तन्मात्रोऽर्थ आस्ते, न दूषितः, अन्यत्सर्वं पुनरुक्त्यादिदोष
दुष्टमेवेत्यर्थः । अग्निहोत्रं कुर्यादग्निहोत्रं जुहुयादित्येतयोर्वाक्यार्थविकल्पयोरक्तदोषत्वादतो नानुवादः, 20 उक्तदोषसम्बन्धादित्यर्थः, । कथमिति चेत् ? उत्तरविशेषासम्बन्धनाद्विधीयमानपण्डितत्ववदित्येतदनन्तरोक्तार्थसमाहारार्थ साधनं गतार्थम् , तस्मात् कर्बर्थमात्रमवशिष्यते, शेषं पुनरुक्तम् ।
अथोच्येत विधिलिड्प्रत्ययार्थेऽवश्यवाच्ये प्रकृतिपरव्यवस्थाया आवश्यके प्रकृत्युपायादिति वाक्यस्य हवनविधायकत्वेनापूर्वविधित्वादनुवादवैधयं तल्लक्षणाभावादित्याह-तथेति । ननु यथा पटुर्देवदत्तः पयसैनं
भोजयेति, पयोभोजनविधानार्थ देवदत्तोऽनूद्यते तथैव विशेषविधानाय जुहुयादित्यनुवादोऽस्त्वित्याशङ्कते-एवं तहीति । 25 जुहुयादित्येव हि पुनरुच्यते न चात्र हवनकर्त्तव्यत्वापेक्षया किञ्चिदधिकं विधीयते सा च हवनकर्तव्यता अग्निहोत्रशब्देनैव विहितेत्यनुवादासंभवात् पौनरुक्त्यमेवेत्याह-न चात्रेति । जुहुयादित्यन प्रकृतेर्जुहोतेः पौनरुक्त्यमेवोपसंहरति-एवं यां तामिति । प्रत्ययांशभाग एव तु केवलं न दूषित इत्याह-पौनरुक्त्यदोषव्यपेत इति । किंतल्लक्षणाभावादिति, तल्लक्षणाभावात् किं स्यादित्यर्थः । अनुवादो न स्यादित्युत्तरयति-नानुवाद इति । यावदेवेति, अग्निहोत्रं कुर्यादिति
वाक्येन यावन्मानं वस्त्वभिहितं तावन्मात्रमेवाग्निहोत्रं जुहयादिति वाक्येनाप्यभिहितमित्यर्थः । कथमिति चेदिति, अनु30 वादाभावः कथमिति चेदित्यर्थः । विशेषविधानायैवानुवादस्य कर्त्तव्यतया हवनातिरिक्तविशेषविधानाभावान्नानुवादः सम्भवति, यथाऽयं पण्डितो देवदत्त इति विदीयमानपाण्डित्यो देवदत्तोऽपरविशेषेणासम्बन्धनान्नानूद्यत इत्याह-उत्तरविशेषासम्बन्धनादिति । अथ विधिलिङ्प्रत्ययार्थोऽवशिष्यमाणोऽवश्यं वाच्यः तदर्थप्रत्ययश्च न प्रकृतिप्रयोगमन्तरेण सम्भवति न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्यय इति नियमात्, ततश्च प्रकृतिप्रयोगस्यावश्यकत्वे बुद्धावासन्ना जुहोतिप्रकृतिरेवोपादातुं योग्येत्यविवक्षितार्थापि जुहोतिप्रकृतिरुपादीयत इत्याशङ्कते-अथोच्यतेति । प्रकृतिपरव्यवस्थाया इति, प्रकृतिपर
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org