SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ शैलीवि ] न्यायागमानुसारिणीव्याख्यासमेतम् यूपः, किं तर्हि ? संस्कृतः सन् भविष्यति यूपः इत्थंस्वरूपस्य तस्य काष्ठस्य तदा यूपत्वं नामतो युक्तम् , न पुनरग्निहोत्रस्य तदैव सतः संस्कारनिरपेक्षस्य । __अथोच्येत विध्यन्तरविधानशैल्या तत्सिद्धिरिति, अग्निहोत्रं जुहुयादित्येतस्माद्विधेरन्यो विधिर्विध्यन्तरं यूपं छिनत्तीत्यादि, तस्य विधानं विवक्षितनिरूपणं पूर्व, पश्चादितिकर्तव्यतामिनिरूपणं शैली-स्वभावः तया शैल्या दृष्टया विहितत्वादस्यापि विधेः सा शैलीत्यनुमानात् सिद्धिर्भवति, 5 कस्य पुनर्विधेः विध्यन्तरविधानशैल्या सिद्धिदृष्टा ? यथा यूपं च्छिनत्तीत्यादि यावत् फ्लाशमष्टास्रमित्यादीनि शैल्यनुमान्ने दृष्टान्तमाह । यथाऽत्र पूर्वमविवक्षितनिश्चयावधारणात्मिका कर्तव्यता चोदिता पश्चादष्टास्त्रं पलाशं बैल्वञ्चेत्यादीतिकर्तव्यताचोदनया स्वरूपं व्यवस्थाप्यते तथेहापि । आचार्य आहएतदपि न वैवम्यात् , दृष्टान्तदा_न्तिकयोः शैलीवैषम्यात् , तद्वैषम्यं कालतः प्रसिद्धितोऽवधारणतश्च । तत्र कालतस्तावन्न हि स छेदनक्रियाकाल एव यूपः, भवतीति वाक्यशेषः, छेदनाद्यानर्थक्यप्रसङ्गात् । 10 किं तर्हि ? छेदनादिक्रियाभिः संस्कृतः सन् भविष्यति यूपः, इत्थं स्वरूपस्य तस्य काष्ठस्य तदा यूपत्वं नामतो युक्तम् , यूपस्वरूपं कालान्तरभाव्यर्थापेक्षितं न पुनरग्निहोत्रस्य तदैव सतः संस्कारनिरपेक्षस्य कालान्तरभाव्यर्थापेक्षणमिति वैषम्यम् । इतर आह ननु वत्सो दत्तक इत्यादि यावत् स्थूणेन्द्र उच्यते तादात् , एवं यूपार्थ दार यूप- 10 स्तत्कालत्वादत्रोच्यते, छेदनस्य संस्कारता न विहिता स्यात् , यूपस्य निर्वृत्तत्वात् तस्यामसत्याश्चछिदिरविवक्षितार्थः स्यात् तस्माद्याक्देव यूपं स्वीकरोति तावदेव छिन्त्तीत्युक्तं भवति, छिनत्तेः संस्कारार्थरहितत्वात् , अदृष्टार्थो वा। ननु वत्सो दत्तक इत्यादि, यावत् स्थूणेन्द्र इति, यथाऽत्र तादर्थ्यात्ताच्छब्द्यमेवं यूपार्थ दारू यूप इक्ति तत्कालत्वात् , अत्रोच्यते छेदनस्य संस्कारता न चिहिता स्थात् , यूपस्य नित्तत्वात् तन्नि- 20 वर्त्तनार्थो हि छेदनसंस्कारः। तस्यामसत्याञ्च संस्कारतायां छिदिरविवक्षितार्थः स्यात्-असंस्कारा रूपनिर्णयः यत्र पदाभिहितपदार्थयोराकांक्षादिभिः सम्बन्धो ज्ञातः पुनश्च शेषशेषिभावाद्याकांक्षायां वाक्यार्थयोरन्वयो भवति तत्र वाक्यैकवाक्यतेति । तथा च वाक्यैकवाक्यतया पदैकवाक्यतया वाऽङ्गाङ्गिभावमापन्न क्रियाकलापस्याग्निहोत्रसंज्ञकस्य खर्गसाकात्वमग्निहोत्रं जुहुयात् स्वर्गकाम इति वाक्येन विधीयते इति मीमांसकाः । यथा यूपमिति । यथा यूफे पशुं बनातीति बन्धनाय विनियुक्ते यूपे तस्यालौकिकत्वात् कोऽसौ यूप इत्यपेक्षिते खादिरो यूपो भवति, यूपं तक्षति, यूपमष्टास्त्रीकरोति, इला-25 दिभिर्याक्कैस्तक्षणादि विधिपरैरपि संस्काराऽऽविष्टं विशिष्टसंस्थानं दारु यूपो गम्यत इति भावः। ननु वत्स इति, पुच्छया स्वीकृतो दत्तको बालो वत्स उच्यते, इन्द्रोद्देशेन कृता स्थूणा इन्द्र उच्यते तदर्थत्वात्तथा यूपार्थं दारु यूप उच्यत इति भावः प्रतिभाति, तादात्ताच्छन्द्यमित्युक्तेः, अत्र मूलं गमकाभावान्नोद्धृतं वेदितव्यम् । यूपं च्छिनत्तीत्यादौ मीमांसकाः छेदनादिसंस्कृताना दार्मदीनां पूर्वमवगमे संस्कारविधिवैयादनवगमे तूद्देश्यत्वायोगात् तद्विधानानुपपत्तिरिति यूपत्वादिजातिकाचित्वमेवा यूपादिशब्दानाम् , संस्काररहितेऽपि प्रयोगदर्शनात् , यत्र तु तथा प्रयोगो न दृश्यते तत्र स्वीक्रियत एक संस्कारवाचकत्वान-30 लाहुः । तत्कालत्वादिति, छेदनक्रियाकालत्वमेव यूपस्य न तु च्छेदनोत्तरकालभाव्यथापेक्षित्वं यूपस्वरूपस्यातो न वैषम्य मनिहोत्रयूपशब्दयोरिति भावः । समाधत्ते-छेदनस्येति यदि छेदनकाल एव यूपः सिद्धस्तहि संस्कारविधानवैयर्थ्य यूपल निष्पनत्वात् , ततश्च छिदिधात्वर्थोऽविवक्षितः स्यातू, यूपखीकरणकाल एक छेदनमपि स्वीकृतत्वात् । आनर्थक्यदोषव्याकृतये द्वा० न० २१ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy