________________
१५० द्वादशारनयचक्रम्
[विधिविध्यरे त्यक्तजुहोतिकर्थग्रहे तु निःक्रियाकर्तृत्वात् कुर्यादर्थाभावः ।
(त्यक्तेति) अथाऽऽचक्षीथा एतद्दोषभयात्त्यक्त्वा जुहोत्यर्थं निःक्रिय कर्बर्थमात्रमेव गृह्यते, कुर्यादिति कर्त्तव्यमात्रचोदनार्थः । एवञ्च सति त्यक्त्वा जुहोतिं कर्बर्थग्रहे तु, तुशब्दो विशेषणे, अत्य
तार्थाभावेनैव विशेषयति, करोति कुर्यादित्येवमादिशब्दानां कर्बर्थप्रकृतीनां घटादिकर्मापेक्षामन्तरेण 5 किं करोति किं कुर्यादित्यनिर्णीतार्थत्वात् , कोऽर्थः स्यात् कृअर्थाभावे कर्बर्थस्य ? निःसाध्यकर्तकत्वं स्यादतः कुर्याच्छब्दो निरर्थकः, त्यक्तस्वप्रकृत्यर्थत्वात्तादृग्विधस्य कृत्रादिप्रकृतिरहितस्य यादादिप्रत्ययान्तस्य प्रयोगस्यादर्शनात् ।
अभ्युपेत्यापि प्रयोगम्
जुहोतिप्रयोगासत्त्वञ्च, त्याज्यत्वात् , व्याधिवत् । 10 (जुहोतीति) जुहोतिप्रयोगासत्त्वं ब्रूमः, असत्त्वमप्रशस्तत्वम् । कुतः ? त्याज्यत्वात् , त्याज्यत्वं त्वया त्यक्तत्वात् , अस्मन्मतेनार्थाभावादर्थाभावश्चोक्तविधिना सिद्ध एव । तस्मात् त्याज्यत्वादसत्त्वं जुहुयादित्यस्य प्रयोगस्य । दृष्टान्तो व्याधिवत् , यथा व्याधिस्त्याज्यत्वादप्रशस्तस्तथा जुहोतिशब्दोऽप्यप्रशस्त इति ।
किञ्चान्यत्15 क्रियानामस्ववृत्तित्यागोपादानाभ्यां धातुप्रातिपदिकभेदोऽपि न, पदभेद एव सः पदान्तरविषयत्वात् ।
क्रियानामस्ववृत्तीत्यादि, आख्यातस्य क्रियार्थे च रूढस्य स्वार्थ विप्रकीर्णावयवकलाप त्यक्त्वा पिण्डितहोत्रस्य स्वार्थोपादानम् , न च तमप्युपादाय तत्रैवावतिष्ठते किं तर्हि ? पुनरपि सत्त्वार्थ त्यक्त्वा क्रियार्थोपादानम् , एवं नामशब्दस्यापि सत्त्ववृत्तिं स्वां त्यक्त्वा क्रियार्थोपादानं क्रिया 20 त्यक्त्वा सत्त्वोपादानमिति । ताभ्यामेव च त्यागोपादानाभ्यां कुर्याज्जुहुयादित्येतयोरपि शब्दयोः सामान्यविशेषार्थयोरितरेतरार्थवृत्त्या भेदः स्वप्रकृतिबलेन पिण्डनविप्रकरणात् तद्भेदवत्तद्वलेनास्यापि, तथा तद्वाचिन्योः प्रकृत्योरपि भेदः, ताभ्यां त्यागोपादानाभ्याम् , कयोः प्रकृत्योरिति चेद्धातुप्रातिपदिकयोः,
मतिकामति तदाऽपशब्दः सः, यथा सास्नादिमदर्थविवक्षयोपात्ता गावी गोणी गोपोतलिकादिशब्दास्तदर्थाभिधायित्वाभावादप
शब्दाः, तदर्थाभिधायको हि गोशब्द एव, गवि च साधात् प्रयुक्तो गव्यादिशब्दः साधुर्भवति, जातिप्रयुक्तस्त्वसाधुभवति । 25 शब्द एवेति, साधुरेवेति भावः । स एव शब्दः क्वचिदर्थे केनचिन्निमित्तेन प्रयुक्तः साधुरन्यथाऽसाधुरित्यत्र व्याकरणमहा
भाष्यीयं प्रमाणमादर्शयति-यस्त्विति, यः कुशलोऽधीतव्याकरणो व्यवहारकाले लक्षणस्मरणपूर्वकं शब्दान् शक्यलक्ष्यद्योत्यान्यतमेऽर्थविशेष प्रयुक्ते सोऽनन्तं जयमवाप्नोति परत्र अदृष्टद्वाराऽभ्युदयं लभत इति भावः । अपशब्दप्रयोगेण च वाग्योगवित् वाचो योगः प्रकृतिप्रत्ययविभागेनार्थविशेषपरत्वं तद्वत्तीति वाग्योगवित् , दुष्यति-अनर्थसाधनाधर्मभाग्भवतीत्यर्थः। अथ जुहु
यादित्यत्र हुधातुं परित्यज्य कर्बर्थप्रत्ययमात्रविवक्षणं न सम्भवतीत्याह-त्यक्तजहोतीति, प्रकृत्यर्थत्यागे क्रियारहितं कर्तव्य30 तामात्रमर्थः स्यादित्याह-अथेति । कर्मरहितः प्रत्ययार्थः स्यात् प्रकृतिमन्तरेण यादिति प्रत्ययमात्रस्य प्रयोगानुपपत्तिश्चेत्याह
करोतिकुर्यादित्येवमादीति । कथमसत्त्वं श्रूयमाणत्वादित्यत्राह-असत्त्वमिति । उभयमतेन त्याज्यत्वमाह-त्याज्यत्वमिति । दोषान्तरमाह-क्रियानामेति, क्रियापदेनाऽऽख्यातस्य नामपदेन च प्रातिपदिकस्य ग्रहणम् , तयोः खखार्थपरित्यागेन परस्परार्थोपादानाच भेदोन स्यादित्यर्थः। तमेव भेदाभावं संघटयति-आख्यातस्येति। आख्यातपदं जुहोतिपदं विप्रकीर्णावय
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org