________________
जुहोत्यर्थभागः] न्यायागमानुसारिणीव्याख्यासमेतम्
१४७ मात्रवाचित्वाभ्युपगमाज्जुहोतेश्च क्रियाविशेषत्वात् । सामान्यविशेषयोश्चान्योऽन्यतो भिन्नत्वात् , कुर्याच्छब्दार्थ जुहुयाच्छब्दो ब्रवीतीति वचनात् , होत्रशब्देन दर्शितार्थत्वाजुहोतिरनर्थक इति त्वयैव त्यतत्वात् ततश्च जुहुयाच्छब्दोऽपि होत्रशब्दार्थ होत्रशब्दोऽपि जुहुयाच्छब्दार्थं ब्रवीतीति नामाख्यातयोः प्रत्येकं व्यर्थवृत्तित्वादभेदश्च, होनशब्दः क्रियावाची नामवाची च तथा जुहुयाच्छब्दोऽपीत्येवं शब्दार्थसङ्करः प्रसिद्धिविरोधश्च जायते, यथा पूर्वापरीभूतभावमाख्यातमाचष्टे प्रेजते पचतीत्युपक्रमप्रभृत्य-। पवर्गपर्यवसानभूतम् , सत्त्वं नामेति तद्विरोधापत्तिरिति जुहोत्यर्थत्यागभेदाभ्यां हेतुभ्यां जुहोत्यर्थत्यागवत् सर्वधात्वर्थविशेषत्यागः, यथा जुहोतिः कर्तप्रत्ययान्तस्तत्सर्वप्रकृत्यर्थवानेवं पचतिपठत्यादयः सर्वे धातवो धातुत्वात्तद्वाचिनः, तस्मात् सर्वधात्वर्थविशेषाः त्यक्ताः, विशेषशब्दस्य भेदार्थत्वान्नामाख्यातळ्यर्थवृत्तित्वात् पूर्वोक्तकरीत्यर्थवद्भिन्नार्थता च, ततश्च सर्वधात्वर्थविशेषत्यागात्तत्त्यागापत्तिरपि, तस्य कृअर्थस्य सर्वधात्वर्थसामान्यभूतस्यापि त्याग आपद्यते । किं कारणम् ? विशेषाभावे निराश्रयस्य 10 सामान्यस्याभावात् करोतीत्युक्ते किं करोति ? जुहोति पचति पठतीत्यादिविशेषसंश्रयेण विना करोतेर• र्थाभावात् । अपिशब्दात् सङ्करप्रसिद्धिविरोधपौनरुत्त्यदोषाश्च ।
आसन्नश्रुताग्निहोत्रकर्त्तव्यत्वान्नेति चेन्न, आसन्नतरश्रुतजुहोत्यर्थत्यागात् पदान्तरार्थे कथं वर्तेत?
(आसन्नेति) स्यान्मतं संसर्गभेदभिन्नात्सामर्थ्याच्छब्दपृच्छार्थव्यवच्छेदो विशेषलिङ्गाद्भ- 15 वति यथाऽऽह-'संसर्गो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' (वाक्यपदीये का० २ का० ३१७ ) इति, तत्र यच्छब्दसन्निधिसंज्ञकं सामर्थ्य तद्व्यवच्छेदकारणमिहाप्यस्ति, तद्यथा-आसन्नश्रुताग्निहोत्रशब्दात् तच्चोदितकर्त्तव्यतैवान सम्बध्यते, तस्मान
सामान्यविशेषक्रिययोः परस्परं भेद इति भावः । ततश्चेति, होत्रशब्दः वलन्तेन हुधातुना निष्पन्नः, वल्प्रत्ययश्च कर्तरि 20 विहित इति होत्रशब्देन हवनकर्तृत्वस्य बोधः जुहुयाच्छब्देनापि हवनकर्तृत्वस्य बोध इति जुहुयाच्छब्दः खार्थ होत्रशब्दार्थच । ब्रवीति, होत्रशब्दोऽपि खार्थ जुहुयाच्छब्दार्थञ्च, होनेति नाम्नो जुहुयादित्याख्यातस्य च प्रत्येकं नामार्थक्रियार्थयोवृत्तित्वादमेदेन शब्दार्थसङ्करः पूर्वापरीभूता क्रिया हि आख्यातार्थः, सत्त्वं नामार्थः क्रियाप्रधानमाख्यातं सत्त्वप्रधानानि नामानीत्युक्तः, तथा चास्याः प्रसिद्धेविरोध आपद्यत इति भावः। ननु यथा जुहयादिति पदं खार्थपरित्यागेन कुर्यादित्यर्थे वर्तते तथैव धातुत्वातू पचतिपठतीत्यादयः सर्वे धातवः स्वस्वार्थपरित्यागेन करोत्यर्थवाचका भवेयुरेवञ्च क्रियाविशेषमात्रभावप्रसङ्गेन क्रियासामान्य-25 स्याप्यभावः स्यादित्याशयेनाह-जुहोत्यथेति । विशेषाभाव इति, पचादयो हि क्रियाविशेषवचनाः सामान्यक्रियावाचिना . करोतिना सामानाधिकरण्यात् , किं करोतीति क्रिया प्रश्नजनकजिज्ञासायां तद्विषयेण पचतिपठतीत्याद्युत्तरेण निरासाद्विशेषक्रियावाचकत्वं पचादीनाम् । तथा च विशेषाणां धात्वर्थानां त्यागे निर्विशेषं न सामान्यमिति न्यायेन सामान्यक्रियाया अप्यभाव इति भावः । स्यान्मतमिति, शब्दोऽयं कस्मिन्नर्थे विद्यत इति पृच्छायां, तन्निर्णायकतया विशेषलिङ्गभूताः संसर्गादयो भवन्ति स विशेषोऽत्राप्यस्तीति भावः। संसर्ग इति, एते संयोगादयः शब्दार्थस्यानवच्छेदे सन्देहे तदपाकरणद्वारेण विशेषस्मृ-30 तिहेतवो निर्णयहेतव इत्यर्थः, उपस्थितानां बहूनामन्यतरमात्रार्थतात्पर्यनिर्णयद्वारा तन्मात्रार्थविषयकान्वयबोधजनका इति . भावः । सवत्सा धेनुः अवत्सा धेनुरिति संसर्गविप्रयोगयोरुदाहरणे, रामलक्ष्मणावित्यादी साहचर्येण, रामा नगतिस्तयोरित्यत्र विरोधेन भार्गवे, अञ्जलिना जुहोतीत्यादौ जुहोत्यादिपदार्थवशात् अञ्जलिपदस्य तत्तदाकाराञ्जलिपरत्वम् , सैन्धवमानयेत्यादौ प्रकरणेन, अक्ताः शर्करा उपदधातीत्यादौ तेजो वै घृतमति स्तुतिलिङ्गेनाक्ता इत्यस्य घृतसाधनाजनपरत्वम् , रामो जामदग्य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org