________________
5
१६०
तदुपसंहृत्याह
एवं तावद्दोषान्तराभिधानमपि, अप्रत्यायकत्वमस्य वाक्यस्य, अप्रत्यवेक्षितार्थयाथातथ्योक्तेर्बालप्रलापवदनुपदेशत्वम् ।
एवं तावदित्यादि, एवं - अनन्तरोक्तोपपत्तिविधिना, अग्निहवनं कुर्यादित्येतस्मिन्नर्थे प्रदर्शितदोषत्वात्, अथवा अग्निहोत्रं कुर्यादग्निहोत्रं जुहुयाद्धवनं कुर्यादग्निहोत्रं हवनं कुर्याज्जुहुयादित्येवमाद्यर्थेषु प्रदर्शितदोषत्वात्, तावच्छब्दः क्रमार्थः । दोषान्तराभिधानमपि भविष्यत्येष तावदोष इत्यप्रत्याथकत्वमस्य वाक्यस्य । कुतः ? अप्रत्यवेक्षितार्थयाथातथ्यो क्तः, बालप्रलापवत् यथातथाभावो याथातथ्यं, अप्रत्यवेक्षितस्याविचारितस्य अर्थस्य याथातथ्यमप्रत्यवेक्षितार्थ याथातथ्यम्, तस्मादप्रत्यवेक्षितार्थयाथातथ्यादुक्तिस्तस्या अप्रत्यवेक्षितार्थयाथातथ्योक्तेः । किं स्वरूपोऽयमर्थः, केन वा रूपेण प्रमाणं 10 प्रमेयो वेत्यप्रत्यवेक्षितस्यार्थस्योक्तः, शब्दस्यार्थस्य वा प्रत्यायक स्वरूपमप्रत्यवेक्ष्योक्तत्वात्तस्याप्रत्यायकत्वम्, अर्थत्वाच्च शब्दस्तदभिधेयो वाऽप्रत्यवेक्षितार्थयाथातथ्योक्तेरेवाप्रत्यायकः प्रधानादिवत् वैधर्म्येण । तस्मादप्रत्यवेक्षितार्थयाथातथ्योक्तेः । यदि शब्दद्वारेण यद्यर्थद्वारेणोभयथाऽप्यप्रत्यायकत्वं सिद्धमतश्चाप्रत्यायकत्वादनुपदेशत्वं बालप्रलापवदेव ।
15
द्वादशारनयचक्रम्
किचान्यत्, अग्निहोत्रं हवनं कुर्यादित्येतस्मिन्नेवान्तरोक्तेऽर्थे दोषान्तरं ब्रूमः
त्वदभिप्रायवदग्निहोत्रं हवनं कुर्यादित्येतस्मिन्नर्थे हवनानुवादेन विशिष्टेऽग्निहोत्रे तस्य कर्मणः परपरिकल्पिताऽऽत्मादिवदलौकिकत्वादप्रसिद्धखरूपत्वात् करणासिद्धिः ।
त्वदभिप्रायवदित्यादि, त्वदभिप्रायेण तुल्यं त्वदभिप्राय इव त्वभिप्रायवत् यथात्वदभिप्रेतेऽग्निहोत्रं हवनं कुर्यादित्येतस्मिन्नर्थे हवनानुवादेन विशिष्टेऽग्निहोत्रे ऽभ्युपगम्यमानेऽग्निहोत्रस्य कर्मणस्त्वदिष्टस्य सांख्यादिपरपरिकल्पिताऽऽत्मादिवस्तुतस्त्वस्या लौकिकस्याप्रसिद्धस्य दुर्ज्ञानत्ववदलौकिकत्वात् 20 अप्रसिद्धस्वरूपत्वाद्दुर्ज्ञानत्वमविज्ञातस्य च करणासिद्धि:- सा हवनक्रिया न सिद्ध्यतीत्यर्थः ।
अत्र परेणाथोच्येत परिहारः
अथोच्येत विध्यन्तरविधानशैल्या तत्सिद्धिः, यथा यूपं छिनत्तीत्यादि पूर्व विधाय पश्चात् पलाशमष्टास्त्रमित्यादीनीति, एतदपि न, वैषम्यात्, न हि सछेदनक्रियाकाल एव तिशब्दवत्सर्वेषां शब्दानामविवक्षितार्थत्वे दोषमाह - एवन्तावदिति । एतस्मिन्नर्थ इति, अग्निहोत्रं कुर्यादिति वाक्यस्ये25 तिशेषः । अग्निहोत्रं जुहुयात् स्वर्गकाम इति वाक्यस्यैतावत्पर्यन्तं यावन्तोऽर्थाविहितास्तावदर्थेषु प्रदर्शित दोषत्वादित्यभिप्रायेणाह - अथवेति । दोषान्तरेति अप्रत्यायकत्वमस्य वाक्यस्येत्येष तावदोषो भविष्यतीति दोषान्तराभिधानमपीति सम्बन्धः । अप्रत्यवेक्षितेति, अर्थस्वरूपमविचार्य वाक्यस्योतेरप्रत्यायकं तत्, शब्दस्यापि यथा तथा भावेनोतर्न विवक्षितार्थवाचकं तत् । शब्दार्थयोरपि प्रत्याध्यप्रत्यायक भावमविगणय्याभिधानादप्रत्यायकं तदिति भावः । बालप्रलापो यथा शब्दार्थोभयद्वारेणाप्रत्यायकत्वादनुपदेशरूपस्तथेदमपि वाक्यमित्याह - बालप्रलापवदिति । ननु हवनानुवादेनाग्निहोत्रविधानेऽग्निहोत्र खरु30 पस्यैव पूर्वमप्रसिद्धेः कथं तस्य विधानं सम्भवति नहि सर्वथाऽनिर्ज्ञातं विधातुं युज्यत इत्याशयेनाह - त्वदभिप्रायवदिति । अयं क्रियाकलापोऽग्निहोत्रशब्देनोच्यत इति विधानात् पूर्वं विज्ञानाभावात् परपरिकल्पितात्मा दिवस्तुतस्ववदलौकिकत्वादप्र सिद्धार्थोऽग्निहोत्रशब्द इति भावः । ननु प्रथममनिर्णयरूपेण सामान्यतो विधाय तत इतिकर्तव्यतां प्रदर्शयित्वा पूर्वोदितं कर्म निर्णीयते, यथा सामान्येन प्रथमं यूपं च्छिनत्तीति यूपं विधाय तत् पलाशसम्बन्धि बिल्वसम्बन्धि वाऽष्टकोणात्मकमित्येवमिति - कर्त्तव्यतां प्रदर्श्य यूपस्वरूपं व्यवस्थाप्यते तथा प्रकृतेऽपीत्याशङ्कते - अथोच्येतेति । वाक्यैकवाक्यतया कर्मणो हि विशेषस्व
Jain Education International 2010_04
[ विधिविध्यरे
For Private & Personal Use Only
www.jainelibrary.org