________________
जुहोतेरननुवादता] न्यायागमानुसारिणीव्याख्यासमेतम्
१५३ दित्यत आह यदग्निहोत्रं हवनमेतत् पुनरुक्तं तर्येवमनयोरग्निहोत्रहवनयोरविशेषात् , एतञ्च-अर्थपुनरक्तश्च नानुवादः उन्मत्तवाक्यवत् ।
अनुवादलक्षणाभावश्चास्य दर्शयति
विधिविहितस्य ह्यनुवचनमनुवाद इति तदत्र न घटते अग्निहोत्रहवनविधेयत्वादनुवादायोग्यता, अथ विधानं वाऽनुवादो वा यथाकथञ्चित् स्यात् ततः पुनरुक्तदोषाभाव एव स्यात् , इष्यते च पौनरुत्यं शब्दतोऽर्थतश्च, उक्तार्थशब्दार्थकथनमविशेषेण पुनरुक्तमन्यत्रानुवादादरादिभ्य इति पौनरुत्यभावादिदं जुहुयादिति पदमनुवादाक्षमं विधीयमानत्वादाख्यायमानपण्डितत्ववत् ।
विधिविहितस्य ह्यनुवचनमनुवाद इति, हिशब्दो यस्मादर्थे, यस्माद्विधिवाक्यविहि- . तस्यार्थस्य पश्चादर्थविशेषप्रापणार्थानुवादोऽनुवादः, तदन लक्षणं न घटते, अग्निहोत्रहवनविधेयत्वात् , 10 अग्निहोत्रस्य हवनस्य चैकीभूतयोर्विधेयत्वात् , तन्निगमयति-अनुवादायोग्यतेति । अथ विधानं वानुवादो वा यथाकथञ्चित्स्यात् , स्यान्मतं वक्तुर्विवक्षितपूर्विका शब्दप्रतिपत्तिरित्यस्य हवनस्य विधानं विवक्ष्यतेऽनुवादो वा विवक्ष्यत इति, एतदपि यथाकथञ्चित् स्याद्विहितार्थाभावात् , विवक्षेच्छयोरनान्तरत्वादिच्छामात्रतश्च निरुपपत्तिकस्यार्थस्यासिद्धेर्न स्यादित्यभिप्रायः, यद्यपि यथाकथञ्चित् स्यात्ततः पुनरुक्तदोषाभाव एव स्यादिष्यते च पौनरुक्त्यं शब्दतोऽर्थतश्च, उक्तार्थशब्दार्थकथनमविशेषेण पुनरु- 15 क्तमन्यत्रानुवादादरादिभ्य इति पौनरुत्त्यभावः, उक्तं हीति पुनरुक्तापवादमर्थविशेषापेक्षं दर्शयति, अनुवादात्-पण्डितमानयेत्युक्ते पण्डितो देवदत्त इत्यनुवादो न पुनरुक्तम् । एवमादरे स्वामिन् स्वामिनिति । वीप्सायां-ग्रामो ग्रामो रमणीयः। भृशार्थे-छूतं द्यूतम् , मृदु मृदु, शनैः शनैरिति । विनियोगे घटं कुरु घटं कुर्विति। हेतौ-कृतकत्वादनित्यो घटस्तस्मात् कृतकत्वादिति । असूयायाम्-विपर्यस्याऽऽस्यं .. हसति हसतीति, ईषदीषदिति, स्तोकं स्तोकमिति । संभ्रमे-खागतं स्वागतमिति । विस्मये-विद्याधरो 20 विद्याधर इति । गणने-एकमेकं द्वे द्वे इति । स्मरणे-आ! विदितो विदितः पाटलिपुत्रे दृष्टोऽसीति । एवमाद्यर्थविशेषाभावे पुनरुक्तदोषावश्यम्भावान्न चेदनुवादत्वमस्य पौनरुत्यमेव स्यात् , पौनरुक्यभावे नानुवादत्वं तस्मादिदं त्वनुवादाक्षमम्-अयोग्यमित्यर्थः । कतमत् ? जुहुयादित्येतत्पदम् ,
अतो नानुवादः यथोन्मत्तवाक्यं नानुवादरूपमित्याह-एतञ्चेति । अनुवादत्वासंभवमेवाह-विधिविहितस्येति विध्यनुवचनं विहितानुवचनश्चानुवादः, तत्र प्रथमः शब्दानुवादो द्वितीयोऽर्थानवादः, पुनरुक्तमपि शब्दार्थभेदेन द्विविधम, विहितं किमर्थ-25 मनूद्यत इति चेदधिकारार्थम् , विहितमधिकृत्य स्तुतिर्वा बोध्यते निन्दा वा विधिशेषो वाऽभिधीयते । एतादृशानुवादोऽत्र न घटते इत्याह-तदत्रेति, अग्निहोत्रस्य हवनस्य चाभिन्नार्थतयैकत्वेन विधेयत्वान्नानुवादता संभवतीति भावः । सर्वत्र विवक्षया विधेयत्वानुवादत्वयोः कल्पने पुनरुक्तस्थलेऽपि विवक्षाविशेषेण विधेयत्वस्यानुवादत्वस्य वा कल्पयितुं शक्यत्वेन पुनरुक्तत्वाभाव एव सादित्याह-स्यान्मतमिति । यथाकथञ्चित्स्यादिति, कारणमन्तरेण यादृच्छिकं भवेत् , तथाचान्तरेणोपपत्तिं कस्यापि खीकारो नोचित इति भावः । शब्दतोऽर्थतश्चेति, घटो घट इति शब्दतः पौनरुक्त्यम् , घटः कलश इत्यर्थतः पौनरुक्त्यम् । 30 उक्तानुवादादरादिविशेषाभावे पुनर्वचने पौनरुक्त्यदोषस्य दुर्वारतव, अग्निहोत्रं जुहयादित्यस्य यदि नानुवादत्वं तर्हि पौनरुक्त्यमेव स्यादन्य विशेषाभावात् पुनरुक्तत्वादेव च नानुवादत्वमपि तस्मान्नानुवादयोग्यताऽस्येत्याशयेनाह-एवमाद्यर्थति । जुहु
द्वा० न० २०
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org