________________
वेदवाक्याप्रामाण्यम् ]
न्यायागमानुसारिणीव्याख्यासमेतम्
१५७
एव ते पुरुषत्वादविद्यायोगाच्च, दश दाडिमादिश्लोकवादिवत् । अविद्यायोगं दर्शयति यथज्ञानादिति । रागादियोगश्च दर्शयति-यदि द्वेषादेः ।
इतर आह-
विफलोऽयं प्रयासस्ते, अनभ्युपगमात्, अथवा को वाऽऽह ज्ञवचनमेतदिति ज्ञस्य प्रमाणभूतस्याभावाच्छब्दस्यैव च निर्दोषत्वादिति तन्न, यदि संशयादियोगान्न ज्ञः प्रमाणं 6 तहदमज्ञोकत्वादुन्मत्तवाक्यवदिति क्रियोपदेशसाफल्यवादः क्व गच्छतीति चिन्त्यताम् ।
( विफल इति ) विफलोऽयं प्रयासः अनिष्टापादनं तेऽनभ्युपगमात्, को वाऽऽह ज्ञवचनमेतदिति, ननु प्रागुक्तं संशय विपर्ययानध्यवसायसम्पृक्तत्वान्निर्णयस्याप्यज्ञानत्वमेवेति । अथवा को वाऽऽह ज्ञवचनमेतदिति, ज्ञस्य पुरुषस्य सर्वत्र प्रमाणभूतस्याभावात् किं तर्हि ? शब्दस्यैव च निर्दोषत्वादिति । अत्राचार्य आह- यदि संशयादियोगान्न ज्ञः प्रमाणं तर्हदमज्ञोक्तत्वादुन्मत्तवाक्यवदिति 10 क्रियोपदेशसाफल्यवादः क्व गच्छतीति चिन्त्यताम् । एवं तावदबुद्धिपूर्वकमकारादिवर्णानुपूर्व्या शब्दोचारणं चेतनोदीरितं काकभाषितं पुरुषभाषितं वा तुल्यम् ।
अथाऽऽचक्षीथाः काष्ठशब्दवत्सर्वमचेतनं तथाप्यचेतनत्वात् कुतोऽस्य प्रामाण्यमाकाशवत् कुतोऽस्य वचनम् ? यच्छन्द आह तन्नः प्रमाणमितीष्टं भवताम्, अज्ञोदीरितत्वादेव च वचनत्वमस्य नास्ति, वाच्यार्थप्रतिपादनाभिसन्धिपूर्वकं हि तत् । काष्ठशब्दवदित्थं न घटते 15 वेदवाक्यप्रामाण्यम् ।
(अथेति) (काष्ठशब्दवदिति ) काष्ठपाषाणादिसंघट्टजनिताचेतनशब्दवत्, (आकाशवदिति ) एवञ्च कृत्वाऽचेतनत्वात् कुतोऽस्य वचनम् । ( भवतामिति) भाषणं वचनमुक्तिः शब्दोच्चारणं भावसाधनत्वाद्वचनशब्दस्य, अचेतनत्वाद्वकृत्वमस्य नास्तीत्यर्थः । कथं ? अज्ञोदीरितत्वादेव च वचनत्वमस्य
यद्यज्ञानादिति, अत्र मूलं न सम्यग्विदितं गमकाभावादतो नोद्धृतम् । अग्निहोत्रादिवचने दोषापादनार्थं तव प्रयासो व्यर्थ 20 एव बुद्धिपूर्वकं वचनमिदमित्यनभ्युपगमात् प्रमाणभूतपुरुषाभावादित्याशङ्कते - विफलोऽयमिति । सर्वमिदमज्ञानप्रतिबद्धं जगत् नास्ति कश्चिज्ज्ञानाज्ञानयोर्विशेषः सर्वेषां संशय विपर्ययानध्यवसायनिर्णयानामवबोधार्थत्वेनाविशिष्टत्वादित्याह-ननु प्रागुक्तमिति, विध्यरे प्रान्तभागे उक्तमित्यर्थः । प्रकारान्तरेण व्याचष्टे प्रकरणानुरोधात् - अथवेति, अग्निहोत्रादिवचन न ज्ञातुः सर्वत्र प्रमाणभूतपुरुषाभावात् सर्वेषां दोषवत्त्वात् किन्तु नित्यत्वेन निर्दोषत्वाच्छब्द एव खतः प्रमाणमिति पूर्वपक्षाभिप्रायः । ननु यद्यग्निहोत्रादिवाक्यं न ज्ञस्य वचनं तर्ह्यज्ञोक्तं स्यात् तथा चोन्मत्तवाक्यवद्यादृच्छिकत्वात् क्रियाया एवोप- 26 देशः श्रेयान् शक्यप्राप्तेः सफलत्वाच्चेत्यभ्युपगमो भज्येतेत्याह-यदि संशयादीति । वर्णानुपूर्व्याऽबुद्धिपूर्वकं चेतनेनोचरितं शब्दोच्चारणमविशेषेण काकादिभाषितवत्स्यात् न यस्ति काको कपुरुषोक्तयोः शब्दोच्चारणयोर्विशेषः कश्चिदित्याह - एवं तावदिति । ननु काष्ठादिजन्यशब्दवत् सर्वमपि शब्दजालमचेतनं न तु चेतनोश्चरितमतो नोक्तदोष इत्याशङ्कते - अथाचक्षीथा इति । एवं तर्हि वेदवचनस्याकाशादिवदचेतनत्वादेव प्रामाण्यं शब्दस्य च वचनत्वं न स्यात्, इष्टञ्च भवतां प्रामाण्यं शब्दस्य वक्तृत्वश्च यच्छन्द आह तन्नः प्रमाणमित्युक्त्या शब्दस्य प्रमाणत्व वक्तृत्वयोरङ्गीकृतत्वादित्युत्तरयति - तथापीति 30 उच्यत इति वचनमिति कर्मणि ल्युटि सति वचनं शब्दपर्यायः स्यात् तथा चास्य वचनमित्य सङ्गतार्थ कम्, इदं शब्देनापि शब्दस्य विवक्षितत्वात्, अतो भावसाधनत्वमाह-भाषणमित्यादिना । शब्दोऽयममुमर्थं बोधयत्वित्यभिसन्धिपूर्वकं हि भाषणं भवति तदभावे तु भाषणमेव न स्यात् केवलं काष्टादिजनितशब्दवदेव स्यात्ततश्च वेदवाक्यं न प्रमाणं भवेदित्याह --
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org