________________
अन्यायविवक्षापत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् युक्तार्थयोरेव दृष्ट्वा नक्षत्रकाकशब्दयोः सार्थकयोः कालगृहोपलक्षणेऽर्थे सत्येव नक्षत्रदर्शनकाकार्थाsविवक्षा न्यायादनपेता-न्याय्या दृष्टा, नानर्थकस्यैवोन्मत्तप्रलपितादेस्तथा, तयोरग्निहोत्रवनयो र्थवत्त्वेन दृष्टयोस्तदविवक्षया च सार्थकत्वं दृष्टमतो न्यायापेतमेतदुक्तमविवक्षितार्थाया नान्तरीयकत्वात् प्रकृतेः प्रयोगो जुहुयाच्छब्दस्येति, किं कारणं ? प्रयुक्तस्यानर्थकत्वाभावप्रसङ्गात् । यद्येष न्यायः शब्दानां प्रयोगे नियतो न स्यात् , नान्तरीयकत्वादपि प्रयोगे साधुत्वमेव स्यात् , ततश्च प्रमादाद- 5 प्रमादाद्वा प्रयुक्तस्य शब्दस्यानर्थकत्वाभाव एव स्यात्, प्रमत्ताप्रमत्ताविशेषश्च स्यान्न त्वेवं भवति, दृष्टशिष्टेष्टविरुद्धत्वात् ।
स्यान्मतम्
उपलक्षणादिप्रयोजनायां विशेषविवक्षायां किमनयाऽविवक्षाविवक्षयेत्येतदयुक्तम् , विवक्षाविवक्षयोरनियमेन शब्दप्रवृत्तौ सत्यामप्रयोजनायाश्चाविवक्षायामन्याद्यविवक्षाभावे विशेष- 10 हेतुर्वाच्यः।
उपलक्षणादीति, उपलक्षणादिप्रयोजनायां विशेषविवक्षायां किमनया स्वार्थाविवक्षया सर्वस्य शब्दप्रयोगवक्तुर्विवक्षितपूर्वकत्वात् प्रवृत्तेरविवक्षाविवक्षयेत्येतदयुक्तम् , विवक्षाविवक्षयोरनियमेन शब्दप्रवृत्तौ सत्यामप्रयोजनायाञ्चाविवक्षायामन्याद्यविवक्षाभावे विशेषहेतुर्वाच्यः। अग्निशब्दस्यापि जुहोतिप्रकृत्युपादानवन्नान्तरीयकत्वात् प्रयोगोऽर्थोऽस्याविवक्षित इति प्राप्तम् , ततश्च भस्महोत्रं जुहु- 15 यादित्येतद्वाक्यं न साधीयः, अमिहोत्रं जुहुयादित्येतत्साधीय इति केन हेतुना परिच्छेद्यम् ?
किश्चान्यत्युक्ततरी तु तदविवक्षा, वक्ष्यमाणन्यायदर्शनात् , अर्थतत्त्वतत्रत्वात्तस्याः।
(युक्ततरीति,) तदविवक्षा-अन्याद्यविवक्षा, किं कारणं १ वक्ष्यमाणन्यायदर्शनात् , वक्ष्यमाणो हि विधिविधिनयेऽयं न्यायो द्रक्ष्यते भवता 'पुरुष एवेदं सर्व'मित्यादि, तद्दर्शनाच्चेदमन्यादिवि-20 कल्पासत्त्वान्नाग्निहोत्रं न होतेत्यर्थाभावादेवाविवक्षा न्याय्या, किं कारणं ? अर्थतत्त्वतत्रत्वात्तस्याः, . अर्थवशाद्वा विवक्षा भवितुमर्हति नान्यथेति ।
नोपादनं सार्थकं सम्भवतीति भावः । नानर्थकस्यैवेति, सर्वथा क्वचिदप्यर्थेऽप्रसिद्धस्य शब्दस्य विवक्षितार्थत्वं न युज्यते वाच्यस्यैवाभावात् कस्याविवक्षेति भावः। प्रयुक्तस्येति, यदि शब्दस्य प्रयोगमात्रेणैव साधुता स्यात्तर्हि कोऽपि शब्दोऽनर्थको न स्यात् प्रयुक्तत्वादेव, तथा चायं शब्दः प्रमत्तप्रयुक्तोऽसङ्गतार्थत्वात् अयश्च शब्दोऽप्रमत्तप्रयुक्तः सङ्गतार्थत्वादिति विशेषो 25 न स्यात. अतश्च दृष्टविरोधः शब्दानां सार्थकत्वनिरर्थकत्वयोर्दर्शनातू, तथैव शिष्टानामभिमतत्वात्तद्विरोधश्चेति भावः। नन सप्रयोजनं विशेषविवक्षयैव शब्दप्रयोगः न त्वर्थवतः सति प्रयोजने खार्थाविवक्षा, विवक्षयैव शब्दप्रयोगे प्रवृत्तरित्याशङ्कतेउपलक्षणादीति, केनापि प्रयोजनेनैव खार्थस्याविवक्षा शब्दप्रयोक्त्रा विवक्ष्यते, अन्यथाऽग्निशब्दस्याप्यविवक्षा कुतो न.. कृता कुतो वा भस्मादिशब्दस्य विवक्षा न कृता, तस्मात् खार्थाविवक्षापि सप्रयोजनैवेत्याशयेन समाधत्ते-विवक्षाविवक्षयोरिति । नान्तरीयकत्वस्यैव शब्दप्रयोगनिबन्धने दोषमाह-अग्निशब्दस्यापीति । ननु विवक्षाया अप्यर्थाधीनतयाऽर्था- 30 भावादेवाध्यादेरविवक्षा न्याय्या, अग्न्यादेरभावश्च पुरुष एवेदं सर्वमिति वक्ष्यमाणत्वात् पुरुषव्यतिरिक्तार्थाभावादित्यभिप्रा. येणाह-युक्ततरीति । न केवलमविवक्षितखार्थस्य जुहोतेरुपादानं न्याय्यमपि तु सर्वेषामेवान्यादिपदानामिति भावः । जुहो
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org