________________
द्वादारनयचक्रम्
[विधिविध्वरे सेवेति प्रतिपत्तिं जनयन्ति नान्यथा, न त्वेवमग्निहोत्रावयवक्रियाः ज्ञाताः तस्माद्वैषम्यम् , अवश्यं चैतदेवं, इतरथा प्रतिक्रियं पृथक्त्वापचेः, यथा कृषिसेवयोः परस्परं तदङ्गक्रियाणाञ्च पृथक्त्वम् , तदङ्गत्वेनाज्ञातत्वात् , एवमग्निहोत्रस्य तदङ्गक्रियाणां स्यात्-न तु भवति तदङ्गत्वेनाज्ञातत्वादग्निष्टोमादीनामिति ।
आह
नात्रापि हवनादीनां दानाद्यर्थत्वाद्वैषम्यम् , उत्तरक्रियामात्रत्वाच्चैतदपि न, लोकविदितदानाद्यर्थानुबद्धेतिकर्तव्यतामात्रार्थतापत्तेः, न चैतदिष्टं दृष्टं वा, अग्निसम्प्रदानत्वविरोधात् ।
(नात्रापीति) नात्रापि दानाद्यर्थत्वाद्वैषम्यम् किं कारणं ? अत्रापि हुदानादनयोरिति दानाद्यर्थत्वाद्धवनादीनां नाज्ञातत्वमतोऽग्निहोत्रस्यापि ज्ञातदानाद्यङ्गक्रियात्वात् साम्यमेव सेवादिभिः । किश्चान्यत्-उत्तरक्रियामात्रत्वाच, यथा सेवाया उत्तरक्रियामात्रत्वमुपस्थानादीनामेवमग्निहोत्रस्थाग्निष्टो10 मादीतिकर्तव्यतानामित्येतदपि न, लोकविदितदानाद्यर्थानुबद्धेतिकर्तव्यतामात्रार्थतापत्तेः, एवमपि लोकविदितैर्दानाद्यर्थैरनुबद्धाया इतिकर्तव्यताया योऽर्थस्तन्मात्रार्थत्वमापन्नमग्निहोत्रस्य, लोके ह्यनुग्रहार्थ खस्य निसर्गो दानम् , सङ्गत्य प्रीत्या दानमस्मिंस्तत्सम्प्रदानम् , तस्मै दानं यत्र स्वपरानुग्रहो विद्यते तारशे त्यामो दानं, न तु यत्र कचन मूत्रपुरीषादिविसर्गवद्रव्यविसर्गो भस्मनि वा सर्पिःप्रक्षेपवत्,
तस्मात् स्वपरोपकारकमेवानौ सर्पिरादिविसर्जन सर्व स्यान्न चैतदिष्टं दृष्टं वा, किं कारणम् ? अग्निसम्ब10 दानत्वविरोधात् , तस्याग्नेर्दहनात्मकस्य सर्वद्रव्याणां विनाशकस्य सम्प्रदानत्वविरोधात् , छिन्नमाणेलामवदानवत् , मुषितस्य वा चौराभयप्रदानवत् ।
यदि चाग्नय इति सम्प्रदानविशेषो लौकिक एव, ननु लौकिक एव गृह्यमाण इत्याधुक्तदर्शनवदनर्थकः । नैवं सा तदाभत्वात् , अदानात्मकत्वात् , यथा बालरमणकादिक्रियायायुज्यत इति भावः । अवश्यञ्चैतदेवमिति, ज्ञातानामेव तासामवयवक्रियाणां तदर्थत्वमित्यवश्यं स्वीकार्यमिति भावः । 20 इतरथेति, अवयवावयविविज्ञानवैधुर्ये यथा कृषिसेवयोरन्योऽन्यमहाङ्गिभावाभावाद्भिन्नत्वं यथा वा तत्तदङ्गक्रियाणाञ्चागिनो
भेदस्तथैवाग्निहोत्रस्य तदङ्गक्रियाणाश्च भेदः स्यान्नेष्टः सः, तस्मात् सेवातो वैषम्यम् , तदङ्गत्वेन क्रियाणामज्ञातत्वादिति भावः । मीमांसका अग्निहोत्रं जुहुयात् वर्गकाम इत्यादीनां विनियोगविधित्वं खीकुर्वन्ति । विनियोगो नामाङ्गाङ्गिभावः, अङ्गप्रधानबोधको विधिविनियोगविधिरिति लक्षणात्, एतस्य विधेः सहकारिभूतानि षट् प्रमाणानि, श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभेदात्,
एतत्सहकृतेन विधिनाऽङ्गत्वं परोद्देशप्रवृत्तकृतिव्याप्यत्वरूपं पारार्थ्यापरपर्यायं ज्ञाप्यत इत्याहुः । ननु हवनस्यार्थो दानं दाना25 यर्थेन हुधातुना निष्पन्नत्वात् , दानञ्च लोके ज्ञातमेव न त्वज्ञातम् , तदङ्गक्रियत्वाच्चाग्निहोत्रस्य सेवादिभिस्तुल्यतैवेत्याशङ्कतेमात्रापति । साम्ये हेत्वन्तरमप्याह-उत्तरक्रियेति, उपस्थानादीनां यथा सेवा उत्तरक्रियामात्रं तथाऽग्निहोत्रमपि अमिष्टोमादीनामुत्तरक्रियामात्रमिति तुल्यमित्यर्थः । अथ सेवादितुल्यत्वेऽग्निहोत्रस्य लोकप्रसिद्धदानाद्यर्थक्रियावदेव तन्मात्रार्थतैव स्यादित्युत्तरयति-लोकविदितेति । कथं लोके दानं प्रसिद्धमित्यत्राह-लोके हीति, स्वपरानुग्रहाय द्रव्यादेस्त्यागो दानमित्यर्थः । सोऽपि त्यागो न यत्र कुत्रापि किन्तूचिते स्थान इत्याह-सङ्गत्येति, दानपात्रतामात्रमनेन दर्शितम् , नेयं 30 चतुर्थीनिमित्ता संप्रदानता, सम्यक् प्रदीयतेऽस्मै तत्सम्प्रदानमिति व्युत्पत्तिसिद्ध स्यैव सम्प्रदानत्वात् , दानक्रियाकर्मणा कत्तो यमभिप्रेति सम्बध्नाति सम्बद्धुमीप्सते वा तथाविधकारकस्यैव सम्प्रदानत्वात् , तथाचोक्तम् 'अनिराकरणात् कर्तुरत्यागाझं कर्मणेप्सितम् । प्रेरणानुमतिभ्याञ्च लभते सम्प्रदानताम्' इति । महाभाध्यकृताऽन्वर्थताया अविवक्षितत्वाच्च, अत एव खण्डि. कोपाध्यायः शिष्याय चपेटां ददातीत्यादि प्रयोगः । ननु हवनदानक्रियाकर्मणा हविरादिना होत्रा सम्बद्धमिष्यमाणत्वादग्नेलौकिक सम्प्रदानत्वमस्त्येवेत्याशङ्कते-यदि चेति । एवं तर्हि पूर्ववल्लौकिक एव गृह्यमाणेऽर्थ विचारानर्थक्यं लोकप्रामाण्यात् ।
____Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org