________________
१५१
श्रुतार्थत्यागः] न्यायागमानुसारिणीव्याख्यासमेतम् तत आह-धातुप्रातिपदिकभेदोऽपि न, पदभेद एव सः, कुतः पदभेद इति चेत् ? पदान्तरविषयस्वात् , पदान्तरस्य विषयोऽस्येति पदान्तरविषयं तत्पदमाख्यातं नाम वा, तद्भावात्-पदान्तरविषयत्वात् कुर्याजुहुयादिति । अथवा वाक्यार्थविचारः प्रधानं मीमांसकस्य, यदुक्तं प्राक् 'अनुवादविधिविषयत्वे वाक्यभेदापत्ते'रिति, स तु न केवलो वाक्यभेदः पदभेद एव वा, किन्तर्हि ? धातुप्रातिपदिकभेदोऽपीत्यभिसम्बध्यते, न त्वनुवदनात् , तत्र को हेतुरिति चेत् ? अज्ञातस्याग्निहोत्रस्य क्रिया- 5 विशेषणत्वेनानुवादात् , अज्ञाताओं विधिः, ज्ञातार्थोऽनुवादः। अग्निहोत्रमज्ञातत्वाद्विधीयते तत्कुर्याजुहुयाद्धवनं कुर्यादिति जुहोतिक्रियया विशेष्य प्रसिद्धस्य विहितस्यैवानुवदनादिति प्रागुदितमर्थमुपपत्तित्वेन दर्शयति ।
ततश्च किम् ?
एवञ्च श्रुतेर्याऽसौ प्रतिपत्तिस्तस्या अभावोऽन्यथाऽर्थाधिगतेः, स्वप्रत्युपेक्षानुमानेन च 10 तत्त्यागात् कर्ताद्यर्थप्रतिपत्तिवशेन शब्दार्थावस्थापनात्तु पुरुषस्य ज्ञानमेव प्रमाणीकृतमतस्ते वादावसानं निग्रहस्थानम् , एष चेतरत्राप्यर्थव्याख्याने भवति ।
एवश्चेत्यादि, यावत्तस्या अभावः, एवञ्चेत्यनन्तरनिर्दिष्टक्रियानामस्ववृत्तित्यागोपादानाभ्यामेव श्रुतेर्याऽसौ प्रतिपत्तिः-जुहुयादित्यस्याः पदश्रुतेर्हवनक्रियाविधानमर्यो जुहुयाद्धवनं कुर्यादिति, तस्या अभावः,-सा न भवति, अन्यथाऽर्थाधिगतेर्यच्छब्द आह तन्न प्रमाणमिति च हीयते नामाख्यातयो- 15 रर्थभेदत्यागोपादानदोषेभ्यश्च शब्दाव्यवस्थानात् , तदव्यवस्थानात् पुरुषबुद्धिवशेन शब्दार्थावस्थानम् , कुतः ? स्वप्रत्युपेक्षानुमानेन च तत्त्यागात्-स्वयं प्रत्युपेक्षितोऽर्थस्त्वया, अयमस्य शब्दः, अस्यार्थ एवं भवति न वेति, दोषवत्त्वादयं त्याज्योऽयं गुणवत्त्वादाश्रयणीयः इति विचार्य स्वमतिप्रमाणीकरणेन श्रुतिप्रामाण्यत्यागः कृतः, ततस्तत्त्यागात् कर्ताद्यर्थप्रतिपत्तिवशेन शब्दार्थावस्थापनातु पुरुषस्य ज्ञानमेव प्रमाणीकृतम् , तस्यैव विध्यर्थवदवस्थितस्यानुवदनात् , अतश्च ते वादावसानं निग्रहस्थानम् , 20 पुरुषज्ञानप्रामाण्याश्रयेण क्रियोपदेशवाक्यप्रमाणीकरणात् प्रतिज्ञात्यागः प्रतिज्ञान्तरगमनलक्षणः, एष
वकलापं क्रियाखरूप खार्थमुत्सृज्य होत्रशब्दार्थ नामार्थे सत्त्वरूपे वर्तते, न केवलं तत्रैवास्ते तमपि नामार्थं विहाय पुनः क्रियार्थे वर्त्तते, एवं होत्ररूपनामपदमपि। यदि धातुप्रातिपदिकमेदो न स्यात्तर्हि किं स्यादित्यत्राह-पदभेद एव स इति । तत्र हेतुमाह-पदान्तरविषयत्वादिति, नामादिपदान्तरस्य यो विषयो वाच्यः सत्त्वादिरूपोऽर्थः स एव क्रियादिपदस्यापि विषय इति कृत्वेत्यर्थः। एवञ्चेति, आख्यातप्रातिपदिकयोः स्वार्थपरित्यागेन परस्परार्थग्रहणेन च जुहुयाच्छन्दो यमर्थमाह हवनं कुर्यादिति 25 तत्रार्थे स शब्दो न प्रमाणमिति तेन तदर्थप्रतिपत्त्यभावः प्राप्तो भिन्नार्थखीकारात् , तत्रार्थेऽपि च न तच्छब्दस्य नैयत्यं, नामार्थधात्वर्थयोविभिन्नत्वात् , क्रियाप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति वचनात् , तदर्थत्यागेन पुनरपि स्वार्थग्रहणाच्च न शब्दः क्वाप्यर्थे व्यवस्थितः, तदव्यवस्थानात् पुरुषबुद्ध्यनुसारेण तस्य व्यवस्था कर्तव्या ततश्च पौरुषेयत्वापत्तिरिति भावः। तदेवाहखप्रत्युपेक्षेति, विचारपूर्वकमनुमानेन श्रुतार्थप्रामाण्यत्यागादित्यर्थः । अयमस्येति, एतदर्थस्य वाचकोऽयं शब्दः, एतच्छन्दस्यायमर्थः स एवं भवति न वेति सन्दियैतदर्थग्रहणेऽयं दोषः, अत एव त्याज्योऽयमर्थः, अयमर्थस्तु गुणवत्त्वा- 30 दाश्रयणीय इति निजमतिप्रमाणीकरणेन श्रुतेः प्रामाण्यं त्यज्यते । लिङ्गादीनां कत्रोद्यत्यर्थवर्णनेन शब्दार्थव्यवस्थानातू पुरुषज्ञानमेव प्रमाणीकृतमित्यपौरुषेयत्वपक्षपरित्यागात् प्रतिज्ञाहानिलक्षणनिग्रहस्थानस्यापत्त्या वादावसानं जातमिति भावः। पुरुषज्ञानेति, खज्ञानप्रामाण्येनामिहोत्रं जुहुयात्स्वर्गकाम इत्यादिवाक्यानां प्रामाण्याङ्गीकारादपौरुषेयत्वप्रतिज्ञात्यागः पौरुषे.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org