________________
द्वादशारनयचक्रम्
[विधिविध्यरे (यथेति) एवमिति प्रकारनिर्देशं दर्शयति (मृत्पिण्डमिति ) काश्चिदपीति, कर्तव्यतामितिकर्त्तव्यतां वा वक्तुमशक्यत्वादत आह-(नत्विति ) अपिशब्दादितिकर्तव्यतामपीति ।
स्यान्मतम्
जुहुयादित्ययं तर्हि ब्रवीति हवनकर्तव्यतामिति, एवमपि तदवस्थम् , विविक्तार्थ5 वाचित्वाभिमतानां शब्दानां पदार्थान्तरावृत्तेः, जुहोतेहि धातोरयं प्रत्यय उत्पन्नः स तत्कर्तव्यतां हित्वा पदान्तरकर्तव्यतायां कथं प्रवर्तेत ?
(जुहुयादिति) जुहुयादित्ययं तर्हि ब्रवीति, हुदानादनयोरित्यस्याः प्रकृतेः क्रियावाचिन्या विध्यर्थलिङ्प्रत्ययान्तत्वात् , तच्च हवनममिविषयमतस्तत्कर्त्तव्यतां जुहुयादित्येष शब्दो ब्रवीति, अनो.
च्यते एवमपि तदवस्थं-सत्यमयं ब्रवीति तत्कर्तव्यता, किन्तु हवनमात्रस्य, तस्याप्यप्रसिद्धस्यैव, नत्व10 ग्निहोत्रकर्त्तव्यताम् , जुहुयादित्याख्यातस्य पूर्वापरीभूतानिष्पन्नावयवक्रियार्थवाचित्वात् , नाम्नां पिण्डितनिष्पन्नार्थवाचित्वात् । किं कारणम् ? विविक्तार्थवाचित्वाभिमतानां शब्दानां पदान्तरार्थावृत्तेः, तत आह-जुहोतेहि धातोरयं प्रत्यय उत्पन्नः स तत्कर्त्तव्यतां हित्वा पदान्तरकर्तव्यतायां कथं प्रवर्तेत ? 'प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूत' इति परिभाषितत्वादाप्तः । ( महाभाष्ये ३।१।६७ सूत्रे)
स्यान्मतम्15 अथ तदेव तदिति, एतत्तावदनयोरैकार्थ्य प्रसिद्धिविरुद्धम् , पौनरुक्त्यपरिहारार्थ जुहुयादित्येवास्तु किमग्निहोत्रमित्यनेन ?
(अथेति) अथ तदेव तत्, यदेवामिहोत्रं तदेव हवनम्, यदेव हवनं तदेवामिहोत्रमिति, एतत्तावदनयोरैकायं प्रसिद्धिविरुद्धं नामाख्यातयोभिन्नार्थत्वप्रसिद्धेः । अभ्युपेत्याप्येकार्थवाचित्वमनयोः पौनरुक्त्यपरिहार्थं लाघवार्थश्च जुहुयादित्येवास्तु, किमग्निहोत्रमित्यनेन ?
इतरोऽप्रसिद्धिपौनरुक्त्यपरिहारार्थमाह
पदान्तरकर्त्तव्यतायां तावद्धवनं पदान्तरकर्तव्यतामपेक्षते वाक्यन्यायेन, भेदसंसर्गाभ्यां परस्पराकांक्षया पदान्तरार्थे वर्तते पदम् , यथा सब्रह्मचारिणा सहाधीत इत्युके हवनस्याग्निविषयत्वात् तथा च तत्कर्त्तव्यतां विधिरभिधत्त इत्याह-जुहुयादित्ययमिति । आख्यातार्थस्य विधेः खप्रकृत्य
र्थभूतहवनेनैव सम्बन्धाद्धवनकर्तव्यताया एव बोधो न त्वग्निहोत्राख्यहवनकर्त्तव्यताया इत्याशयेनोत्तरयति-एवमपीति । 25 तदवस्थम्, अग्निहोत्रहवनकर्तव्यत्वबोधकत्वाभावस्तदवस्थ इत्यर्थः । पूर्वापरीभूतेति, जुहुयादित्याख्यातपदवाच्या क्रिया पूर्वापरीभूतावयवा प्रत्यक्षेणावयवशः समूहरूपेण चादृष्टा साध्यमानावस्था, यथा परमाणवः कार्यात्मना स्थिता उपलभ्यन्ते न केवलाः एवं पिण्डीभावाभावान क्रिया प्रत्यक्षा । नामपदवाच्यन्तु कार्यात्मना स्थितं सिद्धरूपं वस्तु , भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीत्यभियुक्तोक्तः । जुहोतेीति, हुधातोहि विधिप्रत्यय उत्पन्न इति पदैकवाक्यतया तस्यैव विधिना सहान्वयः नान्यस्य, पदैकवाक्यता च तत्रैव यत्र पदजन्यपदार्थोपस्थितिमात्रेण पदार्थयोः परस्परान्वयेन वाक्यार्थी निष्पद्यते । यथा जुहयात् होमेन भावयेदित्यादि, अग्निहोत्रादीनान्तु नामधेयत्वेनेतिकर्तव्यतया धात्वर्थरूपकरणपरिच्छेदद्वारा करणत्वेन वाक्यैकवाक्यतयाऽन्वयः, यत्र पदाभिहितपदार्थयोराकांक्षादिभिः सम्बन्धो ज्ञायते ततः शेषशेषिभावाद्याकांक्षायां वाक्यार्थयोरन्वयो भवति तत्र वाक्यैकवाक्यता। मूलकृता तु पदैकवाक्यतामाश्रित्याग्निहोत्रहवनकर्तव्यताबोधकत्वाभाव उक्तः, विविक्तार्थवाचित्वाभिमतानां शब्दानामिति, प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वस्य नियतत्वात् समानपदेनैव हुधातुना सम्बन्धान पदान्तरेणाग्निहोत्रपदेन सम्बन्ध इति भावः। पदान्तरकर्त्तव्यतायां कथं प्रवर्तते'त्यस्य परिहारोऽथ तदेव
20
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org