________________
क्रियाया अप्रसिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम्
यदप्युक्तमनूयाग्निहोत्रं हवनक्रिया विधीयते हवनं वाऽनूद्यामिहोत्रं विधीयत इत्येतदयुक्तम् पाक्यभेदापत्तेरित्यत आह
अनुवादविधिविषयत्वे वाक्यभेदापत्तेः।
अनुवादविधिविषयत्वे वाक्यभेदापत्तेरिति, तत्रैकं ह्यनुवादकमेकं विधायकम् , तयोरन्यतरद्यथेष्टं तेऽस्तु, ततो भिन्नार्थत्वाद्वाक्यभेदोऽनयोरापद्यते, यथा कुशलतरोऽनयोर्देवदत्तो ज्ञेय इति । प्रसिद्धार्थमनूद्याऽऽनयैनमित्यानयनं विधीयते । देवदत्तमानयेति देवदत्तानयनं वा विधाय विदुषोरयं कुशलतरोऽनयोरिति प्रसिद्धार्थानुवादविधिविषये द्वे वाक्ये, एवमेकस्यानुवादत्वेऽन्यस्य च विधित्वे वाक्यभेदापत्तिरतो नैतदपि व्याख्यानं शोभत इति ।
___स्यान्मतं वाक्यभेदापत्त्यादिदोषा न सम्भवन्ति क्रियाया एव विधेयत्वाद्यथोक्तं 'नैतद्विचायेते अनड्वान्नानवानिति किन्तालब्धव्यो नालब्धव्य इति', (महाभा० १-१-४३ सूत्रे) तथा 10 'स्वभावासिद्धं द्रव्यं क्रिया चैव हि भाव्यते (पा० महा० १-३-१)' इति, तस्मादग्निविषया हवनक्रियैव विधीयतेऽतो दृष्टान्तवैषम्यं नास्ति द्रव्यस्याविधेयप्रतिषेध्यत्वात् घटं कुर्यान्मा कार्षीदिति, किं तर्हि ? घटक्रियां कुर्यादिति तथा हवनं कुर्यादमिहोत्रं कुर्यादिति हवनाग्निहोत्रक्रिययोरतिदेशो न्याय्य इत्यत्रोच्यते
नापि घटादिकर्त्तव्यतेव काचिदग्निहोत्रकर्त्तव्यता नाम प्रोक्षणबहिरास्तरणाज्यप्रक्षेपा-10 धुपक्रमात्मिका मन्त्रपूर्वक्रिया क्रमवती प्रसिद्धा ययाऽग्निहोत्राख्यता हवनस्यातिदिश्येत, हवनाख्यता वाऽग्निहोत्रस्य ।
नापि घटादिकर्त्तव्यतेवेत्यादि, यथा घटादिविषया कर्त्तव्यता मृदानयनमर्दनाशुपक्रमात्मिका लोके प्रसिद्धा न तथा काचिदग्निहवनकर्त्तव्यता नाम प्रोक्षणबहिरास्तरणाज्यप्रक्षेपाापक्रमात्मिका मनपूर्व क्रिया क्रमवती प्रसिद्धा, या कर्त्तव्यतयाऽतिदिश्येत हवनाख्ययाऽग्निहोत्राख्यता अमिहोत्रा- 20 ख्यया वा हवनाख्यताऽतिदिश्येतेति ।। धेयत्वमङ्गीक्रियते, उक्तञ्च 'विधित्सितगुणप्रापिशास्त्रमन्यद्यतस्त्विह। तस्मात्तत्प्रापणं व्यर्थमिति नामत्वमिष्यते' इति । अप्रसि. द्धार्थत्वादिति, न तावदत्राप्रसिद्धार्थत्वं प्रमाणान्तरेणाप्राप्तत्वरूपम् ; अग्निहोमयोः अग्निोतिरित्यनेनामिहोत्रं जुहोतीत्यनेन च तैः प्राप्तत्वाङ्गीकारात् किन्तु लोकतत्त्वान्वेषणस्याशक्यप्राप्त्यफलत्वाभ्युपगमादिति बोध्यम्। वाक्यमेदापत्तेरिति, अमिहोत्रं जुहुयात् स्वर्गकाम इत्येकस्यैव वाक्यस्योक्तोभयार्थत्वे वाक्यमेदो बोध्यः । अत्र वाक्यमेदः तद्वाक्यस्यावृत्त्या, अन्यथार्थद्वया- 25 नधिगतेः न तु भिन्नप्रतीतिविषयानेकमुख्यविशेष्यराहिये सति विभज्यमानसाकांक्षत्वमेकवाक्यत्वम् , तत्रैकस्य कस्यापि दलस्याभावे च वाक्यमेद इति मीमांसकाभिमतो वाक्यमेदः सम्भवति । एकोद्देशेन प्रधानद्वयविधान एव हि वाक्यमेदस्तेषामभिमतः। मैतद्विचार्यत इति. मेध्यः पशुर्विभाषितो मेध्योऽनद्धान विभाषित इत्यत्र पश्वनड़हौ विकल्पविषयाविति न विचार्य न्त्वालम्बनादिक्रियैव विकल्प्यते योग्यत्वात् , द्रव्यन्तु न विधेयं न वा प्रतिषेध्यम् , अत एव न घटो विधेयो निषेध्यो वा, किन्तु तक्रियैव, एवमग्निहोत्रहवनयो व्यखरूपयोर्न विधानं किन्तु तक्रिययोरेवेति भावः। तथा स्वभावसिद्धमिति, भाव्यते 30 यः स भावः कर्मसाधनः, भाववचनश्च धातुसंज्ञो भवति, क्रिया हि भाव्यते तेन साध्यमानार्थवाचिनां धातुसंज्ञा, घटमकार्षीत् , घटं करोति घट करिष्यतीत्यादौ कृतताक्रियमाणताकर्तव्यतायुक्तान्यपि घटादिद्रव्याणि सिद्धरूपाण्येव प्रातिपदिकेना. भिधीयन्ते स्वभावसिद्धन्तु द्रव्यम्-खभावेम-शब्दशक्तिखभावेन सिद्धं सूक्ष्मरूपेण सिद्धावस्थमेव द्रव्यशब्दवाच्यम्, अत एक 'तस्य क्रियाकांक्षा, यद्यपि क्रियापि सूक्ष्मरूपेण सिद्धावस्था तथापि सा शब्दशक्तिखाभाव्यात् स्थूलरूपेण साध्यतयैव प्रतीयत इति बोध्यमिति भूवादिसूत्रे (१-३-१) भाष्ये विवृतम् । प्रसिद्धति. लोके प्रसिद्धेत्यर्थः, शास्त्रप्रसिद्धर्वचनान्तरेण सरनात् ।
द्वा. न. १९
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org