________________
१४४ द्वादशारनयचक्रम्
[विधिविध्यरे - आचार्य आह
एतदयुक्तं दृष्टान्तवैषम्यादर्थभेदासिद्धः, न हि किश्चिदग्निहोत्रं नाम घटवत् प्रसिद्धं यदनूद्योच्येत, न हि साधर्येण यदग्निहोत्रसंज्ञकं हवनं तत्कुर्यादित्यग्निहोत्रहवनयोरैक्येन तद्विषयं करणमनुविधीयेत, नापि वैधयेण हवनं यत्कुर्यादिति हवनक्रियामनूद्य तदग्निहोत्रा5 ख्यमित्यैक्येन विधानं युज्येत, परेणाग्निहोत्रस्य हवनस्य वाऽविहितत्वादत एव तूभयमप्यशक्यम् , विशेषणं विशेष्यं च, प्रधानमुपसर्जनश्च, विधिरनुवादश्च, शेषः शेषी च, उत्सर्गो:पवादश्चान्यतरस्याप्यर्थाप्रतीतेः, यदि विशेष्येणैव विशेषणीयं हवनं कुर्यात्तच्चाग्निहोत्रसंज्ञकमिति, अग्निहोत्रं वा हवनमिति तच्च नैवं शक्यमप्रसिद्धार्थत्वात् ।
(एतदिति) एतदयुक्तं दृष्टान्तवैषम्यादर्थभेदासिद्धेः, अभ्युपेत्याप्याकांक्षितमर्थभेदमग्निहोत्रहव10 नयोरप्रसिद्धेदृष्टान्तेन प्रसिद्धेन घटेन वैषम्यमिति, तद्दर्शयति-न हि किश्चिदग्निहोत्रं नाम हवनं घटवत् ।
प्रसिद्धं यदनूद्योच्येत, यथा घटं लोके प्रसिद्धमनूद्य तद्विषयं कर्म कुर्यादित्युच्यते, न ताहगनुवदनमत्रोपपन्नमप्रसिद्धत्वादग्निहोत्रहवनयो, नाप्याकांक्षाकृतमैक्यमस्तीति तद्दर्शयति-न हि साधर्म्यण यदमिहोत्रसंज्ञकं हवनं तत्कुर्यादित्यग्निहोत्रहवनयोरैक्येन प्रसिद्धौ सत्यां तद्विषयं करणमनुविधीयेत, नापि वैधय॑ण हवनं यत्कुर्यादिति हवनक्रियामनूद्य तदग्निहोत्राख्यमित्यैक्येन विधानं युज्यते परेणाग्निहोत्रस्य 15 हवनस्य वाऽविहितत्वात्-लोके शास्त्रान्तरेण वा प्रमाणान्तरेण वाऽप्रसिद्धत्वादग्निहोत्रहवनक्रिययोः कथमनूद्य विधानं घटते । अत एव तूभयमप्यशक्यम् , अत:-इत्येतस्मादनंतरोक्ताद्धेतोर्वाक्यान्तरेण प्रमाणान्तरेण वाऽप्रतीतत्वादुभयमप्यशक्यं-विशेषणं विशेष्यञ्च, प्रधानमुपसर्जनश्च, विधिरनुवादश्च, शेषः शेषी च, उत्सर्गोऽपवादश्च, अन्यतरस्याप्यर्थाप्रतीतेः, किं हवनक्रियाविशेषणमग्निहोत्रं विशेष्यमग्निहोत्रं विशेषणं हवनं विशेष्यमिति, एवं प्रधानोपसर्जनविध्यनुवादोत्सर्गापवादशेषशेषिभावादिषु खपुष्पखर20 विषाणयोरिवायुक्तमिति, तुशब्द एवकारार्थविशेषणे प्रोक्तवदेव विशेषणत्वादि न घटत इति विशि
नष्टि । कथमशक्यमिति चेद्दर्शयति-यदि विशेष्येणैव विशेषणीयं हवनं कुर्यात् तच्चाग्निहोत्रसंज्ञिकमितिहवनक्रिययाऽग्निहोत्रं विशेष्येत, अग्निहोत्रं वा हवनमिति-यदग्निहोत्रं तद्धवनं कर्मेत्यग्निहोत्रेण हवनं विशेष्येत, इतिः प्रदर्शने, इत्थं विशेष्येत यदि विशेषेण विशेष्यतया प्रयोजनमवश्यम् , तच्च नैवं शक्यमप्रसिद्धार्थत्वात् ।
25 रकहोमविशेष्यकप्रतीतिजनकत्वेन धात्वर्थतावच्छेदकत्वं तत्र जुहोतिपदेनैव विशेष्याभिधानाद्विशेष्यपरमप्यग्निहोत्रपदं विशेष्यां
शेऽनुवादकमिति, यद्विधानार्थं यदुपपदमिति विवक्ष्यते तदर्थस्य द्रव्यस्य देवताया वा प्रमाणान्तरेण प्राप्तौ तत्पदं नामधेयमित्याह। नामधेयस्य चान्वतिरिक्तस्य डिस्थादिवत् कचित्प्रसिद्धिरावश्यकीति. अत्र हवनशब्देन घटादिशब्देनेव सिद्धरूपः कश्चनार्थो
प्रन्थकर्तुर्विवक्षित इति प्रतिभाति, अत एव क्रियाकांक्षा हवनं कुर्यादित्युच्यते. क्रियापेक्ष हवनं कुर्यादिति तदर्थः। प्रसिद्धस्यैव - धात्वर्थतावच्छेदकत्वादग्निदेवताकहोमत्वरूपाग्निहोत्रपदार्थस्याप्रसिद्धेर्न तथान्वयो विधातुं शक्यत इत्युत्तरयति-एतदयुक्त. 30 मिति सामानाधिकरण्येन वैयधिकरण्येन वा नाग्निहोत्रहवनयोरन्वय इत्याह-न हीति, मीमांसकास्तु 'अपिज्योति
ज्योतिरग्नि'रिति मंत्रेणाग्निदेवता प्रकाश्यते तेनात्राग्नेः प्रसिद्धत्वात्तत्पदं नामधेयं धात्वर्थसमानाधिकरणत्वादिति वदन्ति.। परेणेति, शास्त्रान्तरेण प्रमाणान्तरेण वेत्यर्थः शास्त्रान्तरं मीमांसाव्यतिरिकं प्रमाणान्तरं वेदातिरिक्तं प्राह्यमन्यथाऽग्निहोत्रं जुहोतीति वचनान्तरेण हवनस्य प्रसिद्धत्वादप्रसिद्धत्वाभिधानमसङ्गतं भवेत् . अत एव चामिहोत्र शब्दस्य तत्प्रख्यशास्त्रेण नाम
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org