________________
१६२ द्वादशारनयचक्रम्
[विधिविध्यरे त्वेऽनर्थक एव छिदिः स्यादित्यर्थः, तस्माद्यावदेव यूपं स्वीकरोति स्वत्वेन परिगृह्णातीत्युक्तं भवति तावदेव छिनत्तीत्युक्तं भवति, छिनत्तेः संस्कारार्थरहितत्वात्। मा भूदयं दोषो दृष्टविरुद्धत्वादत आह-अदृष्टार्थों वा, स्यादिति वर्तते नैवादृष्टार्थः तत्फलत्वात् । एवं तावत् कालतः शैलीवैषम्यादयुक्तमुक्तं विध्यन्तरविधानशैल्या तत्सिद्धिः यूपं छिनत्ति पलाशमष्टास्रमित्यादिवदिति ।
अवधारणवैषम्येऽपि
अत इयं या तत्र भावना यूपं छिनत्ति छेदनेन यूपं स्वीकरोतीति तत्र न छेदनमेवावधार्यते अष्टास्रकरणादीनामसंस्कारत्वप्रसङ्गात् , किन्तु स्वीकरोत्येवेत्यवधार्यते सेह हवनविधिवाक्येन न शक्याऽऽश्रयितुम् , अवधारणासम्भवाद्धवनेनाग्निहोत्रं करोतीति हवनाद्य
न्यस्याग्निहोत्रस्याभावात् । 10 अत इयमित्यादि, अनन्तरोक्ता येयं भावना तयैव भावनयाऽवधारणवैषम्यमपि भावयिध्यामि अत आह-या तत्र भावना यूपं छिनत्ति छेदनेन यूपं स्वीकरोतीति, छिदेः संस्काराभावे यूपखीकरणार्थताया उक्तत्वात् , तत्र च कथमवधार्य ? उच्यते, न च छेदनमेवावधार्यते, यतः स्वीकरोतीति वर्त्तते, कस्तत्र दोष इति चेत् ? यत एवकारस्ततोऽन्यत्रावधारणमष्टाम्रकरणादीनामसंस्कारत्वप्र
सङ्गः, तदत्र प्रसक्तम् । तत्तु नेष्यते किन्तु स्वीकरोत्येवेत्यवधार्यते स्वत्वेनापरिग्रहप्रतिषेधार्थमेषाऽव15 धारणभावना यूपे, सेह हवनविधिवाक्येन न शक्याऽऽश्रयितुम् । किं कारणमशक्येति चेदवधारणा
सम्भवाद्धवनेनाग्निहोत्रं करोतीति, कथं पुनरसम्भवः ? यस्माद्धवनेनाग्निहोत्रं करोति न प्रव्रज्यादिना, न च करोयेवेत्यवधार्यते स्वर्गादिकामाभावे करणाभावादित्यवधारणवैषम्यम् , हवनेनाग्निहोत्रं करोतीति हवनाद्यन्यस्याग्निहोत्रस्याभावात् ।
अत एव प्रसिद्धिवैषम्यमपि20 तस्याग्निहोत्रस्याप्रसिद्धस्य क्रियाकलापाभिमतार्थनामधेयमानत्वात् प्रसिद्धयूपद्रव्यछेदनादिवैषम्यम् ।
(तस्येति,) मात्रग्रहणेन नामधेयत्वसामान्यमेवानुमीयेत नार्थविशेषम् , इदं तदग्निहोत्रं नामास्त्विति, तस्मात् प्रसिद्ध्यप्रसिद्धिभ्यामपि वैषम्यमिति । छेदनमदृष्टार्थ वा भवेदिति भावः। छिदेरदृष्टार्थता च नेष्टा यूपफलकत्वाभ्युपगमादित्याह-नैवादृष्टार्थ इति। ननु छेदनस्य 25 संस्कारत्वाभावे यूपं छेदनेन खीकरोतीति भावना कार्या तस्यां भावनायां न छेदनमेवावधार्यते, स्वीकरोतीति वर्तनात् , अष्टास्रकरणादीनामसंस्कारत्वप्रसङ्गाच्च ततोऽन्यत्रावधारणं कार्यम् , खीकरोत्येवेति खत्वेनापरिग्रहप्रतिषेधार्थम् , हवनविधिवाक्ये त्ववधारणमाश्रयितुं न सम्भवति करोतीत्येवेति न शक्यतेऽवधारयितुम् , कामनाभावेऽकरणात् , नापि हवनम् , हवनादन्यस्याग्निहोत्रस्याभावादित्यवधारणवैषम्यमित्याह-अत इयमित्यादिना. मीमांसकमते तु यूपं छिनत्तीत्यादीनां विधायकत्वेन नियामकत्वाभावादवधारणावकाश एव नास्ति । हवनेनाग्निहोत्रं करोतीत्यपि नाग्निहोत्रं जुहुयादिति वाक्यस्यार्थ इति । अत 30 एवेति, हवनाद्यन्यस्याग्निहोत्रस्याभावादेवेत्यर्थः । अग्निहोत्रमप्रसिद्ध क्रियाविशेषसमुदायस्यैव नामत्वात् क्रियाणाश्चाप्रसिद्धः, यूपन्तु द्रव्यविशेषनामत्वात् प्रसिद्धमिति प्रसिद्ध्यप्रसिद्धिभ्यां शैलीवैषम्यमाह-तस्येति।छेदनादिसंस्कृतपलाशनामत्वं हि यूपशब्दस्य नतु च्छेदनादि क्रियाकलापमात्रनामत्वम् , अग्निहोत्रनाम तु केवलं क्रियाकलापस्येति भावः । नन्वग्निहोत्रशैल्याः प्रमाणत्वे कालप्रसिसवधारणवैषम्यादेव यूपक्रियासादृश्याभावात् कथं यूपच्छेदनादिविध्यन्तरविधानशैल्याऽसमानयाऽग्निहोत्रशैलीसिद्धि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org