________________
15
अपूर्वार्थताभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् मन्योऽन्यदानभोजनादिक्रियाः । प्रधानादिवादसाधुता वा, प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात् , वेदवादासाधुता वा तेषां स्यात् ।
(यदि चेति) अग्नय इति सम्प्रदानविशेषो लोकयज्ञतुल्यत्वाल्लौकिक एव, ननु लौकिक एव गृह्यमाणेऽर्थे इदमेवं नैवं वेति विचारोऽर्थवान् न भवेत् , यदि भवेच्चतुष्पात्त्वे सत्युत्प्लुत्य गमनाल्लोमवान् हरिणवन्मण्डूकः, तत एव वा निर्लोमा हरिणो मण्डूकवत्स्यादिति प्रसिद्धिविपरीतं सिद्धयेल्लोकाप्रामा- 5 ण्यकरणत इति तत्प्रसक्तमिहापीत्याह-ननु लौकिक एव गृह्यमाण इत्याद्युक्तदर्शनवदिति । नैवं सेत्यादि, अत्राप्यनिष्टापादनसाधनम् , नैवं सा तथाभूतार्था हवनक्रिया, तदाभत्वात् , तदाभत्वमस्याः परमार्थेनादामात्मकाऽऽपादनात् , सच्च सिद्धम् , यथा बालरमणका दिक्रियायां स्वाद्वन्नादिसंज्ञादिक्रियायामन्योऽन्यदानभोजनादिक्रियास्तदाभाः एवमिदमपि दानमग्नौ प्रक्षेप इति, इदन्त्वनिष्टापादनं प्रधानादिवादसाधुवा च प्रसिद्धिविपरीतेत्यादि, प्रसिद्धविपरीतं तत्त्वं तद्भावस्तत्त्वं प्रसिद्धिविपरीते तत्त्वे स्थितोऽर्थोऽस्य 10 बादस्य नावात् प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात् , वेदनादवत् साधुता स्यात् प्रधानसंसर्गक्षण. भङ्गाद्यात्मकादिवादानां प्रधानादिवादानां वाऽसाधुताऽभ्युपगमवदुक्तहेतोर्वेदवादासाधुता वा स्यादित्युभयथाऽप्यनिष्टापादनम् ।
अथाऽग्निहोत्रमित्यस्यापूर्वविशेषाभिधानार्थतैव कल्प्यते तथा सत्यपूर्वाभिधाने कोऽर्थः कृतः स्यात् ?
अथाग्निहोत्रमित्यादि, अथेत्यधिकारान्तरे, अथ तेषु विकल्पेष्वग्निहोत्रशब्दस्य क्रियावाचित्वे सर्वथा दोषोत्यादभीतेन परेणाग्निहोत्रमित्यस्यापूर्व विशेषाभिधानार्थतैव कल्प्यते न पूर्वोऽपूर्वोsदृशे धर्मविशेषः, तदभिधानमर्थः प्रयोजनं व्यापारस्तावोऽपूर्वविशेषाभिधानार्थतैव कल्प्यते । विशेषशब्दः परस्परविशिष्टाभिर्यज्ञसंस्थानादिभिरग्निष्टोमादिभिरिष्टिभिरभिव्यज्योऽपूर्वोऽपि विशेष्यते, द्रव्यमंत्रदेवतादिविशिष्टाभिर्मा भूद्यज्ञसंज्ञायाः क्रियाया एव धर्मत्वमिति । यथा कैश्चिन्मीमांसकैरेवं 20 लोकाप्रामाण्ये वा प्रसिद्धिविपरीतसिद्धिरित्युत्तरयति-ननु लौकिक एवेति । अत्रापीति, लौकिकत्वपक्षेऽप्यनिष्टमापद्यत इति तत्साधनमाहेति भावः । तामेव साधयति-नैवमिति, सा हवनक्रिया न लोकप्रसिद्धदानात्मिका, तदाभत्वात् , यथा बालरमणक्रियायामन्योऽन्यदानभोजनादिक्रियाः इति प्रयोगः, यथा बालकैः क्रीडायै कृतक्रियामध्ये क्रीडारूपा एव परस्परमन्नादिदामभोजनादिक्रिया वास्तविकान्नदानभोजनादिक्रियासादृश्येन भासमाना अपि न प्रसिद्धदानभोजनादिवरूपास्तथैव हवनक्रियापीति भावः । तस्यास्तदाभत्वमपि परमार्थतोऽदानात्मकत्वस्यापादितत्वात् सिद्धमित्याह-तदाभत्वमस्या इति। 25 लौकिकत्वेऽपरमप्यनिष्टापादनमाह-इदन्विति । प्रधानादिवादः साधुः प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात् , वेदवादवत् । अथ वा वेदवादोऽसाधुः, प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात् प्रधानादिवादवदित्युभयथाप्यनिष्टप्रसङ्ग एव लोकप्रसिद्धिविरुद्धार्थप्रकाशकत्वादिति भावः । सांख्यमतापेक्षया प्रधानेति, वैशेषिकापेक्षया संसर्गेति, बौद्धापेक्षया क्षणभङ्गेति । अथाग्निहोत्रादिशब्दानां क्रियावाचित्वे दोषमभिधायापूर्वविशेषाभिधायकत्वे दोषप्रदर्शनायाधिकारान्तरमारचयति-अथेति । नैयायिकादिभिर्विहितयागादिक्रियासाध्यापूर्वस्यैव धर्मत्वाङ्गीकारात्तस्य चावान्तरव्यापारमात्रत्वाच्छ्रेयःसाधनत्वाभावेन याग-30 होमादिरेव धर्मो न त्वपूर्वमिति मीमांसकाः, यागादिकर्तर्येव धार्मिकपदप्रयोगदर्शनात्तथा चाग्निहोत्रशब्दस्यापूर्वविशेषस्य धर्माख्यस्याभिधानमेव प्रयोजनं तदभिधाने वा तच्छब्दस्य व्यापारः कल्प्यते इति पूर्वपक्षाभिप्रायः। विशेषशब्द इति, अपूर्वविशेषेत्यत्र विशेषशब्द इत्यर्थः । अङ्गक्रियाभिः द्रव्यमंत्रदेवतादिविशिष्टाभिरग्निष्टोमादिभिरिष्टिभिरभिव्यज्योऽपूर्व एव धर्मशब्दवाच्यो भवेत् , किन्तु प्रधानभूतयज्ञादिक्रियैव धर्मो मा भूदिखेतमर्थ सूचयितुं विशेषशब्द इति भावः । यथा कैश्चिदिति,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org