________________
अग्निहोत्रपद सार्थक्यम् ]
न्यायागमानुसारिणीव्याख्यासमेतम्
१४३
येन समानो ब्रह्मचारी तेन सब्रह्मचारिणा य एवाधीते तेनैव समान इत्याकांक्षा भवति । ननु यथा पदार्थे परिच्छिन्ने न पदार्थान्तरमपेक्ष्यते पदेन तथा घटवदग्निहोत्रशब्दोऽप्यर्थवत्त्वम-पेक्षते न वेदेवं ततोऽग्निहोत्रशब्दः प्रमादाधीन आपद्येत, तत एवं वचनव्यक्तिर्भवति अग्निहोत्राख्यं हवनं कुर्यात् घटवदिति ।
पदान्तरकर्त्तव्यतायां तावदित्यादि, तावच्छन्दः क्रमार्थे यत्तावदुक्तं 'पदान्तरकर्त्त - 5 व्यतायां कथं प्रवर्त्तेत' इत्यत्र परिहारोऽस्मिन् परिहारे चाभिहितौ पौनरुक्त्याप्रसिद्विदोषावपि तदेव तदित्येतत्पक्षगतौ परिहृतावेवेत्यभिप्रायः । तत्र हवनं पदान्तरकर्त्तव्यतामपेक्षते, केन न्यायेन ? वाक्यन्यायेन, को वाक्यन्यायः ? भेदसंसर्गाभ्यां परस्पराकांक्षा सम्बन्धः, तयाssकाङ्क्षया पदान्तरार्थे वर्त्तते पदम्, यथा सब्रह्मचारिणा सहाधीत इत्युक्ते येन समानो ब्रह्मचारी तेन सब्रह्मचारिणा य एवाधीते तेनैव समान इत्याकांक्षा भवति सामर्थ्यात्, नान्येन केनचित्सामान्यमपेक्षत इत्यर्थः । ननु 10 यथा पदार्थे परिच्छिने घट इति न पदार्थान्तरमपेक्ष्यते पदेन सा पुनरपेक्षा घटवत्-घटशब्दवत्, अभेदनिर्देशाद्धटार्थत्वेन घट शब्द उक्तः, घटशब्दस्यार्थवत्त्ववदग्निहोत्रशब्दः सर्वथाप्यर्थवत्त्वमपेक्षते, अन्यथाऽग्निहोत्रशब्दोऽनर्थकः स्यात् तन्मा भूत्तदानर्थक्यमित्याकांक्षते, न चेदेवं ततो दोष इति, यदि तु निरपेक्षोऽग्निहोत्रशब्दो हवनप्रकृत्यर्थमात्र एव वर्त्तते ततः को दोषः ? ततोऽग्निहोत्रशब्दः प्रमादाधीन आपद्यते, अग्निहोत्रशब्दस्य च न पृथक् कश्चिदर्थो हवनप्रकृत्यर्थमात्रत्वात्ततश्च दश दाडिमादिश्लोका - 15 बयववत् प्रमादाधीन आपद्यते निराकाङ्क्षत्वात् न पुनरेवमिष्यते, तत एवं वचनव्यक्तिर्भवति 'अग्निहोत्राख्यं हवनं कुर्यात् अग्निहोत्रसंज्ञक्रियाकांक्षा हवनं कुर्यादिति, किमिव ? घटवत्, यथा घटं कुर्यादित्युक्ते सामान्यचोदनायाः श्रवणाद्विशेषाभिसम्बन्धमन्तरेण नैरर्थक्यं स्यात्तन्मा भूदिति घट कुर्यात् घटक्रियां कुर्यादिति वचनव्यक्तिस्तथाऽग्निहोत्रं जुहुयादिति ।
तदित्यनेन कृतः, तस्मिन् परिहारे पौनरुक्तत्यप्रसिद्धिविरोधदोषौ समायातौ तौ च 'पदान्तरकर्तव्यतायां तावदिति ग्रंथेन 20 परिहृताविति क्रमार्थो विज्ञेय इत्याह-यत्तावदुक्तमिति । वाक्यैकवाक्यतामवलव्य परिहारो द्रष्टव्यः । मेदसंसर्गाभ्या मिति, वृत्तौ हि सामर्थ्यं मेदः संसर्गो वा, यदि वृत्तौ तौ न स्यातां तदा सामर्थ्यमेव न स्यात्, तत्र भेदः संसर्गाविनाभावित्वादनुमीयमानसंसर्गः सामर्थ्यम्, संसर्गे वा मेदाविनाभावित्वादनुमेयमेदः । मेदसंसर्गवानेवार्थो वृत्त्योपस्थाप्यते मेदसंसर्गवदर्थ प्रातिपदिकत्वमेवैकार्थीभावसामर्थ्यम्, यथा राज्ञ इत्युक्ते सर्वं स्वं प्रसक्तं षष्ठ्या सम्बन्धिमात्रस्याक्षेपात् यदा पुरुषस्य पारतंत्र्यं प्रमाणान्तरेण प्रतिपन्नं तदा पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः, इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुष 25 निवर्त्तयत्यन्येभ्यः स्वामिभ्यः, पुरुषोऽपि राजानमन्येभ्यः, स्वत्वसमानाधिकरणो राजभिन्नखामिकमेदो राजसंसर्गव्याप्यः, एवं वृत्त्युपस्थाप्य राजसम्बन्धवव्याक्तिगतराजसम्बन्धो राजभिन्नखामिकभेदव्याप्य इति बोधः, समाने साधारणे ब्रह्मणि वेदे यो व्रतं चरति सब्रह्मचारी, ब्रह्मण्युपपदे समानपूर्वे ब्रते कर्मणि चरेर्णिः व्रतलोपश्च बोध्यः । तदेव परस्परव्यावर्त्तनं प्रदर्शयति यथेति । खार्थे परिच्छिने सति सर्वेषां पदानामपेक्षा शाम्यति, यदि तु पदार्थान्तरपरिच्छेदमन्तरेण पदस्यार्थवत्त्वं न भवेत्तर्ह्यपेक्षेत पदार्थान्तरं न चैवमस्तीत्याह - ननु यथेति । शब्दार्थयोरमेदाद्धटवदिति घटार्थद्वारेण घटशब्द उक्त इत्याह- 30 अमेदनिर्देशादिति, अर्थवतां शब्दानामेव प्रयोगस्यावश्यकतयाऽग्निहोत्र शब्दस्य हवनमात्रार्थत्वे तस्य हुधातुनैव लाभादनिहोत्रशब्दस्य पृथगर्थाभावेन प्रमादाधीनस्तत्प्रयोगो निरर्थको भवेदित्याह-अग्निहोत्रशब्द इति । दश दाडिमादीति, दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः अधरोरुकमेतत्कुमार्या स्फैयकृतस्य पिता प्रतिशीन इत्यनर्थकानि वाक्यानि श्लोकस्तु न दृष्टः । अग्निहोत्राख्यं हवनं कुर्यादिति, खण्डदेवस्तु अग्निहोत्राख्यहोमो न धात्वर्थावच्छेदकः, स्वस्मिन् स्वस्यावच्छेदकत्वानुपपत्तेः, नहि संभवति अग्निसम्बन्धिहोमेन होमेनेष्टं कुर्यादिति, किन्तु अग्निदेवताकहोमत्वरूपरूपान्तरप्रका-'
35
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org