________________
द्वादशारनयचक्रम्
[ विधिविधयरे
अथ पुनरुच्येत नैव हवनं कुर्यादित्युच्यते किं तर्हि ? अग्निहोत्रं कुर्यादित्याश्रीयते जुहुयादित्ययं कुर्यादर्थ एव, अग्निहोत्रशब्देन तु तद्विशेषभूतो जुहोतेरर्थोऽभिहित एव तस्मादग्निहोत्रं कुर्यादित्ययमर्थ इति ।
अथ पुनरित्यादि, अथेत्यधिकारान्तरे, पक्षान्तरमधिकारान्तरम्, अनन्तरोक्तविधिना न 5 निर्वहति वनं कुर्यात् - जुहुयादिति, हवनविधावग्निहोत्रानुवाद इत्यस्मिन्नर्थेऽप्रसिद्धत्वाद्विशेषणविशेव्यताद्यभावाद्वाक्यभेदापत्तेश्च द्रव्यस्य क्रियाया वा विधाने निर्वोदुमशक्ये परेणोच्येत - नैव हवनं कुर्यादितीत्यादिहवन कर्त्तव्यतार्थतात्यागेन परिहारं मन्यते पक्षान्तरसंश्रये चोपपत्तिं निर्दोषञ्च । कतमत् पुनः पक्षान्तरमित्यत आह- किं तर्हि ? अग्निहोत्रं कुर्यादित्येतत्पक्षान्तरमाश्रीयते, उपपत्तिश्चात्राग्निहोत्रशब्दे जुहोतेर्धातोर्दर्शितार्थत्वात् कत्तृप्रत्ययार्थेन कृता दर्शितार्थत्वात्, अयं जुहुयादिति हुधातुर्लिंङ्प्र10 त्ययान्तः, स च लिङ् कर्त्तरि विहितः, 'कर्त्तरि कृत्' ( पा० ३।४।६७) 'लः कर्मणि च ' ( पा० ३।४।६९) इति । कर्त्तृशब्दश्च कृन् प्रकृतिस्तृजन्तः कर्त्तरि - क्रियाया निर्वर्त्तकेऽभिधेये कृतो लकाराश्च भवन्तीति । तथा कर्मणि विहितोऽपि कृल्लकारः कर्म नातिवर्त्तते भावे विहितस्तु क्रियामात्रावात् एव किं करोतीति सर्वक्रियाविशेषेषु पचत्यादिषु विशेषप्रश्नदर्शनात्, जुहुयादित्ययं कुर्यादित्यर्थ एव । यथा भूयते देवदत्तेन सुप्यते देवदत्तेनेत्येवमाद्यकर्मकेष्वपि स्वपिति भवतीति । 15 अग्निहोत्रशब्देन पुनस्तद्विशेषभूतो जुहोतेरर्थोऽभिहित एव, तस्मादग्निहोत्रं कुर्यादित्ययमर्थ इति ।
१४६
अत्रोच्यते
एवमपि कर्त्तृप्रत्ययान्तकृञ्दर्शनेन जुहोत्यर्थत्यागोऽर्थभेदश्च कर्त्तृविशिष्टक्रियासामान्यमात्रवाचित्वाभ्युपगमात्, जुहोतेश्च क्रियाविशेषत्वात्, जुहुयाच्छन्दोऽपि होत्रशब्दार्थ होत्रशब्दोऽपि जुहुयाच्छब्दार्थं ब्रवीतीति नामाख्यातयोः प्रत्येकं द्व्यर्थवृत्तित्वादभेदश्चेत्येवं 20 शब्दार्थसङ्करः प्रसिद्धिविरोधश्च जुहोत्यर्थत्यागवत्सर्वधात्वर्थविशेषत्यागस्ततश्च तत्त्यागापत्तिरपि विशेषाभावे निराश्रयस्य सामान्यस्याभावात् ।
एवमपीति, कर्त्तृप्रत्ययान्तकृञ् दर्शनेनेति परोक्तं प्रत्युच्चारयति एवं- इदानीं कुर्यादग्निहोत्रमित्येतत्पक्षान्तरे, होत्रशब्दस्य हवनार्थता कर्त्तृप्रत्ययान्तकृनर्थता च जुहोतेरित्येतत् त्वयोक्तं मया युक्त्या सहावधारितम्, तथापि जुहोत्यर्थस्य त्यागोऽर्थभेदश्च, जुहोत्यर्थत्यागस्तावत् कर्त्तृविशिष्टक्रिया सामान्य25 अधिकारान्तरश्चात्र पक्षान्तरमेवेलाह- पक्षान्तरमिति । जुहुयादित्यस्य हवनं कुर्यादित्यर्थो न सम्भवति पूर्वोदिताप्रसिद्धार्थ - त्वादिदोषात् अतो हवनलक्षणद्रव्यस्य क्रियाया वा विधानं न क्रियते, अपि तु हवनकर्त्तव्यताविधानार्थत्वपरित्यागेन जुहुयादित्यस्य कुर्यादित्येवार्थ: स्वीक्रियते, हुधात्वर्थस्य चाग्निहोत्र शब्दघटककृत्प्रत्ययान्तहोत्रशब्देन दर्शितत्वादित्याशयेनाह-अनन्तरोक्तविधिनेत्यादि । किं करोतीति, व्यापारसामान्यवाची करोतिः, किं करोतीत्यस्य यत्करोति तत्किमिति व्यापारविशेषविषयप्रश्नोऽर्थः, पचतीति प्रतिवचनं तु तत्प्रश्ननिराकरणाय । जुहुयादिति, अनन्यलभ्यस्य शब्दार्थवाद्धवनस्या30 मिहोत्रशब्देन लाभाज्जुहुयाच्छब्दो कुर्यादर्थे वर्त्तत इति भावः । जुहुयादित्यत्र हुधातुलिंङ्प्रत्ययश्च वर्त्तते लिङ्च कर्त्तरि विहितः कर्त्ता च कृष्प्रकृतिस्तृजन्तस्तथा च लिङः कुर्यादित्यर्थः, हुधात्वर्थस्य प्राप्तत्वाज्जुहुयाच्छब्दः केवलं कुर्यादिति क्रियासामान्यवाचक एवेति तात्पर्यम् । कर्त्तृप्रत्ययान्तकृञ् दर्शनेनेति, लिडा कुर्यादित्यस्य बोधनाज्जुहोत्यर्थत्यागः, जुहुयादित्यस्य कुर्यादिति कर्तृविशिष्टक्रियासामान्यवान्चित्वाभ्युपगमेनार्थभेदश्च विशेषक्रियाया हवनरूपायास्त्यागात्, अत एव च
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org