________________
१६३
सेवावैषम्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
अतस्तदर्थत्रयमुपसंहृत्य हेतुत्रयनिगमनार्थमाहशैलीप्रामाण्ये चास्य शैल्या यूपक्रियाऽयाथार्थ्यात् तत्सिद्धिरयुक्तैव ।
(शैलीप्रामाण्य इति) शैलीप्रामाण्यश्चावलम्ब्यमानस्याग्निहोत्रस्य यूपक्रियाया उक्तविधिनैवायाथार्थ्यात् , यथार्थस्य भावो याथाय न याथार्थ्यमयाथार्थ्यं तस्मादयाथार्थ्यात् यूपक्रियाया अग्निहोत्रक्रियायाः शैलीसाम्यं नास्ति, अतो न युक्तं विध्यन्तरविधानशैल्या तत्सिद्धियूपछित्त्यादिवदिति ।। अथवा शैलीप्रामाण्यं-शैल्यनुमानं तस्मिंश्च शैलीप्रामाण्येऽभ्युपगम्यमाने चाग्निहोत्रस्य शैल्या यूपक्रियाया अयार्थाथ्यात् कथङ्कारं विधिविध्यन्तरशैल्योस्तुल्यार्थताऽप्रसिद्धेरलौकिकत्वादनुमानानुपपत्तेः, लोके हि दृष्टमनुमीयते न तु यूपकरणमष्टास्रादिरूपमग्निहोत्रकर्मधर्मिस्वरूपं पृथग्भूतं प्रसिद्धमस्ति यतस्तच्छैल्याऽग्निहोत्रशैल्यनुमीयेत तस्माच्छैलीप्रामाण्ये चास्य शैल्या यूपक्रियाया अयाथार्थ्यात् तत्सिद्धिरयुक्तैव । हवनाग्निहोत्रयोर्भेदेऽपि हवनानुवादविशिष्टाग्निहोत्रविधित्वे चोक्तन्यायेन दृष्टान्तवैषम्यान- 10 शैल्यनुमानमिति ।
आह
ननु सेवादिवत् क्रियामात्रत्वादितिकर्तव्यताभ्यः प्रतिपत्तिस्तन्न, भजनार्थसेवायाः ज्ञातत्वे तासां सेवार्थत्वात् अज्ञातत्वे तदर्थाप्रतिपादनात्, न त्वेवमग्निहोत्रावयवक्रियाः ज्ञाताः अवश्यश्चैतदेवमितरथा प्रतिक्रियं पृथक्त्वापत्तेः।।
__(नन्विति) यद्यप्यग्निहोत्रक्रियामात्रत्वे यूपच्छेदादिशैलीवैषम्यं तथापि सेवादिक्रियावदेव तद्भविष्यति यथाहि सेवेत्युपस्थानाञ्जलिकरणादिस्वाम्याज्ञानुवृत्तिभजनार्थाविशेषेण मनोवाकायपरिस्पन्दभेदात्मिकैकैव स्वामिचित्तानुरोधलक्षणा, एवमग्निहोत्राख्या एका क्रिया न सा स्वावयवकलापव्य. तिरिक्ता काचिदस्ति, तस्मात्ता एव पश्वालम्भनप्रोक्षणादिक्रिया अग्निहोत्रमित्यभेदेनोच्यन्ते, आदिग्रहणात् कृषिवाणिज्यादिक्रियामात्रत्वम् , ताभ्य एवेतिकर्तव्यताभ्यः प्रतिपत्तिस्तथेहापि । अत्रोच्यते तन 20 भजनार्थसेवाया ज्ञातत्वे तासां सेवार्थत्वात् , अत्रापि दृष्टान्तदान्तिकयोवैषम्यादित्यभिसम्बन्धः । तदर्शयति-भजनं भक्तिः सैवार्थः सेवाया इति भजनार्थसेवा तस्याः सेवायाः ज्ञातत्वे तासां तदवयवाभिमतानामुपस्थानाञ्जलिकरणादीनां सेवार्थत्वात् , अज्ञातत्वे तदर्थाप्रतिपादनात् । ज्ञाता एव हि ताः
15
रुक्तेत्याह-शैलीप्रामाण्ये वेति, अमिहोत्रशैलीप्रामाण्ये चेत्यर्थः, यूपक्रियाऽयाथार्थ्यात्-यूपक्रियाया अग्निहोत्रशैल्या सादृश्याभावादित्यर्थः । अथाग्निहोत्रयूपक्रियाशैल्योरप्रमाणतामुक्त्वा सम्प्रति शैलीत्वहेतुनाऽग्निहोत्रशैल्या यूपक्रियाशैलीदृष्टा-25 न्तेनाऽनुमानं न सम्भवतीत्याह-अथ वेति । साध्याप्रसिङ्याऽनुमान न सम्भवतीत्याह-तस्मिंश्चेति । हवनाग्निहोत्रयो. भेदेऽपि शैल्यनुमानासम्भवमाह-हवनाग्निहोत्रयोरिति । ननु यथोपस्थानाञ्जलिकरणादिक्रियाकलाप एकैकसेवेत्यभेदेनोच्यते तथा पश्वालम्बनाद्यवयवक्रियाकलाप एवाभेदेनाग्निहोत्रमुच्यते ताश्चावयवक्रिया इतिकर्तव्यताभिः प्रतिपद्यन्त इति सेवादिक्रियावदेवाग्निहोत्रक्रियेत्याशङ्कते-यथाहीति । ज्ञातैव सेवा भजनार्था भवितुमर्हति नाज्ञाता, तथा तदवयवक्रिया अपि, अग्निहोत्रं तदवयवक्रिया वा अज्ञाता एवेति सेवातो वैषम्यमित्याह-अत्रोच्यत इति । इदमत्रावधेयम् , मीमांसकैरनितिं 30 विधेयं निर्जातमुद्देश्यम् , निर्ज्ञानञ्च श
तिमुद्देश्यम् , निर्ज्ञानञ्च शास्त्रतो लोकतो वा. पश्वालम्बनायवयवक्रियाणां तत्तद्वाक्यान्तरैः शेषभूतैः प्रसिद्धिरस्ति, अग्निहोत्रन्तु अवयवार्थनिरपेक्षं डित्थडवित्थादिवन्नाम, न तूद्धिदादिवत् . अवयवार्थस्याग्निदेवताया अग्नेवो वाक्यान्तरेण ज्ञातत्वादित्युच्यत इति । तासां सेवार्थत्वादिति, इयं सेवेति सेवापदार्थज्ञाने सत्यञ्जलिकरणादीनां तदनुकूलानां तदर्थत्वं
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org