________________
१५८ द्वादशारनयचक्रम्
[विधिविध्यरे नास्ति वाच्यार्थप्रतिपादनाभिसन्धिपूर्वकं तत् । तदभावे तूक्तमित्यत आह-काष्ठशब्दवत् , इत्थमचे. तनत्वेऽपि न घटते वेदवाक्यप्रामाण्यम् ॥
अत्राह
यदुक्तं प्राक् को वा ह ज्ञवचनमेतदिति न ब्रूमः सर्ववक्तृवचनाप्रामाण्यमिति, किन्तर्हि ? 5 सर्वज्ञवीतरागाद्यभावागन्थस्य सर्वभावस्वभावविषयस्य कर्तुरप्रामाण्यं न तु वक्तुरनादिनिधनस्य वक्तृपरम्परागतस्य वचनस्य च, क्वचित्प्रामाण्यादित्यत्रोच्यते, आदिवत्तृवच्चोत्तरवक्तर्यपि धातुकमंत्रादिवद्वचनानाश्वासतुल्यतेत्यलमतिप्रसङ्गिन्या कथया।
(यदुक्तमिति) यदुक्तं प्राक् को वाऽऽह ज्ञवचनमेतदिति द्वितीये विकल्पे न ब्रूमः सर्ववक्तृ. वचनाप्रामाण्यमिति, स्ववचनविरोधदोषात् , किं तर्हि ? सर्वज्ञवीतरागाद्यभावाद्न्थस्य सर्वभावस्वभाव. 10 विषयस्य कर्तुरप्रामाण्यम् , न तु वक्तुरनादिनिधनस्य वक्तपरम्परागतस्य, वचनस्य च, वक्तृवचनयोः कचि.
प्रामाण्यात्, अत्रोच्यते आदिवक्तवञ्चोत्तरवक्तर्यपीति, यथाऽऽदिवक्तारोऽप्रमाणमसर्वज्ञत्वादवीतरागत्वाच, शास्त्राणां सर्वभावस्वभावविषयाणां ते यथार्थज्ञानवचनहीनाः, तथा अनादिप्रसिद्धानां शास्त्राणामध्येतारो यथार्थज्ञानवचनहीनाः, तस्मादुभयेषां ज्ञातृत्ववक्तृत्वयोर्यथार्थयोरनाश्वासस्तुल्यः । किमिव ? धातुकमश्रादिवक्तवत् , यथा धातुविषयबलादिवादिकानां ज्ञानानि मन्त्रवचनानि च विप्रलम्भभूयिष्ठ. 15 त्वादनाश्वास्यानि, आदिग्रहणाद्वशीकरणमन्त्रयोगादिवत् , तत आह-आदिवक्तवञ्चोत्तरवक्तर्यपि धातुकमत्रादिवचनानाश्वासतुल्यतेत्यलमतिप्रसङ्गिन्या कथया ।
किञ्च
अविवक्षितार्थाया नान्तरीयकत्वात् प्रकृतेः प्रयोगो जुहुयाच्छब्दस्येत्येतदपि न न्याय्या क्वचिच्च सार्थकयोरेव स्वार्थाविवक्षा न्याय्या नानर्थकस्यैव, यथा नक्षत्रं दृष्ट्वा वाचो विसृजन्ति, 20 कतरद्देवदत्तस्य गृहम् ? अदो यत्रासौ काक इति तथा तयोर्नार्थवत्त्वेन दृष्टयोस्तदविवक्षया सार्थकत्वं दृष्टम् , प्रयुक्तस्यानर्थकत्वाभावप्रसङ्गात् ।।
(अविवक्षतार्थाया इति) यदुक्तमविवक्षितार्थाऽनर्थिकापि कर्तृप्रत्ययसहायकारिणी जुहोतिप्रकृतिरुपात्तेत्येतदपि न्यायविरोधादयुक्तम् । कथं ? कचिच्चेत्यादि, कचिच्चेति सर्वत्र, यथा नक्षत्रं दृष्ट्वा वाचो विसृजन्तीति, कतरदेवदत्तस्य गृहं ? अदो यत्रासौ काक इति, नक्षत्रे काकपक्षिणि चोप
25 वाच्यार्थेति । अथवा को वाऽऽह ज्ञवचनमेतदिति पूर्वोक्तद्वितीयकल्पाश्रयेण पूर्वपक्ष्याह-यदुक्तं प्रागिति । को वाऽऽहे. त्यनेन वयं वक्तृवचनमात्रस्याप्रामाण्यं न ब्रूमः किन्तु निरस्तनिखिलदोषस्य निखिलपदार्थसार्थवेत्तुः कस्याप्यभावात् निखिलभावखभावावबोधकग्रन्थविशेषस्य वेदाख्यस्य न कोऽपि कर्ता विद्यते यदि कश्चित्कल्प्यते न स प्रमाणमित्युच्यते न तु तद्वतुर्न वाऽनादिपरम्पराऽऽगतवत्तृवचनस्याप्रामाण्यमुच्यत इति पूर्वपक्ष्यभिप्रायः । वेदस्यादिवतरि भ्रमादिसम्भवेन यथाऽनाश्वास
स्तथोत्तरवक्तर्यपीति वक्तृवचनसामान्यस्याप्रामाण्यं दुर्वारमित्याशयेनोत्तरयति-आदिवक्तवदिति । आदिवक्तर्यनादिवतरि 30 चाविशेषतां दर्शयति-यथेति । क्वचित् खार्थे प्रसिद्धस्यैव शब्दस्यान्यत्राविवक्षितार्थत्वं न तु क्वाप्यप्रसिद्धार्थस्य शब्दस्याविवक्षितार्थतेत्याशयेनोत्तरयति-कचिच्चेति, नक्षत्रे नक्षत्रशब्दः काकपक्षिणि च काकशब्दो रूढः, अत एव नक्षत्रं दृष्ट्वा वाचो विसृजन्तीत्यत्र स्वार्थाविवक्षया कालविशेषोपलक्षकत्वं सम्भवति, एवं अदो देवदत्तस्य गृहं यत्रासौ काक इत्यत्रापि काकशब्दस्योपलक्षकत्वम् , तथा नाग्निहोत्रहवनयोः अर्थवत्त्वं वापि दृष्टमिति न कर्तृप्रत्ययार्थसहकारित्वेन जुहोतिप्रकृतेः स्वार्थपरित्यागे
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org