________________
समासानुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम्
वैधय॑ण
कुम्भकारवत् काण्डलाववत् समासत्वात् कुम्भकारवदेव विशिष्टार्थत्वमिति चेन्न, अग्निसमासत्वात् , न ह्यस्त्यग्निशब्दस्य होत्रशब्देन तिड्प्रत्ययार्थाकांक्षेण समासः, तिडक न्तेन अस्तिक्षीरा अश्रीतपिबतादिषु समासदर्शनाददोष इति चेन्न परिगणितेभ्योऽन्यत्राभावात् तिङन्तप्रतिरूपकनिपातेषूपात्तत्वाच्च तेषाम् ।
(कुम्भकारवदिति) (समास इति ) 'सुप्सुपा' (पा. २११४) समर्थन सह समस्यत इति वचनात् । (तेषामिति ) 'अस्ति नास्ति दिष्टं मतिः' (पा० ४।४।६०) इति प्रातिपदिकवत् । अन्यथा देवदत्तः पचतीत्यत्रापि समासः स्यात्, न तु भवति ।
सामर्थ्याभावाञ्च समासानुपपत्तिः, 'समर्थः पदविधिः (पा० २१११) इत्यधिकारात् । असामर्थ्यश्च सापेक्षत्वात् । ननु प्रधानत्वाद्भवति समासः, न, न चानाग्निशब्दस्य होत्रश-10 ब्दस्य वा प्राधान्यमस्ति, कुर्यात् जुहुयादिति तिङन्तस्य क्रियावाचिनः प्राधान्यात् । अपशब्दश्चायमस्मिन्नर्थे ।
(सामर्थ्यति) सामर्थ्याभावाच समासानुपपत्तिः, समर्थः पदविधिरित्यधिकारात् , असामय॑श्च सापेक्षत्वात् , यथा शङ्कलाखण्डप्रातिपदिकस्य शङ्कुलया खण्ड इति समासानुपपत्तिः, समर्थः पदविधिरित्यधिकारात् , देवदत्तस्य गुरुकुलमित्यनेन तुल्यं तत् । ननु प्रधानत्वाद्भवति समासः, उक्तं 15 हि भवति च प्रधानस्य सापेक्षस्यापि समासः' (महाभाष्ये २।१।१ समर्थसूत्रे) इति, न चात्रानिशब्दस्य होत्रशब्दस्य वा प्राधान्यमस्ति, कुर्याजुहुयादिति तिङन्तस्य क्रियावाचिनः प्राधान्यात् साधनानां साध्यसिद्ध्यर्थप्रवृत्तित्वात् , अपशब्दो हि नामार्थविशेषविवक्षायां तदभिधायित्वरूपातिकमात् यथा गोणीशब्दो हि सानादिमत्यर्थे, सत्त्वाभिधायि गोशब्द एव, तथा गावीशब्दोऽपि गव्यवसेयः सक्तिर्गावीत्यस्मिन्नर्थे, शब्द एव । तथाचोक्तम् 'यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद्वयवहार-20 काले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविदुष्यति चापशब्दैः ॥' (महाभाष्ये १११११) तस्मादपशब्दश्वायमस्मिन्नर्थे, कुर्याच्छब्दार्थोंपादानश्चाभेदकमिति साधूक्तम् ।
भवत्वित्याशङ्कते-कुम्भकारवदिति, । अनिशब्दस्य हुधातुना सुप्सुपेति न समासस्तिप्रत्ययार्थे साकांक्षत्वेनासमर्थत्वात् अस्ति क्षीरा गौरित्सादावस्तिशब्दस्तिङन्तप्रतिरूपकोऽव्ययः, अस्ति क्षीरं यस्याः सा, 'अनेकमन्यपदार्थ'इति बहुव्रीहिः । अनीत पिबतेत्येवं सततं यत्राभिधीयते साऽश्नीतपिबता, 'आख्यातमाख्यातेन क्रियासातत्य' इति मयूरव्यंसकान्तर्गतत्वा-25 तत्पुरुषसमासः । एवमग्निहोत्रपदस्य न समासः, उपसर्गविभक्तिस्वरप्रतिरूपकशब्दाभावात् , परिगणितेष्वनन्तर्भावाच । समर्थः पदविधिरिति, पदसम्बन्धी यो विधिः स समाश्रितो बोध्य इत्यर्थः, समासो विभक्तिविधानश्च पदविधिः । शलाखण्ड इत्यत्र तु yसद्भावात् तृतीया तत्कृतार्थेन गुणवचनेनेति सूत्रेण समासो भवति शंकुलाकृतखण्डगुणको देवदत्त इत्यर्थः । किन्तु तिष्ठ त्वं शङ्खलया, खण्डो धावति मुसलेनेत्यत्र न समासः सामर्थ्याभावात् तिष्ठ त्वं शंकुलया न प्रयोजनम्, मुसलेन कृतः खण्डो धावतीति तदर्थत्वादिति बोध्यम् । असामर्थ्यञ्च सापेक्षत्वादिति, इतरविशेषणत्वेनोपस्थितस्य 30 खविशेषणे आकांक्षाभावादित्यर्थः, न च राजपुरुषो दर्शनीय इत्यत्र वृत्तिर्न प्राप्नोति सापेक्षत्वादिति वाच्यम् सापेक्षस्यापि प्रधानस्य समासात् । अत्र दर्शनीयत्वान्वयः केवले पुरुषे बोध्यः । प्राधान्ये हेतुमाह साधनानामिति, क्रियासिद्ध्यर्थ हि साधनानां प्रवृत्तिरतः क्रियैव प्रधानमिति भावः । अपशब्दो हीति, अर्थविशेषविवक्षयोपात्तं पदं यदा तदर्थाभिधायित्व
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org