________________
5
१५२
द्वादशारनयचक्रम्
[ विधिविध्यरे
च - प्रतिज्ञात्यागप्रतिज्ञान्तराश्रयणदोषः, इतरत्राप्यर्थव्याख्याने - हवनं कुर्यादित्येतस्मिन् भवति, कस्मात् ? स्वप्रत्युपेक्षानुमानेन च तत्त्यागात् कर्त्राद्यर्थनियतप्रतिपत्तिवशेन शब्दार्थस्थापनात्, एवमेव स प्रकृतिश्रत्यय एवमग्निहोत्रशब्दो वा बोध्यत इति शब्दप्रामाण्यत्यागेन स्वमतिप्रामाण्यावलम्बनात् ।
आह-न शब्दार्थं त्यजाम्युक्तदोषभयात्, किं तर्हि ?
----
एवं तर्हि यथाश्रुत्यग्निहोत्रवद्धवनमपि ग्रहीष्यते, अत्रोच्यते नन्वर्थद्वयविधानमशक्यवाक्येनाग्निसम्प्रदानकस्य कर्मभूतस्य हवनस्य तद्विशिष्टस्य च कर्तृकत्वस्य ।
( एव तहींति) यथा वा श्रुतिर्यथाश्रुति यथाऽग्निहोत्रशब्दश्रवणात्तदर्थों गृह्यते तथा हवनमपि जुहुयाच्छन्दश्रवणाग्रहीष्यते ततो न दोषोऽस्तीति, तदेकत्र हवनमभिसम्प्रदानविशिष्टकर्मकारकतयोच्यतेऽन्यत्र स्वविशिष्ट कर्त्तृकतयेति । अत्रोच्यते नन्वर्थद्वयविधानमशक्यमेकेन वाक्येनाग्निसम्प्रदान10 कस्य कर्मभूतस्य हवनस्य तद्विशिष्टस्य च कर्त्तृकत्वस्य, यथा ब्राह्मणसम्प्रदानकहविर्दानवाक्येन शुगवानयनमपि ।
इतर आह-
नैव हवनं विधीयते किन्त्वग्निहोत्रशब्देन विहितं हवनमनूद्यते विध्यनुवादयोर्भिन्नलक्षणत्वात् प्राप्तमनूद्यते वाक्यान्तरेण, अप्राप्तञ्च विधीयत इत्यत्रोच्यते, नानुवादो हवनस्य 16 युज्यते न हि प्राप्तिरस्ति हवनस्याविहितत्वात् । अस्ति प्राप्तिर्हवनस्य, अग्निहोत्रस्य हवनत्वात्, यदग्निहोत्रं हवनमेतदिति, पुनरुक्तं तवम्, एतच्च नानुवाद उन्मत्तवाक्यवत् ।
नैव हवनं विधीयत इत्यादि, जुहुयाच्छब्देन नैव हवनं विधीयते, किं तर्हि ? अग्निहोत्रशब्देन विहितं हवनमनूद्यते, विध्यनुवादयोर्भिन्नलक्षणत्वात्, किं तयोर्लक्षणमिति चेदुच्यते प्राप्तमनूद्यते वाक्यान्तरेण, यथा पण्डितस्तिष्ठतीति शास्त्रज्ञः पण्डित इति वाक्यान्तरविहितपाण्डित्यस्य स्थानानुबा20 दात्, अप्राप्तञ्च विधीयते, - यद्वाक्यान्तराप्राप्तिमदविज्ञातं प्रमाणान्तरेण तद्विधीयते, यथा स्वर्गकामो जुहुयादिति, अत्रोच्यते यद्येतद्विध्यनुवादयोर्लक्षणं नानुवादो हवनस्य युज्यते, यस्मान्न च प्राप्तिरस्ति हवनस्याविहितत्वात् । इतर आह-अस्ति प्राप्तिर्हषनस्य, अग्निहोत्रस्य हवनत्वात् तस्य तु विहितत्वा
यत्वप्रतिज्ञान्तरगमनात् । अन्यत्राप्येवमेव दोषो बोध्य इत्याह-एष चेति । यथा वेति, श्रुतिमनतिक्रम्येत्यर्थः । तदेकत्रेति, अमये होत्रमग्निहोत्रं तदग्निहोत्रमभिसम्प्रदानकं कर्मभूतं हवनमित्यर्थः । अन्यत्र - जुहुयादित्यत्र हवनविशिष्ट कर्तृकरव26 मर्थः, होत्रमित्यत्र त्रल्प्रत्यय कर्तृकत्वार्थकतयाऽर्थद्वय विधानमिति बोध्यम्, तच्च न तस्य संभवति वाक्यस्यैकत्वात् । ब्राह्मणेति ब्राह्मणाय हविर्दद्यादिति वाक्येन । जुहुयादित्यत्र हवनं न विधीयते किन्त्वनूद्यते, अग्निहोत्रशब्देन हवनस्य विहितत्वादिति खयमा शङ्कते - नैव हवनमिति, वाक्यान्तरेण हवनस्याप्राप्तेर्नानुवादः सङ्गच्छत इत्याह- नानुवाद इति । ननूक्तमेव अग्निहोत्रशब्देन हवनं प्राप्तमिति यद्यग्निहोत्रं तदेव हवनमितीत्याशङ्कते - अस्तीति । समाधत्ते - पुनरुक्तमिति, अग्निहोत्र हवनयोरभिन्नार्थतयाऽर्थपौनरुक्त्यं स्यादित्यर्थः । अर्थादापन्नस्य योऽभिधायकः शब्दान्तरेण स्वशब्देन वा तत्पुनरुक्तम्, अनुवादे त्वपुन30 रुक्तं शब्दाभ्यासादर्थ विशेषोपपत्तेः, यथा हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमित्यादौ । अनुवादलक्षणसमन्वयं दृष्टान्ते करोति - यथेति पण्डितस्तिष्ठतीत्यनुवादवाक्यम् । पाण्डित्यस्य शास्त्रज्ञः पण्डित इति वाक्यान्तरेणावगतेरिति । यत्तु वाक्याश्तरेण न प्राप्तं प्रमाणान्तरेण न विज्ञातं तदेव विधीयत इत्याह- यद्वाक्यान्तरेति । पौनरुक्यमिदं न शब्दतः किन्त्वर्थत एव
।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org