________________
१४८
द्वादशारनयचक्रम्
[विधिविध्यरे जुहोत्यर्थस्त्यक्तः कर्तृप्रत्ययान्तकृञ्दर्शने सत्यप्यग्निहोत्रं कुर्यादिति हवनविशेषस्यैव करणस्योपादानात् , घेदित्याशङ्कायाम् एवश्वेन्मन्यसे तदपि न, आसन्नतरश्रुतजुहोत्यर्थत्यागात्, यथाऽऽसन्नश्रुतामिहोत्रसान्निध्यात्तदर्थोपादानं न्याय्यं मन्यसे ततोऽप्यासन्नतरजुहोतिशब्दार्थोपादानं न्याय्यतरं किं न मन्यसे ? स चार्थस्यक्तस्त्वया, तदुपादानेऽपि चाप्रसिद्धतादिदोषास्तवस्थाः, स्वपदार्थ त्यक्त्वा पदान्तरार्थे कथं 5 वर्त्ततेति ।
उक्तमभ्युपेत्य पदान्तरार्थाभिधाने दोष उच्यते
परपदार्थविधानेऽपि च पदान्तरपरिश्रुतहोत्रमात्रवृत्तत्वाजुहुयादर्थमात्रमेवेति कुर्यादर्थोपादानमभेदकम् ।
(परेति) पदान्तरे-अग्निहोत्रपदे परिश्रुतं-परिगतं ज्ञातं, किं तत् ? होत्रमात्रं न तद्वपतिरि10 क्तमर्थान्तरं गम्यते, अतो जुहुयादित्येतस्य शब्दस्य योऽर्थस्तन्मात्र एव वृत्तः कुर्याच्छब्दः । इतिशब्दो
हेत्वर्थे, अस्माद्धेतोर्जुहुयाच्छब्दार्थमात्रत्वाच्च कुर्यादित्यस्यार्थस्योपादानमभेदकम् , नास्ति भेदोऽस्येत्यभेदकमभिन्नार्थम् । कुतो भिन्नार्थं न भवतीति चेत् ? हवनं कुर्यादित्यस्माद्वाक्यार्थात् , तस्मात्त एव दोषाः । स्यान्मतम्
___ मात्रग्रहणासिद्धिः, अग्निपदविशिष्टसमासत्वादित्येतच्चायुक्तम् , तिङ्प्रत्ययार्थैकीभूत1 प्रकृत्यर्थत्वात् , यथा प्रलम्बतेऽध्यागच्छतीति ।
(मात्रेति) मात्रग्रहणासिद्धिरग्निपदविशिष्टसमासत्वात् न हि होममात्रमेव श्रूयते, किं तर्हि ? अमेरमावमये वा होत्रमनिहोत्रं तत्कुर्यादिति भिन्नोऽर्थ इति, एतच्चायुक्तम् , तिप्रत्ययार्थेकीभूतप्रकृत्यर्थत्वात् , होत्रमात्रवृत्तत्वं सिद्धमेवेत्यर्थः । यत्र तिङ्प्रत्ययार्थनकीभूतः प्रकृत्यर्थस्तत्र प्रकृत्यर्थमात्रवृत्तिता दृष्टा, यथा प्रलम्बतेऽध्यागच्छतीति ।
20 इत्यादौ समिधानेन परशुरामपरत्वम् , अभिरूपाय कन्या प्रदेयेत्यादौ सामर्थ्यादभिरूपतरायेत्यर्थः, यश्च निम्बं परशुनेत्यादौ परशुनेत्यस्यौचित्याच्छेदनार्थत्वम् , भात्यत्र परमेश्वर इत्यादौ राजधानीरूपाद्देशात् परमेश्वरपदं राजबोधकम् , चित्रभानुर्भातीत्यादौ रात्रौ वह्निबोधकत्वं दिवा च सूर्यस्य बोधकत्वं चित्रभानुपदस्य मित्रो भाति मित्रं भाति इत्याये लिङ्गव्यक्त्या रविरन्ये सुहृदर्थः । यच्छब्दसन्निधिसंज्ञकमिति, अग्निहोत्रशब्दसन्निधिविशेषक्रियाया व्यवच्छेदको निर्णायकोऽत्राप्य
स्वीति जुहुयादिति पदं सामान्य क्रियाबोधकमपि हवन क्रियाविशेषकरणककर्तव्यतामेव ब्रवीतीति न जुहोत्यर्थस्त्यक्त इति पूर्व28 पक्षाशयः । आसन्नतरेति, अमिहोत्रपदापेक्षयाऽप्यत्यन्तासन्नहुधात्वर्थत्यागोऽस्त्येव, आसन्नभूतेनार्थेनार्थवत्त्वे हुधात्वर्थे
नैवासनतरेण कुतो नार्थवत्त्वम् ? अर्थवत्त्वेऽपि च पूर्वोक्ताप्रसिद्धत्वादिदोषा दुर्वाराः खार्थपरित्यागेन पदार्थान्तरे वृत्त्यसम्भव. श्वेति भावः । परपदार्थेति, परपदार्थोऽग्निहोत्रपदार्थः तद्विधानेऽभ्युपगम्यमानेऽपि कुर्याच्छब्दो जुहुयादित्येतस्यार्थमात्रे
वर्तते पदान्तरपरिश्रुतहोत्रमात्रवृत्तत्वात् तथा च पूर्वोक्ताद्धवनं कुर्यादिति वाक्यार्थादभिन्नार्थ कुर्यात् पदम् , जुहुयादित्यर्थमात्र• वृत्तित्वादिति भावः । नन्वग्निहोत्रखरूपपदान्तरेण न होत्रमात्रस्यैव परिज्ञानम् , अग्निपदवैयापत्तेः, अतस्तत्पदस्याग्निहोत्र30 पदद्वयघटितत्वेनामिहोत्रं कुर्यादिति हवनं कुर्यादिति वाक्यार्थापेक्षया भिन्नार्थमेवेत्याशङ्कते-मात्रग्रहणासिद्धिरिति । होत्रमित्यत्र जलप्रत्ययेन कुर्यादित्यर्थस्योक्तत्वेन प्रकृतिभूतहुधात्वर्थस्य तत्र सम्बन्धादग्निहोत्रपदं होत्रमात्रवृत्ति, यथा लम्बते, आगच्छतीत्याद्यर्थे एव प्रलम्बतेऽध्यागच्छतीतिपदं वर्तते, तथा चाग्निशब्दस्य न कश्चनार्थ इत्याशयेनाह-
तिप्रत्ययाथैकीभूतेति, ननु कुम्भं करोतीति कुम्भकार इत्यादावुपपदसमासस्येव काण्डलावशब्दस्य विग्रहाभाववद्वाऽग्निहोत्रशब्दो
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org